आर्या सप्तशती - आ-कार-व्रज्या
आर्या सप्तशती हा आचार्य गोवर्धनाचार्य यांनी रचलेला पवित्र ग्रंथ आहे.
आन्तरम् अपि बहिरि व हि व्यञ्जयितुं रसम् अशेषतः सततम् ।
असती सत्-कवि-सूक्तिः काच-घटीति त्रयं वेद ॥७४॥
आलोक एव विमुखी क्वचिद् अपि दिवसे न दक्षिणा भवसि ।
छायेव तद् अपि तापं त्वम् एव मे हरसि मानवति ॥७५॥
आज्ञा काकुर् याच्ञा-क्षेपो हसितं च शुष्क-रुदितं च ।
इति निधुवन-पाण्डित्यं ध्यायंस् तस्या न तृप्यामि ॥७६॥
आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
असमय-मानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥७७॥
आसाद्य भङ्गम् अनया द्यूते विहिताभिरुचित-केलि-पणे ।
निःसारयताक्षानिति कपट-रुषोत्सारिताः सख्यः ॥७८॥
आदरणीय-गुणा सखि महता निहितासि तेन शिरसि त्वम् ।
तव लाघव-दोषो ऽयं सौध-पताकेव यच् चलसि ॥७९॥
आर्द्रम् अपि स्तन-जघनान् निरस्य सुतनु त्वयैतद् उन्मुक्तम् ।
ख-स्थम् अवाप्तुम् इव त्वां तपनांशून् अंशुकं पिबति ॥८०॥
आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।
मग्नापि परिणयापदि जार-मुखं वीक्ष्य हसितैव ॥८१॥
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वम् एव श्रीर् इव कमलस्य मम मनसः ॥८२॥
आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।
पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥८३॥
आदान-पान-लेपैः काश्चिद् गरलोपताप-हारिण्यः ।
सदसि स्थितैव सिद्धौषधि-वल्ली कापि जीवयति ॥८४॥
आन्दोल-लोल-केशीं चल-काञ्ची-किङ्किणी-गण-क्वणिताम् ।
स्मरसि पुरुषायितां तां स्मर-चामर-चिह्न-यष्टिम् इव ॥८५॥
आक्षिपसि कर्णम् अक्ष्णा बलिर् अपि बद्धस् त्वया त्रिधा मध्ये ।
इति जित-सकल-वदान्ये तनु-दाने लज्जसे सुतनु ॥८६॥
आक्षेप-चरण-लङ्घन-केश-ग्रह-केलि-कुतुक-तरलेन ।
स्त्रीणां पतिर् अपि गुरुर् इति धर्मं न श्राविता सुतनुः ॥८७॥
आगच्छतानवेक्षित-पृष्ठेनार्थी वराटकेनेव ।
मुषितास्मि तेन जघनां-शुकम् अपि वोढुं नशक्तेन ॥८८॥
आकुञ्चितैक-जङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
सुतनोः श्वसित-क्रमन-मद्-उदर-स्फुट-नाभि शयनम् इदम् ॥८९॥
आदाय धनम् अनल्पं ददानया सुभग तावकं वासः ।
मुग्धा रजक-गृहिण्या कृता दिनैः कतिपयैर् निःस्वा ॥९०॥
आस्तां वरम् अवकेशी मा दोह-दमस्य रचय पूग-तरोः ।
एतस्मात् फलिताद् अपि केवलम् उद्वेगम् अधिगच्छ ॥९१॥
आरब्धम् अब्धि-मथनं स्वहस्तयित्वा द्वि-जिह्वम् अमरैर् यत् ।
उचितस् तत्-परिणामो विषमं विषम् एव यज् जातम् ॥९२॥
आवर्जितालकालि श्वासोत्कम्प-स्तनार्पितैक-भुजम् ।
शयनं रति-विवश-तनोः स्मरामि शिथिलांशुकं तस्याः ॥९३॥
आम्राङ्कुरो ऽयम् अरुण-श्यामल-रुचिर् अस्थि-निर्गतः सुतनु ।
नव-कमठ-कर्पर-पुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥९४॥
आभङ्गुराग्र-बहु-गुण-दीर्घास्वाद-प्रदा प्रिया-दृष्टिः ।
कर्षति मनो मदीयं ह्रद-मीनं बडिश-रज्जुर् इव ॥९५॥
आलप यथा यथेच्छसि युक्तं तव कितव किम् अपवारयसि ।
स्त्री-जाति-लाञ्छनम् असौ जीवित-रङ्का सखी सुभग ॥९६॥
आस्वादितो ऽसि मोहाद् बत विदिता वदन-माधुरी भवतः ।
मधु-लिप्त-क्षुर रसनाच् छेदाय परं विजानासि ॥९७॥
आकृष्टि-भग्न-कटकं केन तव प्रकृति-कोमलं सुभगे ।
धन्येन भुज-मृणालं ग्राह्यं मदनस्य राज्यम् इव ॥९८॥
आरुह्य दूरम् अगणित-रौद्र-क्लेशा प्रकाशयन्ती स्वम् ।
वात-प्रतीच्छन-पटी वहित्रम् इव हरसि मां सुतनु ॥९९॥
आयासः पर-हिंसा वैतंसिक-सारमेय तव सारः ।
त्वाम् अपसार्य विभाज्यः कुरङ्ग एषो ऽधुनैवान्यैः ॥१००॥
आनयति पथिक-तरुणं हरिण इह प्रापयन्न् इवात्मानम् ।
उपकलम् अगो ऽपि कोमल-कलम् आवलिक-वलनोत्तरलः ॥१०१॥
आसीद् एव यद् आर्द्रः किम् अपि तदा किम् अयम् आहतो ऽप्य् आह ।
निष्ठुर-भावाद् अधुना कटूनि सखि रटति पटह इव ॥१०२॥
आज्ञा-करश् च ताडन-परिभव-सहनश् च सत्यम् अहम् अस्याः ।
न तु शील-शीतलेयं प्रियेतरद् वक्तुम् अपि वेद ॥१०३॥
आधाय दुग्ध-कलशे मन्थानं श्रान्त-दोर्-लता गोपी ।
अप्राप्त-पारिजाता दैवे दोषं निवेशयति ॥१०४॥
आस्तां मानः कथनं सखीषु वा मयि निवेद्य-दुर्विनये ।
शिथिलित-रति-गुण-गर्वा ममापि सा लज्जिता सुतनुः ॥१०५॥
आवर्तैर् आतर्पण-शोभां डिण्डीर-पाण्डुरैर् दधती ।
गायति मुखरित-सलिला प्रिय-सङ्गम-मङ्गलं सुरसा ॥१०६॥
इति विभाव्याख्या-समेता आ-कार-व्रज्या ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP