तृतीयाः पाद: - सूत्र ५३-५४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ५३-५४
एक आत्मन: शरीरे भावात् ॥५३॥

एक आत्मन: शरीरे भावात् ॥ इह देहव्यतिरिक्तस्यात्मन: सद्भाव: समर्थ्यंते बत्धमोक्षाधिकारसिद्धये ।
न हयसति देहव्यतिरिक्तात्मनि परलोकफलाश्चोदना उपपद्येरन्कस्य वा ब्रम्हात्मत्वमुपदिश्येत ।
ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्यात्मनोऽस्तित्वमुक्तम् ।
सत्यमुक्तं भाष्याकृता न तु तत्रात्मास्तित्वे सून्नमस्ति ।
इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुर: सरं प्रतिप्ठापितम् ।
इत एव चाकृष्याचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् ।
अत एव च भगवतोपवर्षेण प्रथमे तन्त्र आत्मास्तित्वाभिधाप्रसक्तौ शारीरके वक्ष्याम इस्युद्धार: कृत: ।
इह चेदं चोदनालक्षणेषूपासनेषु विचार्यमाणेष्वात्मास्तित्वं विचार्यते कृत्स्नशास्त्रशॆषत्वप्रदर्शनाय ।
अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेवन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम् ।
कोऽसौ पुरुषो यदर्था एते मनश्चिदादय इत्यस्यां प्रसक्ताविदं देहव्यतिरिक्तस्यात्मनोऽस्तित्वमुच्यते ।
तदस्तित्वाक्षेपार्थं चेदमादिमं सूत्रम् ।
आक्षेपपूर्विका हि परिहारोक्तिर्विवक्षितेऽर्थे स्थूणनिखननन्यायेन द्दढां बुद्धिमुत्पादयति ।
अत्रैके देहमात्रात्मदर्शिनो लोकायतिका देहव्यतिरिक्तस्यात्मनोऽभावं मन्यमाना: समस्तव्यस्तेषु बाहयेषु पृथिव्यादिष्वद्दष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति संभावयन्तस्तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानं चैतन्यविशिष्ट: काय: पुरुष इति चाहु: ।
न स्वर्गगमनायापवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्माऽस्ति यत्कृतं चैतन्यं देहे स्यात् ।
देह एव तु चेतनश्चात्मा चेति प्रतिजानते हेतुं चाचक्षते शरीरे भावादिति ।
यद्धि यस्मिन्सति भवत्यसति च न भवति तत्तद्धर्मत्वेनाध्यवसीयते यथाऽग्निधर्मावौष्ण्यप्रकाशौ ।
प्राणचेष्टाचैतन्यस्मृत्यादयश्चात्मधर्मत्वेनाभिमता आत्मवादिनां तेऽप्यन्तरेव द
एवं प्राप्ते ब्रूम: । व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ।
न त्वेतदस्ति यदुक्तमव्यतिरेको देहादात्मन इति ।
व्यतिरेक एवास्य देहाद्भवितुमर्हति ।
तद्भावाभावित्वात् ।
यदि देहभावे भावाद्देषधर्मत्वमात्मधर्माणां मन्येत ततो देहभावेऽप्यभावादतद्धर्मत्वमेवैषां किं न मन्येत ।
देहधर्मवैलक्षण्यात् ।
ये हि देहधर्मा रूपादयस्ते यावद्देहं भवन्ति ।
प्राणचेष्टादयस्तु सत्यपि दंहे मृतावस्थायां न भवन्ति ।
देहधर्माश्च रूपादय: परैरप्युपलभ्यन्ते न त्वात्मधर्माश्चैतन्यस्मृत्यादय: ।
अपि च सति हि तावद्देहे जीवदवस्थायामेषां भाव: शक्यते निश्चेतुं न त्वसत्यभाव: ।
पतितेऽपि कदाचिदस्मिन्देहे देहान्तरसंचारेणात्मधर्मा अनुवर्तेरन् ।
संशयमात्रेणापि परपक्ष: प्रतिषिध्यते ।
किमात्मकं च पुनरिदं चैतन्यं मन्यते यस्य भूतेभ्य उत्पत्तिमिच्छतीति पर: पर्यंनुयोक्तव्य: ।
न हि भूतचतुष्टयव्यतिरेकेण लोकायतिक: किंचित्तत्त्वं प्रत्येति ।
यदनुभवनं भूतभौतिकानां तच्चैतन्यमिति चेत् ।
तर्हि विषयत्वात्तेषां न तद्धर्मत्वमश्रुवीत स्वास्मनि क्रियाविरोधात् ।
न हयग्निरुष्ण: सन्स्वात्मानं दहति ।
न हि नट: शिक्षित: सन्स्वस्कन्धमधिरोक्ष्यति ।
न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् ।
न हि रूपादिभि: स्वरूपं पररूपं वा विषयीक्रियते ।
विषयीक्रियन्ते तु बाहयाध्यात्मिकानि भूतभौतिकानि चतन्येन ।
अतश्च यथैवास्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यत एवं व्यतिरेकोऽप्यस्यास्तेभ्योऽभ्युपगन्तव्य: ।
उपलब्धिस्वरूप एव च न आत्मेत्यात्मनो देहव्यतिरिक्तत्वम् ।
नित्यत्वं चोपलब्धेरैकरूप्यात् ।
अहमिदमद्राक्षमिति चावस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् ।
स्मृत्याद्युपपत्तेश्च ।
यत्तूक्तं शरीरे भावाच्छरीरधर्म उपलब्धिरिति तद्वर्णितेन प्रकारेण प्रत्युक्तम् ।
अपि च सत्सु प्रदीपादिषूपकरणेषूपलब्धिर्भवत्यमत्सु न भवति ।
न चैतावता प्रदीपादिधर्म एवोपलब्धिर्भवति \
एवं सति देह उपलब्धिर्भवत्यसति च न भत्रतीति न देहधर्मो भवितुमर्ह्ति ।
उपकरणत्वमात्रेणापि प्रदीपादिवद्देहोपयोगोपपत्ते: ।
न चात्यन्तं देहस्योपलब्धावुपयोगोऽपि द्दश्यते निश्चेष्टेऽप्यस्मिन्दहे स्वप्ने नानाविधोपलब्धिदर्शनात् ।
तस्मादनवद्यं देहव्यतिरिक्तस्यात्मनोऽस्मित्वम् ॥५४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-20T23:11:24.0570000