तृतीयाः पाद: - सूत्र १२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥१२॥

नन्वें सति प्रियशिरस्त्वादयोऽपि धर्मा: सर्वे सर्वत्र सङ्कयिर्रेन् ।
तथा हि तैत्तिरीयक आनन्दमयमात्मानां प्रक्रम्यान्नायते तस्य प्रियमेव शिर: ।
मोदो दक्षिण: पक्षण: ।
प्रमोद उत्तर:  पक्ष: ।
आनन्द आत्मा ।
ब्रम्हा पुच्छं प्रतिष्ठा इति ।
अत उत्तरं पठति ।
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ।
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयक आन्नातानां नास्त्यन्यत्र प्राप्ति: ।
यत्कारणं प्रियं मोद: प्रमोद आनन्द इत्येते परस्परापेक्षया भोक्रन्तरापेक्षया चोपचितापचितरूपा उपलभ्यन्ते ।
उपचयापचयौ च सति भेदं सम्भवत: ।
निर्भेदं तु ब्रम्हा ।
एकमेवाद्वितीयमित्यादिश्रुतिभ्य: ।
न चैते प्रियशिरस्त्वादयो ब्रम्हाधर्मा: कोशधर्मास्त्वेते ।
इत्युपदिष्टमस्माभिरानन्दमयोऽभ्यासादिस्यत्र ।
अपि च परस्मिन्ब्रम्हाणि चित्तावतारोपायमात्रत्वेनैते परिकल्प्यन्ते न द्रष्टव्यत्वेन ।
एवमपि सुतरामन्यत्राप्राप्ति: प्रियशिरस्त्वादीनाम् ।
बर्म्हाधर्मांस्त्वेतान्कृत्वा न्यायमात्रमिदमाचार्येण दर्शितं प्रियशिरस्त्वाद्यप्राप्तिरिति ।
स च न्यायोऽन्येषु विश्चितेषु ब्रम्हाधर्भेषूपासनायोपदिश्यमानेषु नेतव्य: संयद्वामादिषु सत्यकामादिषु च ।
तेषु हि सत्य्प्युपास्यस्य ब्रम्हाण एकत्वे प्रक्रमभेदादुपासनाभेदे सति नान्योन्यधर्माणामन्योन्यत्र प्राप्ति: ।
यथा च द्वे नार्यावेकं नृपतिमुपासाते छत्रेणैका चामरेणान्या तत्र चोपास्यैकत्वेऽप्युपासनाभेदो धर्मव्यवस्था च भवत्येवमिहापीति ।
उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रम्हाण्युपपद्यते  न निर्गुणे परस्मिन्ब्रम्हाणि ।
अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छुतानां सर्वत्र प्राप्तिरित्यर्थ: ॥१२॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP