आर्या सप्तशती - ग-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
गुणम् अधिगतम् अपि धनवान् न चिरान् नाशयति रक्षति दरिद्रः ।
मज्जयति रज्जुम् अम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥१९४॥
गुरुर् अपि लघूपनीतो न निमज्जति नियतम् आशये महतः ।
वानकरोपनीतः शैलो मकरालयस्येव ॥१९५॥
गौरी-पतेर् गरीयो गरलं गत्वा गले जीर्णम् ।
जीर्यति कर्णे महतां दुर्वादो नाल्पम् अपि विशति ॥१९६॥
गृहपति-पुरतो जारं कपट-कथा-कथित-मन्मथावस्थम् ।
प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥१९७॥
गति-गञ्जित-वर-युवतिः करी कपोलौ करोतु मद-मलिनौ ।
मुख-बन्ध-मात्र-सिन्धुर लबोदर किं मदं वहसि ॥१९८॥
गेहिन्याः शृण्वन्ती गोत्र-स्खलितापराधतो मानम् ।
स्निग्धां प्रिये स-गर्वां सखीषु बाला दृशं दिशति ॥१९९॥
ग्रीष्ंअ-मये समयेऽस्मिन् विनिर्मितं कलय केलि-वन-मूले ।
अलम् आलवाल-वलय-च्छलेन कुण्डलितम् इव शैत्यम् ॥२००॥
गुण-बद्ध-चरण इति मा लीला-विहगं विमुञ्च सखि मुग्धे ।
अस्मिन् वलयित-शाखे क्षणेन गुण-यन्त्रणं त्रुटति ॥२०१॥
गुरु-गर्जि-सान्द्र-विद्युद्-भय-मुद्रित-कर्ण-चक्षुषां पुरतः ।
बाला चुम्बति जारं वज्राद् अधिको हि मदनेषुः ॥२०२॥
गृहिणी-गुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।
मानः प्रभुता वाम्यं विभूषणं वाम-नयनानाम् ॥२०३॥
गुणम् आन्तरम् अगुणं वा लक्ष्मीर् गङ्गा च वेद हरि-हरयोः ।
एका पदेऽपि रमते न वसति निहिता शिरस्य् अपरा ॥२०४॥
गत्वा जीवित-संशयम् अभ्यस्तः सोढुम् अतिचिराद् विरहः ।
अकरुणः पुनर् अपि दित्ससि सुरत-दुरभ्यासम् अस्माकम् ॥२०५॥
गोत्र-स्खलित-प्रश्नेऽप्य् उत्तरम् अतिशील-शीतलं दत्त्वा ।
निःश्वस्य मोघ-रूपे स्व-वपुषि निहितं तया चक्षुः ॥२०६॥
गन्ध-ग्राहिणि शालोन्मीलित-निर्यास-निहित-निखिलाङ्गि ।
उपभुक्त-मुक्त-भूरुह-शतेऽधुना भ्रमरि न भ्रमसि ॥२०७॥
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जा-फलैः कनकम् ॥२०८॥
गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।
मम नौका-द्वितयार्पित-गुण इव हृदयं द्विधा भवति ॥२०९॥
गुण आकर्षण-योग्यो धनुष इवैको ऽपि लक्ष-लाभाय ।
लूतातन्तुभिर् इव किं गुणैर् विमर्दासहैर् बहुभिः ॥२१०॥
गायति गीते वंशे वादयति स विपञ्चीषु ।
पाठयति पञ्जर-शुकं तव सन्देशाक्षरं रामा ॥२११॥
गणयति न मधु-व्ययम् अयम् अविरतम् आपिबतु मधुकरः कुमुदम् ।
सौभाग्य-मानवान् परम् असूयति द्यु-मणये चन्द्रः ॥२१२॥
गुण-विधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।
हृतम् अमुना मालायाः समीरणेनेव सौरभ्यम् ॥२१३॥
गुरु-सदने नेदीयसि चरण-गते मयि च मूकयापि तया ।
नूपुरम् अपास्य पदयोः किं न प्रियम् ईरितं प्रियया ॥२१४॥
ग्रन्थिलतया किम् इक्षोः किम् अपभ्रंशेन भवति गीतस्य ।
किम् अनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥२१५॥
गेहिन्या चिकुर-ग्रह-समय-ससीत्कार-मीलित-दृशापि ।
बाला-कपोल-पुलकं विलोक्य निहितो ऽस्मि शिरसि पदा ॥२१६॥
गुरु-पक्ष्म जागरारुण-घूर्णत्-तारं कथञ्चिद् अपि वलते ।
नयनम् इदं स्फुट-नख-पद-निवेश् अ-कृत-कोप-कुटिल-भ्रु ॥२१७॥
इति विभाव्याख्या-समेता ग-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP