तृतीयाः पाद: - सूत्र २७-२८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


साम्पराये तर्तव्याभावात्तथा हयन्ये ॥२७॥

साम्पराये तर्तव्याभावात्तथा हयन्ये ॥ देवयानेन पथा पर्यङकस्थं ब्रम्हाभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगं कौषीतकिन: पर्यङकविद्यायामामनन्ति स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छतीत्युपक्रम्य स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुत इति ।
तत्किं यथा श्रुतं व्यध्वन्येव वियोगवचनं प्रतिपतव्यमाहोस्विदादावेव देहादपसर्पण ति विचारणायां श्रुतिप्रामाण्याद्यथाश्रुति प्रतिपत्तिप्रसक्तौ पठति साम्पराय इति ।
साम्पराये गमन एव देहादपसर्पण इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवतीति प्रतिजानीते ।
हेतुं चाचष्टे तर्तव्याभावादिति ।
न हि विदुष: संपरेतस्य विद्यया ब्रम्हा संप्रेप्सतोऽन्तराले सुकृतदुष्कृताभ्यां किंचित्प्राप्तव्यमस्ति यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाताम् ।
विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयो: क्षय: ।
स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति।
तस्मात्प्रागेव सन्नयं सुकृतदुष्कृतक्षय: पश्चात्पठयते ।
तथा हयन्येऽपि शास्त्रिनस्ताण्डिन: शाटयायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति - अश्च इव रोमाणि विधूय पापमिति ।
तस्य पुत्रा दायमुपयन्ति सुह्रद: साधुकृत्यां द्विषन्त: पापकृत्यामिति च ॥२७॥

छन्दत उभयाविरोधात् ॥२८॥

छन्दत उभयाविरोधात् ॥ यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्यार्धपथे सुकृतदुष्कृतक्षयोऽभ्य्पगम्येत तत: पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतो: पुरुषप्रयत्नस्येच्छातोऽनुष्ठानानुपपत्तेरनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् ।
तस्मात्पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात् ।
तत्पूर्वकं च सुकृतदुष्कृतहानमिति द्रष्टव्यम् ।
एवं निमित्तनैमित्तिकयोरुपपत्तिस्ताण्डिशाटायायनिश्रुत्योश्च संगतिरिति  ॥२८॥१६॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP