English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 18

Puran Kavya Stotra Sudha - Page 18

Puran Kavya Stotra Sudha - Page 18


व्यवहारचातुर्ययोगः– शौनकीयनीतिसारः
चिन्तासहस्रेषु च तेषु मध्ये
चिन्ताश्चतस्रोऽप्यसिधारतुल्याः ॥
नोचापमानं क्षुधितं कलत्रं
भार्या विरक्ता सहजोपरोधः ॥१९॥
वश्यश्च पुत्रोऽर्थकरी च विद्या
अरोगिता सज्जनसङ्गतिश्च ॥
इष्टा च भार्या वशवत्तिनी च
दुःखस्य मूलोद्धरणानि पञ्च ||२०||
कुरङ्गमातङ्गपतङ्गभृङग-
मोना हताः पञ्चभिरेव पञ्च ॥
एक: प्रमाथी स कथं न घात्यो
यः सेवते पञ्चभिरेव पञ्च ॥ २१॥
अधीरः कर्कशः स्तब्धः कुचेल. स्वयमागतः ॥
पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा ह्यपि ॥२२॥
आय: कर्म च वित्तं च विद्या निधनमेव च ॥
पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ २३ ॥
पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे ||
पतितस्त्र समुत्याने शस्ताः पञ्च गुणाः स्मृताः ॥२४॥
अभ्रच्छाया खले प्रीतिः परनारीषु सङ्गतिः ॥
पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ २५॥
अस्थिरं जीवितं लोके अस्थिरं धनयोवनम् ||
'अस्थिरं पुत्रदाराद्य धर्म कीत्तिर्यशः स्थिरम् ॥२६॥
शतं जीवितमत्यल्पं रात्रिस्तस्पार्द्धहारिणी ||
व्याधिशोकजरायासैरद्धं तदपि निष्फलम् ॥ २७॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदधं हृतं
तस्यार्द्धस्थित किञ्चिदर्द्धमधिकं बाल्यस्य काले गतम् ॥
किञ्चिद्वन्धुवियोगदुःखमरणं भूपालसेवागतं
शेषं वारितरङ्गगर्भचपलं मानेन कि मानिनाम् ॥२८॥
१. 'ह्येते' इ. पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP