तृतीयाः पाद: - सूत्र ३९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


कामादीतरत्र तत्र चायतनादिभ्य: ॥३९॥

कामादीतरत्र तत्र चायतनादिभ्य: ॥ अथ यदिदमस्मिन्ब्रम्हापुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश इति प्रस्तुत्य च्छन्दोगा अधीयते - एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: सत्यकाम: सत्यसङ्कल्प इत्यादि ।
तथा वाजसनेयिन: स वा एष महाजन आत्मा योऽयं विज्ञानमय: प्राणेषु य एषोऽन्तर्ह्रदय आकाशस्तरिमञ्छेते सर्वस्य वशीत्यादि ।
तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति विद्यैकत्वमिति ।
तत्रेदमुच्यते ।
कामादीति । सत्यकामादीत्यर्थ: ।
यथा देवदत्तो दत्त: सत्यभामा भामेति ।
यदेतच्छान्दोग्ये ह्रदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते तदितरत्र वाजसनेयके स वा एष महानज आत्मेत्यत्र संबध्येत ।
यच्च वाजसनेयके वशित्वाद्युपलभ्यते तदपीतरत्र च्छान्दोग्ये एष आत्माऽपहतपाप्मेत्यत्र संबध्येत । कुत: ।
आयतनादिसामान्यात् ।
समानं हयुभयत्रापि ह्रदयमायतनं समानश्च वेद्य ईश्वर: समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनमित्येवमादि बहु सामान्यं द्दश्यते ।
ननु विशेषोऽपि दृश्यते छान्दोग्ये ह्रदयाकाशस्य गुणयोगो वाजसनेयके त्वाकाशाश्रयस्य ब्रम्हण इति । न ।
दहर उत्तरेभ्य इत्यत्र च्छान्दोग्येऽप्याकाशशब्दं ब्रम्हौवेति प्रतिष्ठापित्नत्वात् ।
अयं त्वत्र विद्यते विशेष: ।
सगुणा हि ब्रम्हाविद्या छान्दोग्य उपदिश्यते - अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्र सत्यान्कामानित्यात्मवत्कामानामपि वेद्यत्वश्रवणात् ।
वाजसनेयके तु निर्गुणमेव परं ब्रम्होपदिश्यमानं द्दश्यते - अत ऊर्ध्वं विमोक्षाय ब्रूहि ।
असङ्गो हययं पुरूष इत्यादिप्रश्नप्रतिवचनसमन्वयात् ।
वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके संकीर्त्यते \
तथा चोपरिष्टात्स एष नेति नेत्यात्मेत्यादिना निर्गुणमेव ब्रम्होपसंहरति ।
गुणवतस्तु ब्रम्हाण एकत्वाद्विभूतिप्रदर्शनायायं गुणोपसंहार: सूत्रितो नोपासनायेति द्रष्टव्यम् ॥३९॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP