English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 48

Puran Kavya Stotra Sudha - Page 48

Puran Kavya Stotra Sudha - Page 48


व्यवहारचातुर्ययोगः –बृहस्पतिनीतिसारः
गवां रजो धान्यरजः पुत्रस्याङ्गभवं रजः ||
एतद्रजो महाशस्तं महापातकनाशनम् ॥ ४२ ॥
अजारजः खररजो यत्तु सम्मार्जनोरजः ॥
एतद्रजो महापापं महाकिल्बिषकारकम् ॥ ४३ ||
शूर्पवातो नखाग्राम्बु स्नानवस्त्रमृजोदकम् ॥
केशाम्बुमार्जनी रेणुर्हन्ति पुष्यं पुरा कृतम् ॥ ४४॥
विप्रयोविप्रवन्ह्योश्च दम्पत्योः स्वामिनोस्तथा ॥
अन्तरेण न गन्तव्यं यस्य वृषभस्य च ॥ ४५ ॥
स्त्रीषु राजाग्निसर्पेषु स्वाध्याये शत्रुसेवने ||
भोगास्वादेषु विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ ४६॥
न विश्वसेदविश्वस्तं विश्वस्तं नातिविश्वसेत् ॥
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥ ४७ ॥
वैरिणा सह सन्वाय विश्वस्तो यदि तिष्ठति ॥
स वृक्षाग्रे प्रसुप्तो हि पतितः प्रतिबुद्धयते ॥ ४८ ॥
नात्यन्तं मृदुना भाव्यं नात्यन्तं क्रूरकर्मणा ॥
मृदुनैव मृदुं हन्ति दारुणेनैव दारुणम् ॥ ४९ ॥
नात्यन्तं सरलैर्भाव्यं नात्यन्तं मृदुना तथा ॥
सरलास्तत्र छिद्यन्ते कुब्जास्तिष्ठन्ति पादपाः ॥ ५० ॥
नमन्ति फलिनो वृक्षा नमन्ति गुणिनो जनाः ॥
शुष्कवृक्षाश्च मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ ५१ ॥
अप्रायितानि दुःखानि यथंवायान्ति यान्ति च ॥
मार्जार इन लुम्पेत तथा प्रार्थयिता नरः ॥ ५२ ॥
पूर्व पश्चाच्चरन्त्यायें सदैव बहुसम्पदः
विपरीतमनायें च यथेच्छसि तथा चर ॥ ५३ ॥
षट्कर्णो भियंते मन्त्रश्चतुःकर्णश्च धार्यते ||
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्त न बुद्धयते ॥ ५४ ॥
तया गया कि क्रियते या न दोग्धो न गर्भिणी ॥
कोऽर्थः पुत्रेण जातेन यो न विद्वान धार्मिकः ॥ ५५ ॥
३३

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP