आर्या सप्तशती - म-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
मधु-मद-वीत-व्रीडा यथा यथा लपति संमुखं बाला ।
तन्-मुखम् अजात-तृप्तिस् तथा तथा वल्लभः पिबति ॥४२७॥
मित्रैर् आलोच्य समं गुरु कृत्वा कदनम् अपि समारब्धः ।
अर्थः सताम् इव हतो मुख-वैलक्ष्येण मानो ऽयम् ॥४२८॥
मम रागिणो मनस्विनि करम् अर्पयतो ददासि पृष्ठम् अपि ।
यदि तद् अपि कमल-बन्धोर् इव मन्ये स्वस्य सौभाग्यम् ॥४२९॥
मा स्पृश माम् इति सकुपितम् इव भणितं व्यञ्जिता न च व्रीडा ।
आलिङ्गितया सस्मितमुक्तम् अनाचार किं कुरुषे ॥४३०॥
मूलानि च निचुलानां हृदयानि च कूल-वसति-कुलटानाम् ।
मुदिर-मदिरा-प्रमत्ता गोदावरि किं विदारयसि ॥४३१॥
मलय-द्रुम-साराणाम् इव धीराणां गुण-प्रकर्षो ऽपि ।
जड-समय-निपतितानाम् अनादरायैव न गुणाय ॥४३२॥
मधुमथन-मौलि-माले सखि तुलयसि तुलसि किं मुधा राधाम् ।
यत् तव पदम् अदसीयं सुरभयितुं सौरभोद्भेदः ॥४३३॥
मयि यास्यति कृत्वावधि-दिन-सङ्ख्यं चुम्बनं तथाश्लेषम् ।
प्रिययानुशोचिता सा तावत् सुरताक्षमा रजनी ॥४३४॥
मृगमद-निदानम् अटवी कुङ्कुमम् अपि कृषक-वाटिका वहति ।
हट्टविलासिनि भवती परम् एका पौर-सर्वस्वम् ॥४३५॥
मधु-दिवसेषु भ्राम्यन् यथा विशति मानसं भ्रमरः ।
सखि लोह-कण्टक-निभस् तथा मदन-विशिखो ऽपि ॥४३६॥
मयि चलिते तव मुक्ता दृशः स्वभावात् प्रिये स-पानीयाः ।
सत्यम् अमूल्याः सद्यः प्रयान्ति मम हृदय-हारत्वम् ॥४३७॥
मुग्धे मम मनसि शराः स्मरस्य पञ्चापि सन्ततं लग्नाः ।
शङ्के स्तन-गुटिका-द्वयम् अर्पितम् एतेन तव हृदये ॥४३८॥
मधुमथन-वदन-विनिहित-वंशी-सुषिरानुसारिणो रागाः ।
हन्त हरन्ति मनो मम नलिका-विशिखाः स्मरस्येव ॥४३९॥
महतोः सुवृत्तयोः सखि हृदय-ग्रह-योग्ययोः समुच्छ्रितयोः ।
सज्जनयोः स्तनयोर् इव निरन्तरं सङ्गतं भवति ॥४४०॥
मम वारितस्य बहुभिर् भूयो भूयः स्वयं च भावयतः ।
जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥४४१॥
मग्नो ऽसि नर्मदाया रसे हृतो वीचि-लोचन-क्षेपैः ।
यद्य् उच्यसे तरुवर भ्रष्टो भ्रंशो ऽपि ते श्लाघ्यः ॥४४२॥
मेनाम् उल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।
कृत-कर-बन्ध-विलम्बः परिणयने गिरिश-कर-कम्पः ॥४४३॥
मधु-गन्धि घर्म-तिम्यत्-तिलकं स्खलद्-उक्तिं घूर्ण-दरुणाक्षम् ।
तस्याः कदाधरामृतम् आननम् अवधूय पास्यामि ॥४४४॥
मेदिन्यां तव निपतति न पदं बहु-वल्लभेति गर्वेण ।
आश्लिष्य कैर् न तरुणैस् तुरीव वसनैर् विमुक्तासि ॥४४५॥
मूले निसर्ग-मधुरं समर्पयन्तो रसं पुरो विरसाः ।
इक्षव इव पर-पुरुषा विविधेषु रसेषु विनिधेयाः ॥४४६॥
महति स्नेहे निहितः कुसुमं बहु दत्तम् अर्चितो बहुशः ।
वक्रस् तद् अपि शनैश्चर इव सखि दुष्ट-ग्रहो दयितः ॥४४७॥
मा शबर-तरुणि पीवर-वक्षोरुहयोर् भरेण भज गर्वम् ।
निर्मोकैर् अपि शोभा ययोर् भुजङ्गीभिर् उन्मुक्तैः ॥४४८॥
मम कुपितायाश् छायां भूमाव् आलिङ्ग्य सखि मिलत्-पुलकः ।
स्नेहमयत्वम् अनुज्झन् करोति किं नैष माम् अरुषम् ॥४४९॥
मुषित इव क्षण-विरहे रिपुर् इव कुसुमेषु-केलि-सङ्ग्रामे ।
दास इव श्रम-समये भजन् नताङ्गीं न तृप्यामि ॥४५०॥
मुञ्चसि किं मानवतीं व्यवसायाद् द्विगुण-मन्यु-वेगेति ।
स्नेह-भवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥४५१॥
मलयजम् अपसार्य घनं वीजन-विघ्नं विधाय बाहुभ्याम् ।
स्मर-सन्तापाद् अगणित-निदाघम् आलिङ्गते मिथुनम् ॥४५२॥
महतो ऽपि हि विश्वासान् महाशया दधति नाल्पम् अपि लघवः ।
संवृणुतेऽद्री-नुदधिर् निदाघ-नद्यो न भेकम् अपि ॥४५३॥
मधु-धारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।
कृत-मुख-भङ्गापि रसं ददासि मम सरिद् इवाम्भोधेः ॥४५४॥
मदनाकृष्ट-नुर्ज्या-घातैर् इव गृहिणि पथिक-तरुणानाम् ।
वीणा-तन्त्री-क्वाणैः केषां न विकम्पते चेतः ॥४५५॥
मम भयम् अस्याः कोपो निर्वेदो ऽस्या ममापि मन्दाक्षम् ।
जातं क्व चान्तरिक्षे स्मित-संवृति-नमित-कन्धरयोः ॥४५६॥
मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।
इयम् एव नर्मदा मम वंश-प्रभवानुरूप-रसा ॥४५७॥
मृगमद-लेपनम् एनं नील-निचोलैव निशि निषेव त्वम् ।
कालिन्द्याम् इन्दीवरम् इन्दिन्दिर-सुन्दरीव सखि ॥४५८॥
मम सख्या नयन-पथे मिलितः शक्तो न कश्चिद् अपि चलितुम् ।
पतितो ऽसि पथिक विषमे घट्ट-कुटीयं कुसुम-केतोः ॥४५९॥
महता प्रियेण निर्मितम् अप्रियम् अपि सुभग सह्यतां याति ।
सुत-सम्भवेन यौवन-विनाशनं न खलु खेदाय ॥४६०॥
मान-ग्रह-गुरु-कोपाद् अनु दयितात्य् एव रोचते मह्यम् ।
काञ्चनमयी विभूषा दाहाञ्चित-शुद्ध-भावेव ॥४६१॥
इति विभाव्याख्या-समेता म-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP