तृतीयाः पाद: - सूत्र ५७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भून्म: क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥५७॥

भून्म: क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ प्राचीनशाल औपमन्यव इत्यस्यामाख्यायिकायां व्यस्तस्य समस्तस्य च वैश्वानरस्योपासनं श्रूयते ।
व्यस्तोपासनं तावदौपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा विश्वानरो य त्वमात्मानमुपास्स इत्यादि ।
तथा समस्तोपासनमपि तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूप: प्राण: पृथग्वर्त्माऽऽत्मा संदेहो बहुलो बस्तिरेव रयि: पृथिव्येव पादावित्यादि ।
तत्र संशय: किमिहोभयथाप्युपासनं स्याव्द्यस्तस्य समस्तस्य चोत समस्तस्यैवेति ।
किं तावत्प्रप्तम् ।
प्रत्यवयवं सुतेज: प्रभृतिषूपास्स इति क्रियापदश्रवणात्तस्मात्तव सुतं प्रसुतमासुतं कुले द्दश्यत इत्यादिफलभेदश्रवणाच्च व्यस्तान्यप्युपासनाइ स्युरिति प्राप्तम् ।
ततोऽभिधीयते ।
भून्म: पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यमस्मिन्वाक्ये विबक्षितं भवितुमर्हति न प्रत्येकमवयवोपासनानामपि । क्रतुवत् ।
यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एवैका विवक्ष्यते न व्यस्तानामपि प्रयोग: प्रयाजादीनां नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य तद्वत् ।
कुत एतद्भूमैव ज्यायानिति ।
तथा हि श्रुतिर्भून्मो ज्यायस्त्वं दर्शयत्नेकवाक्यत्वावगमात् ।
एकं हीदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते ।
तथा हि प्राचीनशालप्रभृतय उद्दालकावसाना: षडृषयो वैश्वानरविद्यायां परिनिष्टामप्रतिपद्यमाना अश्चपतिं कैकेयं राजानमभ्याज्ग्मुरित्युपक्रम्यैकैकस्यर्षेरुपास्थं द्युप्रभृतीनामेकैकं श्रावयित्वा मूर्धा त्वेष आत्मन इति होवाचेत्यादिना मूर्धादिभावंतषां विदधाति ।
मूर्धा ते व्यपतिष्यद्यन्मा नागमिष्य इत्यादिना च व्यस्तोपासनम पवदति ।
पुनश्च व्यस्तोपासनं व्यावर्त्य समस्तोपासनमेवानुवर्त्य स सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तीति भूमाश्रयमेव फलं दर्शयति ।
यत्तु प्रत्येकं सुतेज: प्रभृतिषु फलभेदश्रवणं तदेवं सत्यङ्गफलानि प्रधान एवाभ्युपगतानीति द्रष्टव्यम् ।
तथोपास्स इत्यपि प्रत्यवयवमाख्यात श्रवणं पराभिप्रायानुवादार्थं न व्यस्तोपासनविधानार्थम् ।
तस्मात्समस्तोपासनपक्ष एव श्रेयानिति ।
केचित्त्वत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनुमन्यत इति कथयन्ति ।
तदयुक्तम् ।
एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् ।
मूर्धां ते व्यपतिष्यदिति चैवमादिनिन्दावचनविरोधात् ।
स्पष्टे चोपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् ।
सौत्रस्य च ज्यायस्स्ववचनस्य प्रमाणवत्त्वाभिप्रायेणाप्युपपद्यमानत्वात् ॥५७॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP