English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 285

Puran Kavya Stotra Sudha - Page 285

Puran Kavya Stotra Sudha - Page 285


पुराणकाव्यस्तोत्रसुधा ।
विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।
मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥२७॥
तस्मादसदभिज्ञानं यथा स्वप्नमनोरथम् ||
हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥२८॥
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ॥
क्षेमे विविक्त आसीन श्चिन्तयेन्मामतन्द्रितः ॥२९॥
न तथास्य भवेत्क्लेशो बन्धञ्चान्यप्रसङ्गतः ॥
योषित्सगाद् यथा पुंसो यथा तत्सङ्गिसङगतः ॥ ३०॥
३. योगसाधनम्
( कालवञ्चनशिवप्राप्तिवर्णनम् - शिव, उत्तरा. उमासं, २७ )
देव्युवाच -
वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ॥
तन्मे सर्व समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ॥ १॥
२७२
शंकर उवाच -
पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ॥
कालं जिगाय यस्सम्यग्वायोलिङ्गं यथा भवेत् ॥ २ ॥
तेन ज्ञात्वा दिनं योगी प्राणायामपरास्थितः ॥
स जयत्यागतं कालं मासार्द्धनैव सुन्दरि ||३॥
हृत्स्यो वायुस्सदा वह्नेदर्दीपकस्सोऽनुपावकः ||
स बाह्याभ्यन्तरो व्यापी वायुस्सर्वंगतो महान् ॥ ४॥
ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ॥
येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ॥५॥
धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ||
योगी योगरतः सम्यग्घारणाध्यानतत्परः ॥६॥
लोहकारो यथा भस्नामापूर्य मुखतो मुने ॥
साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ॥७॥
देवस्सहस्रके नेत्रपादहस्तसहस्रकः ॥
ग्रन्थोन्हि सर्वमावृत्य सोऽग्रे तिष्ठेद्देशाङ्गुलम् ॥ ८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP