तृतीयाः पाद: - सूत्र २४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥

पुरुषविद्यायामिव चेतरेषामनाम्नानात् । अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राम्हाणे पुरुषविद्या ।
तत्र पुरुषो यज्ञ: कल्पित: ।
तदीयमायुस्त्रेधा विभज्य सवनत्रयं कल्पितम् ।
अशिशिषादीनि च दीक्षादिभावेन कल्पितानि ।
अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादय: ।
तैत्तिरीयका अपि कंचित्पुरुषयज्ञं कल्पयन्ति तस्यैवं विदुषो यज्ञस्यात्मा यजमान: श्रद्धा पत्नी इत्येतेनानुवाकेन ।
तत्र संशय: ।
किं य इतरप्रोक्ता:  पुरूषयज्ञस्य धर्मास्ते तैत्तिरीयकेषूपसंहर्तव्या: किं वा नोपसंहर्तव्या इति ।
प्रुषयज्ञत्वाविशेषादुपसंहारप्राप्तावाचक्ष्महे नोपसंहर्तव्या इति । कस्मात् ।
तद्रूपप्रत्यभिज्ञानाभावात् ।
तदाहाचार्य: पुरुषविद्यायामिवेति ।
यथैकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामान्नानं नैवमितरेषां तैत्तिरीयाणामान्नानमस्ति ।
तेषां इअतिरविलक्षणमेव यज्ञसंपादनं दृश्यते पत्नीयजमानवेदवेदिबर्हिर्य़ूपाज्यपश्वृत्विगाद्यनुक्रमणात् ।
यदपि सवनसपादनम तदपीतरविलक्षणमेव यत्सायं प्रातर्मध्यदिन सायं च तानि सवनानीति ।
यदपि किञ्चन्मरणावभृथ त्वादिसाम्यं तदप्यल्पीयस्स्वाद्भूयसा वैलक्षण्येनाभिभूयमानं न प्रत्यभिज्ञापनक्षमम् ।
न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते विदुषो यज्ञस्येति हि न चैते समानाधिकरणे षष्ठयौ विद्वानेव यो यज्ञस्तस्येति ।
न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति व्यधिकरणे त्वेते षष्ठयो विदुषो यो यज्ञस्तस्येति ।
भवति हि पुरुषस्य मुख्यो यज्ञसंबन्ध: ।
सत्यां च गतौ मुख्य एवार्थ आश्रयितव्योन भाक्त: ।
आत्मा यजमान इति च यजमानत्वं पुरुषस्य निर्ब्रुवन्वैयधिकरण्येनंवास्य यज्ञसंबन्धं दर्शयति ।
अपि च तस्यैवं विदुष इति सिद्धवदनुवादश्रुतौ सत्यां पुरुषस्य यज्ञभावमात्मादीनां च यजमानादिभावं प्रतिप्तित्समानस्य वाक्यभेद: स्यात् ।
अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्यानन्तरं तस्यैवं विदुष इत्याद्यनुक्रमणं पश्यन्त: पूर्वशेष एवैष आम्नायो न स्वतन्त्र इत प्रतीम: ।
तथा चैकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे ब्रम्हाणो महिमानमाप्नोतीति ।
इतरेषां त्वनन्यशेष:  पुरुषविद्यान्नाय: ।
अयुरभिवृद्धिफलो हयसौ स ह षोडशवर्षशतं जीवति य एवं वेदेति समभिव्याहारात् ।
तस्माच्छाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके ॥२४॥१३॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP