तृतीयाः पाद: - सूत्र ६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥

अन्यथात्वं शब्दादिति चेन्नाविशेषात्  ॥
वाजसनेयके ते ह देवा ऊचुर्हन्तामुरान्यज्ञ उद्नीथेनात्ययामेति ते ह वाचमूचुसवं न उद्नायेति प्रक्रम्य वागादीन्प्राणानसु रपाप्मविद्धत्वेन निन्दित्वा मुख्यप्राणपरिग्रह: पठयते  ।
अथ हेममासन्यं प्राणमू चुस्स्वं न उद्नायेति तथेति तेभ्य एष प्राण उदगायदिति ।
तथा छान्दोग्येऽपि तद्ध देवा उद्नीथमाजहुरननैनानभिभविष्याम इति प्रकम्येतरान्प्राणानसुरपाप्मविद्धत्वेन निद्नित्वा तथैव मुख्यप्राणपरिग्रह: पठयते ।
अथ ह य एवायं मुख्य: प्राणस्तमुद्नीथमुपासाञ्चक्रिर इति ।
उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते ।
तत्र संशय: ।
किमत्र विद्याभेद: स्यादाहोस्विद्विधैकत्वमिति ।
किं तावत्प्राप्तं पूर्वेण न्यायेन विद्यैकत्वमिति ।
ननु न युक्तं विद्यैकत्वं प्रक्रमभेदात् ।
अन्यथा हि प्रक्रमन्ते वाजसनेयिनोऽन्यथा छन्दोगा: ।
त्वं न उद्नाय ति वाजसनेयिन उद्नीथस्य कर्तृत्वेन प्राणमामनन्ति ।
छन्दोगास्तूद्रीथत्वेन तमुद्नीथमुपासाञ्चक्रिर इति ।
तत्कथं विद्यैक्रत्वं स्यादिति चेत् ।
नैष दोष: ।
न हयेतावता विशेषेण विद्यैकत्वमपगच्छति ।
अविशेषस्याऽपि बहुतरस्य प्रतीयमानत्वात् ।
तथ अहि देवासुरसङ्ग्रामोपक्रमत्वमसुरात्ययाभिप्राय उद्नीथोपन्यासो वागादिसङ्कीर्तनं तन्निन्दया मुख्यप्राणव्यपाश्रयस्तद्नीर्थाञ्चासुरविध्वंसमश्मलोष्टनिदर्शनेनेत्येवं बहवोऽर्था उभयत्राप्यविशिष्टा: प्रतीयन्ते ।
वाजसनेयकेऽपि चोद्नीथसामानाधिकरण्यं प्राणस्य श्रुतमू - एष उ वा उद्नीथ इति ।
तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम् ।
तस्माञ्च विद्यैकत्वमिति ॥६॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP