तृतीयाः पाद: - सूत्र ५९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विकल्पोऽविशिष्टफलत्वात् ॥५९॥

विकल्पोऽविशिष्टफलत्वात् ॥ स्थिते विद्याभेदे विचार्यते किमासामिच्छया समुच्चयो विकल्पो वा स्यात् ।
अथ वा विकल्प एव नियमेनेति ।
तत्र स्थितत्वात्तावद्विद्याभेदस्य न समुच्चयनियमे किंचित्कारणमस्ति ।
मनु भिन्नानामप्यग्निहोत्रदर्शपूर्णंमासादीनां समुच्चयनियमो द्दश्यते ।
नैष दोष: ।
नित्यताश्रुतिर्हि तत्र कारणं नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति ।
तस्मान्न समुच्चयनियम: ।
नापि विकल्पनियम: ।
विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् ।
प्रारिशेष्याद्याथाकाम्यमापद्यते ।
नन्वविशिष्टफलत्वादासां विकल्पो न्याय्य: ।
तथा हि मनोमय: प्राणशरीर: कं ब्रम्हा खं ब्रम्हा सत्यकाम: सत्यसंकल्प इत्येवमाद्यास्तुल्यवदीश्वरप्राप्तिफला लक्ष्यन्ते ।
नैष दोष: ।
समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात् ।
तस्माद्याथाकाम्यप्राप्तावुच्यते विकल्प एवासां भवितुमर्हति न समुच्चय: । कस्मात् ।
अविशिष्टफलत्वात् ।
अविशिष्टं हयासां फलमुपास्यविषयसाक्षात्करणम् ।
एकेन चोपासनेन साक्षात्कृत उपास्यविषय ईश्वरादौ द्वितीयमर्थकम् ।
अपि चासंभव: ।
साक्षात्करणस्य सौच्चयपक्षेचित्तविक्षेपहेतुत्वात् ।
साक्षात्करणसाध्यं च विद्याफलं दर्शयन्ति श्रुतय यस्य स्यादद्धा न विचिकित्साऽस्तीति देवो भूत्वा देवानप्येतीत्येवमाद्या: ।
स्मृतयश्च सदा तद्भावभावित इत्येवमाद्या: ।
तस्मादविशिष्टाफलानां विद्यानामन्यतमामादाय त पर: स्याद्यावदुपास्यविषयसाक्षात्करणेन तत्फलं प्राप्तमिति ॥५९॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP