तृतीयाः पाद: - सूत्र ४२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् ॥४२॥

तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् ॥ सन्ति कर्माङ्गव्यापाश्रयाणि विज्ञानानि - ओमित्येतदक्शरमुंद्रीथमुपासीतेत्येवमादीनि ।
किं तानि नित्यान्येव स्यु: कर्मसु पर्णमयीत्वादिवदुतानित्यानि गोदोहनादिवदिति विचारयाम: ।
किं तावत्प्राप्तम् । नित्यानीति । कुत: ।
प्रयोगवचनपरिग्रहात् ।
अनारभ्याधीतान्यपि हयेतान्युद्नीथादिद्वारेण क्रतुसंबधात्क्रतुप्रयोगवचनेनाङ्गान्तरवत्संस्पृश्यन्ते यत्त्वेषां स्ववाक्येषु फलश्रवणम् - आपयिता ह वै कामानां भवतीत्यादि तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेवापापश्लोकश्रवणादिवन्न फलप्रधानम् ।
तस्माद्यथा यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतीत्येवमादीनामप्रकरणपठितानामपि जुहवादिद्वारेण क्रतुप्रवेशात्प्रकरणपठितवन्नित्यतैवमुद्नीथाद्युपासनानामपीति ।
एवं प्राप्ते ब्रूम: ।
तन्निर्धारणानियम इति ।
यान्येतान्युद्नीथादिकर्मगुणयाथात्म्यनिर्धारणानि रसतम आप्ति: समृद्धिर्मुख्य: प्राण आदित्य इत्येवमादीनि नैतानि नित्यवत्कर्मसु नियम्येरन् । कुतु: । तद्दृष्टे: ।
तथा हयनित्यत्वमेवैवंजातीयकानं दर्शयति श्रुतिस्तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदेत्यविदुषोऽपि क्रियाभ्यनुज्ञानात्प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्शनात्प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि ।
तां चेदविद्वानुद्नास्यसि ।
तां चेदविद्वान्प्रतिहरिष्यसीति।
अपि चैवंजतीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मण: फलमुपलभ्यते कर्मफलसिद्धयप्रतिबन्धस्तत्सम्रुद्धिरतिशयविशेष: कश्चित्तेनोभौ कुरुतो यश्वैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति ।
तत्र नाना त्विति विद्वदविद्वत्प्रयोगयो: पृथक्कारणाद्वीर्यवत्तरमिति च तसपप्रत्ययप्रयोगाद्विद्याविहीनमपि कर्म वीर्यवदिति गम्यते ।
तच्चानित्यत्वे विद्याया पपद्यते ।
नित्यत्वे तु कथं तद्विहीनं कर्म वीर्यवदित्यनुज्ञायेत ।
सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थिति: ।
तथा लोकसामादिषु पतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चेत्येवमादीनि ।
न चेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् ।
तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्यवादोपपत्ति: ।
प्रयाजादिषु त्वितिकर्त्व्यताकाङक्षस्य क्रतो: प्रकृत्वात्तादर्थ्ये सति युक्तं फलश्रुतेर्थवादत्वम् ।
तथाऽनारभ्याधीतेष्वपि पर्णमयीत्वादिषु न हि पर्णमयीत्वादीनामक्रियात्मकानामाश्रयमन्तरेण फलसंबन्धोऽवकल्पते ।
गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्न: फलविधि: ।
तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्न: फलविधि: ।
न तु पर्णंमयीत्वादिष्वेवंविध: कश्चिदाश्रय: प्रकृतोऽस्ति ।
वाक्येनैव तु जुहवाद्याश्रयतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेद: स्यात् ।
उपासनानां तु क्रियात्मकत्वाद्विशिष्टविधानोपपत्तेरुद्नीथाद्याश्रयाणां फले विधानं न विरुध्यते तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यान्येवमुद्नीथाद्युपासनान्यपीति द्रष्टव्यम् ।
अत एव च कल्पमूत्रकारा नैवंजातीयकान्युपासनानि क्रतुषु कल्पयाञ्चक्रु: ॥४२॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP