तृतीयाः पाद: - सूत्र ८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥८॥

संज्ञातश्वेतदुक्तमस्ति तु तदपि । अथोच्येत संज्ञैकत्वाद्विद्यैकत्वमत्र न्याय्यमुद्नीथविद्येत्युभयत्राप्येका संज्ञेति ।
तदपि नोपपद्यते ।
उक्तं हयेतन्न वा प्रकरणभेदात्परोवरीयस्त्वादिवदिति ।
तदेव चात्र न्याय्यतरं श्रुत्यक्षरानुगतं हि तत् ।
संज्ञैकत्वं तु श्रुत्यक्षरबाहयमुद्नीथशब्दमात्रप्रयोगाल्लौकिकैर्व्यवहर्तृभिरुपचर्यते ।
अस्ति चैतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषूद्नीथविद्येति ।
तथा प्रसिद्धभेदानामप्यग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपथितानां काठकसंज्ञैकत्वं दृश्यते ।
तथेहापि भविष्यति ।
यत्र तु नास्ति कश्चिदेवंजातीयको भेदहेतुस्तत्र भवतु संज्ञैकत्वाद्विद्यैकत्वं यथा संवर्गविद्यादिषु ॥८॥३॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP