संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् पूर्वभागः| त्रिचत्वारिंशत्तमोऽध्यायः कूर्मपुराणम् पूर्वभागः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशतितमोऽध्यायः विंशतितमोऽध्यायः एकविंशतितमोऽध्यायः द्वाविंशतितमोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विंशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः अष्टाविंशतितमोऽध्यायः नवविंशतितमोऽध्यायः त्रिंशत्तमोऽध्यायः एकत्रिंशत्तमोऽध्यायः द्वात्रिंशत्तमोऽध्यायः त्रयस्त्रिंशत्तमोऽध्यायः चतुस्त्रिंशत्तमोऽध्यायः पञ्चत्रिंशत्तमोऽध्यायः षड्त्रिंशत्तमोऽध्यायः सप्तत्रिंशत्तमोऽध्यायः अष्टत्रिंशत्तमोऽध्यायः नवत्रिंशत्तमोऽध्यायः चत्वारिंशत्तमोऽध्यायः एकचत्वारिंशत्तमोऽध्यायः द्विचत्वारिंशत्तमोऽध्यायः त्रिचत्वारिंशत्तमोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पञ्चचत्वारिंशत्तमोऽध्यायः षड्चत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशत्तमोऽध्यायः नवचत्वारिंशात्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाषत्तमोऽध्यायः द्विपञ्चाषत्तमोऽध्यायः त्रिपञ्चाषत्तमोऽध्यायः पूर्वभागः - त्रिचत्वारिंशत्तमोऽध्यायः पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे. Tags : kurmapuranpuranकूर्मपुराणपुराणसंस्कृत त्रिचत्वारिंशत्तमोऽध्यायः Translation - भाषांतर सूत उवाचएवमेष महादेवो देवदेवः पितामहः ।करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥४३.१तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः ।तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥४३.२सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च ।विश्वश्रवाः पुनश्चान्यः संयद्वसुरतः परः ॥४३.३अर्वावसुरिति ख्यातः स्वरकः सप्त कीर्तिताः ।सुषुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ॥४३.४तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिपठ्यते ।हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ॥४३.५विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा ।विश्वश्रवास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ॥४३.६संयद्वसुरिति ख्यातः यः पुष्णाति स लोहितम् ।बृहस्पतिं सुपुष्णाति रश्मिरर्वावसुः प्रभुः ॥४३.७शनैश्चरं प्रपुष्णाति सप्तमस्तु सुराट् तथा ।एवं सूर्यप्रभावेन सर्वा नक्षत्रतारकाः ॥४३.८वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च ।दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ॥४३.९आदानान्नित्यमादित्यस्तेजसां तमसामपि ।आदत्ते स तु नाडीनां सहस्रेण समंततः ॥४३.१०नादेयांश्चैव सामुद्रं कौप्यंश्चैव सहस्रदृक् ।स्थावरंञ्जङ्गमञ्चैव यच्च कुल्यादिकं पयः ॥४३.११तस्य रश्मिसहस्रंन्तु शीतवर्षोष्णनिस्रवम् ।तासां चतुः शता नाड्यो वर्षन्ते चित्रमूर्तयः ॥४३.१३चन्द्रनाश्चैव गाहाश्च केतला भूतलास्तथा ।अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥४३.१४हिमोद्वाताश्च ता नाड्यो रश्मय निसृताः पुनः ।रश्म्यो मेष्यश्च पौष्यश्च ह्लादिन्यो सर्जनास्तथा ॥४३.१५चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः ।शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा ॥४३.१६शुक्लास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः ।समं बिभर्ति ताभिः स मनुष्यपितृदेवताः ॥४३.१७मनुष्यानौषधेनेह स्वधया च पितॄनपि ।अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥४३.१८वसन्ते ग्रैष्मिके चैव षड्भिः स तपति प्रभुः।शरद्यपि च वर्षासु चतुर्भिः संप्रवर्षति ॥४३.१९हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ।वरुणो माघमासे तु सूर्यः पूषा तु फल्गुने ॥४३.२०चैत्रे मासे स देवेशो धाता वैशाखतापनः ।ज्येष्ठामूले पतेदिन्द्रः आषाढे तपते रविः ॥४३.२१विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः ।पर्जन्योऽश्वयुजि त्वष्टाकार्तिके मासि भास्करः ॥४३.२२मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ।पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥४३.२३षड्भिः सहस्रैः पूषा तु देवोंशः सप्तभिस्तथा ।धाताऽष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥४३.२४विवस्वान् दशभिः पाति पात्येकादशभिर्भगः ।सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ॥४३.२५अर्यमा दशभिः पाति पर्जन्यो नवभिस्तथा।षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वसृक् ॥४३.२६वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ।श्वेतो वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः ॥४३.२७हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः ।औषधीषु कलां धत्ते स्वधामपि पितृष्वथ ॥४३.२८सूर्योऽमरत्वममृते त्रयं त्रिषु नियच्छति ॥अन्ये चाष्टौ ग्रहा ज्ञेयाः सूर्येणाधिष्ठिता द्विजाः ॥४३.२९चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव बृहस्पतिः ।भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः ॥४३.३०सर्वे ध्रुवे निबद्धा वै ग्रहास्ते वातरश्मिभिः ।भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥४३.३१अलातचक्रवद् यान्ति वातचक्रेरितास्तथा ।यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः ॥४३.३२रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।वामदक्षिणतो युक्ता दश तेन निशाकरः ॥४३.३३वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा ।ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा ॥४३.३४स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते ।आपूर्यते परस्यान्ते सततं दिवसक्रमात् ॥४३.३५क्षीणायितं सुरैः सोममाप्याययति नित्यदा ।एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः ॥४३.३६एषा सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः ।पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात् ॥४३.३७संपूर्णमर्धमासेन तं सोमममृतात्मकम् ।पिबन्ति देवता विप्रा यतस्तेऽमृतभोजनाः ॥४३.३७ततः पञ्चदशे भागे किंचिच्छिष्टे कलात्मके ।अपराह्णे पितृगणा जघन्यं पर्युपासते ॥४३.३८पिबन्ति द्विकलं कालं शिष्टा तस्य कला तु या ।सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम् ॥४३.३९निः सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ।मासतृप्तिमवाश्यन्ति पितरः सन्ति निर्वृताः ॥४३.४०न सोमस्य विनाशः स्यात् सुधा देवैस्तु पीयते ।एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सत्तमाः ॥४३.४१सोमपुत्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः ।वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ॥४३.४२शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः ।अष्टभिश्चापि भौमस्य रथो हैमः सुशोभनः ॥४३.४३बृहस्पतेरथोऽष्टाश्वः स्यन्दनो हेमनिर्मितः ।रथो रूप्यमयोऽष्टाश्वो मन्दस्यायसनिर्मितः ॥४३.४४स्वर्भानोर्भास्करारेश्च तथाष्टाभिर्हयैर्वृतः ।एते महाग्रहाणां वै समाख्याता रथाश्च वै ॥४३.४५सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः ।ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्येशेषतः ।भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः ॥४३.४६इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP