English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 46

Puran Kavya Stotra Sudha - Page 46

Puran Kavya Stotra Sudha - Page 46


व्यवहारचातुर्ययोगः-
बृहस्पतिनीतिसार:
छलेन मित्रं कलुषेण धर्मं परोपतापेन समृद्धिभावम् ॥
सुखेन विद्यां परुषेण नारों वाञ्छन्ति ये वै न च पण्डितास्ते ॥ १९ ॥
फलार्थी फलिनं वृक्षं यश्छिन्द्या मंतिर्नरः ॥
निष्फलं तस्य वै कार्यं महादोषमवाप्नुयात् ॥ २० ॥
सघनो हि तपस्वी च दूरतो वै कृतश्रमः ॥
मद्यपस्त्री सतीत्येवं विप्र न श्रद्दधाम्यहम् ॥ २१ ॥
न विश्वसेदविश्वस्ते मित्रस्यापि न विश्वसेत् ||
कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ २२ ॥
सर्वभूतेषु विश्वासः सर्वभूतेषु सात्त्विकः ॥
स्वभावमात्मना गृहेदेतत्साधोहि लक्षणम् ॥ २३ ॥
यस्मिन्कस्मिन्कृते कार्ये कर्तारमनुवर्त्तते ॥
सर्वथा वर्तमानोऽपि धैर्यबुद्धि तु कारयेत् ॥ २४ ॥
वृद्धाः स्त्रियो नवं मद्यं शुष्कं मांसं त्रिमूलकम् ॥
रात्रौ दषि दिवा स्वप्नं विद्वान्षट् परिवर्जयेत् ॥ २५ ॥
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ||
विषं कुशिक्षिता विद्या अजीर्णे भोजनं विषम् ॥ २६ ॥
प्रियं गानमकुण्ठस्य नीचस्योच्चासनं प्रियम् ||
प्रियं दानं दरिद्रस्य यूनश्च तरुणी प्रिया ॥ २७ ॥
अत्यम्बुपानं कठिनाशनञ्च
धातुक्षयो वेगविधारणञ्च ॥
दिवाशयो जागरणं च रात्रौ
षड्भिर्नराणां निवसन्ति ? रोगाः ॥ २८ ॥
बालातपश्चाप्यतिमैथुनञ्च
श्मशानघूमः करतापनञ्च ॥
रजस्वलावक्त्रनिरीक्षणञ्च
सुदीर्घमायुर्ननु कर्षयेच्च ॥ २९ ॥
शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ॥
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ ३०॥
१. 'प्रभवन्ति' इ. पा.
३१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP