आर्या सप्तशती - ई-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
ईर्ष्या-रोष-ज्वलितो-निज-पति-सङ्गं विचिन्तयंस् तस्याः ।
च्युत-वसन-जघन-भावन-सान्द्रानन्देन निर्वामि ॥११४॥
ईश्वर-परिग्रहोचित-मोहो ऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधान-सारा वीत-रसा कितव-कलिकेयम् ॥११५॥
ईषद् अवशिष्ट-जडिमा शिशिरे गत-मात्र एव चिरम् अङ्गैः ।
नव-यौवनेव तन्वी निषेव्यते निर्भरं वापी ॥११६॥
इति विभाव्याख्या-समेता ई-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP