आर्या सप्तशती - र-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
राज्याभिषेक-सलिल-क्षालित-मौलेः कथासु कृष्णस्य ।
गर्व-भर-मन्थराक्षी पश्यति पद-पङ्कजं राधा ॥४९०॥
रति-कलह-कुपित-कान्ता-कर-चिकुराकर्ष-मुदित-गृह-नाथम् ।
भवति भवनं तद् अन्यत् प्राग्-वंशः पर्ण-शाला वा ॥४९१॥
रोगो राजायत इति जनवादं सत्यम् अद्य कलयामि ।
आरोग्य-पूर्वकं त्वयि तल्प-प्रान्तागते सुभग ॥४९२॥
रुद्ध-स्वरस-प्रसरस्यालिभिर् अग्रे नतं प्रियं प्रति मे ।
स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥४९३॥
रूपम् इदं कान्तिर् असाव् अयम् उत्कर्षः सुवर्ण-रचनेयम् ।
दुर्गत-मिलिता ललिते भ्रमसि प्रतिमन्दिर-द्वारम् ॥४९४॥
रचिते निकुञ्ज-पत्रैर् भिक्षुक-पात्रे ददाति सावज्ञम् ।
पर्युषितम् अपि सुतीक्ष्ण-श्वास-कदुष्णं वधूर् अन्नम् ॥४९५॥
रक्षति न खलु निज-स्थितिम् अलघुः स्थापयति नायकः स यथा ।
तिष्ठति तथैव तद्-गुण-विद्धेयं हार-यष्ठिर् इव ॥४९६॥
राजसि कृशाङ्गि मङ्गल-कलशी सहकार-पल्लवेनेव ।
तेनैव चुम्बित-मुखी प्रथमाविर्भूत-रागेण ॥४९७॥
रूप-गुण-हीन-हार्या भवति लघुर् धूलिर् अनिल-चपलेव ।
प्रथयति पृघु-गुण-नेया तरुणी तरणिर् इव गरिमाणम् ॥४९८॥
रागे नवे विजृम्भति विरह-क्रम-मन्द-मन्द-मन्दाक्षे ।
सस्मित-सलज्जम् ईक्षितम् इदम् इष्टं सिद्धम् आचष्टे ॥४९९॥
रोषो ऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।
वर्षाणाम् उपलो ऽपि हि सुस्निग्धः क्षणिक-कल्पश् च ॥५००॥
रोदनम् एतद् धन्यं सखि किं बहु मृत्युर् अपि ममानर्घः ।
स्वप्नेनेव हि विहितो नयन-मनो-हारिणा तेन ॥५०१॥
रोषेणैव मया सखि वक्रो ऽपि ग्रन्थिलो ऽपि कठिनो ऽपि ।
ऋजुताम् अनीयतायं सद्यः स्वेदेन वंश इव ॥५०२॥
रजनीम् इयम् उपनेतुं पितृ-प्रसूः प्रथमम् उपतस्थे ।
रञ्जयति स्वयम् इन्दुं कुनायकं दुष्ट-दूतीव ॥५०३॥
इति विभाव्याख्या-समेता र-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP