आर्या सप्तशती - क्ष-कार-व्रज्या

आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.


क्षीरस्य तु दयितत्वं यतो ऽपि शान्तोपचारम् आसाद्य ।
शैलो ऽङ्गान्य् आनमयति प्रेम्णः शेषो ज्वरस्येव ॥६९४॥


क्षान्तम् अपसारितो यच् चरणाव् उपधाय सुप्त एवासि ।
उद्घाटयसि किम् ऊरु निःश्वासैः पुलकयन्न् उष्णैः ॥६९५॥


क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच् छतश् च मदम् उच्चैः ।
मधुनो लघु-पुरुषस्य च गरिमा लघिमा च भेदाय ॥६९६॥


पूर्वैर् विभिन्न-वृत्तां गुणाढ्य-भव-भूति-बाण-रघुकारैः ।
वाग्-देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥६९७॥


सत्-पात्रोपनयोचित-सत्-प्रतिबिम्बाभिनव-वस्तु ।
कस्य न जनयति हर्षं सत्-काव्यं मधुर-वचनं च ॥६९८॥


एका ध्वैन्-द्वितीया तिर्भुवन-सारा स्फुटोक्ति-चातुर्या ।
पञ्चेषु-षट्पद-हिता भूषा श्रवणस्य सप्त-शती ॥६९९॥


कवि-समर-सिंह-नादः स्वरानुवादः सुधैक-संवादः ।
विद्वद्-विनोद-कन्दः सन्दर्भो ऽयं मया सृष्टः ॥७००॥

उदयन-बलभद्राभ्यां सप्तशती शिष्य-सोदराभ्यां मे ।
द्यौर् इव रवि-चन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥७०१॥


हरि-चरणाञ्जलिम् अलं कवि-वर-हर्षाय बुद्धिमान् सततम् ।
कृतार्या-सप्त-शतीम् एतां गोवर्धनाचार्यः ॥७०२॥



'इति गोवर्धनाचार्य-विरचिता आर्या-सप्तशती समाप्ता

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP