मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
नारायणवर्म

नारायणवर्म

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe,

श्रीगणेशाय नम: ॥ राजोवाच ॥ येन गुप्त : सहस्त्राक्ष : सवाहान् रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥

भगवंस्तन्मामाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिन: शत्रून् येन गुप्तोऽजयन्मृधे ॥ २ ॥

श्रीशुक उवाच ॥ वृत: पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमना : श्रृणु ॥ ३ ॥

विश्वरूप उवाच ॥ धौतांघ्रिपाणिराचम्य सपवित्र उदङमुख: । कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यत: शुचि: ॥ ४ ॥

नारायणमयं वर्म सन्नह्येद्भय आगते । दैवभूतात्मकर्मभ्यो नारायणमय: पुमान् ॥ ५ ॥

पादयोर्जानुनोरूर्वोरुदरे ह्रद्यथोरसि । मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् ॥ ६ ॥

ॐ नमो नारायणायेति विपर्ययमथापि वा । करन्यासं तत: कुर्याद् द्वादशाक्षरविद्यया ॥ ७ ॥

प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु । न्यसेद्‌धृदय ॐकारं विकारमनुमूर्धनि ॥ ८ ॥

षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् । वेकारं नेत्रयोर्युज्यान्नकारं सर्वसंधिषु ॥ ९ ॥

मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद् बुध: । सविसर्ग फडतं तत्सर्वदिक्षु विनिर्दिशेत् ॐ विष्णवे नम: इति ॥ १० ॥

आत्मानं परं ध्यायेद्धयेयं षट्‍शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मंत्रमुदाहरेत् ॥ ११ ॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्म: पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचापपाशान्दधानोऽष्टगुणोऽष्टबाहु: ॥ १२ ॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात् । स्थलेषु मायाबटुवामनोऽव्यात त्रिविक्रम: खेवऽतु विश्वरूप: ॥ १३ ॥

दुर्गेष्वटव्याजिमुखादिषु प्रभु: पायान्नृसिंहोऽसुरयूथपारि: । विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भा: ॥ १४ ॥

रक्षत्वसौ माऽध्वनि यज्ञकल्प: स्वदंष्ट्रयोन्नीतधरो वराह: । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५ ॥

मामुग्रधर्मादखिलात्प्रमादान्नारायण: पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथ: पायाद् गुणेश: कपिल: कर्मबंधात् ॥ १६ ॥

सनत्कुमारोऽवतु कामदेवाद्धयाननो मां पथि देवहेलनात् । देवर्षिवर्य: पुरूषार्चनांतरात्कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥

धन्वंतरिर्भगवान्पात्वपथ्याद् द्वंदाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनांताद् बलो गणात्क्रोधवशादहीन्द्र:

॥ १८ ॥

द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखंडगणात्प्रमादात् । कल्कि: कले: कालमलात्प्रपातु धर्मावनायोरुकृतावतार ॥ १९ ॥

मां केशवो गदया प्रातरव्याद् गोविन्द आसंगवमात्तवेणु: । नारायण: प्राह्‌ण उदात्तशक्तिर्मध्यं दिने विष्णुररींद्रपाणि: ॥ २० ॥

देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधा माऽवतु माधवोमाम् । दोषे ह्रषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभ: ॥ २१ ॥

श्रीवत्सधामाऽपररात्र ईश: प्रत्यूष ईशोऽसिधरो जनार्दन: । दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्ति: ॥ २२ ॥

चक्रं युगांतानलतिग्मनेमि भ्रमत्समंताद्भगवत्प्रयुक्तम् । दंदग्धि दंदग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताश: ॥ २३ ॥

गदेऽशनिस्पर्शनविस्फुलिंगे निष्पिंढि निष्पिंढ्यजितप्रियासि । कूष्मांडवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥

त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्ण पूरितो भीमस्वनोऽरेर्ह्रदयानि कंपयन् ॥ २५ ॥ त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिंधि छिंधि । चक्षूंषि चर्मञ् छतचन्द्र छादय द्विषां मघोनां हर पापचक्षुषाम् ॥ २६ ॥

यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽघेभ्य एव च ॥ २७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनान् । प्रयांतु संक्षयं सद्यो ये न: श्रेय: प्रतीपका: ॥ २८ ॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय: प्रभु: । रक्षत्वशेषकृच्छ्रे भ्यो विष्वक्सेन: स्वनामभि: ॥ २९ ॥

सर्वापद्भयो हरेनामरूपयानायुधानि न: । बुद्धींद्रियमन:प्राणान् । पांतु पार्षदभूषणा: ॥ ३० ॥

यथा हि भगवानेव वस्तुत: सदसच्च यत् । सत्येनानेन न: सर्वे यांतु नाशमुपद्रवा: ॥ ३१ ॥

यथैकात्म्यानुभावानां विकल्परहित: स्वयम् । भूषणायुधलिंगाख्या धत्ते शक्ती: स्वमायया ॥ ३२ ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि: । पातु सर्वै: स्वरूपैर्न: सदा सर्वत्र सर्वग: ॥ ३३ ॥

विदिक्षु दिक्षूर्ध्वमध: समंतादंतर्बहिर्भगवान्नारसिंह: । प्रहापयॅल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा: ॥ ३४ ॥

मघबन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान् ॥ ३५ ॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्य: साध्वसात्स विमुच्यते ॥ ३६ ॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विज: । योगधारणया स्वांगं जहौ स मरुधन्वनि ॥ ३८ ॥

तस्योपरिविमानेन गंधर्वपतिरेकदा । ययौ चित्ररथ: स्त्रीभिर्वृतो यत्र द्विजक्षय: ॥ ३९ ॥

गगनान्न्यपतत्सद्य: सविमानो ह्यवाक्शिरा: । सवालखिल्यवचनादस्थीन्यादाय विस्मित: ॥ ४० ॥

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम समन्वगात् । य इदं श्रृणुयात्काले यो धारयति चादृत: ।

तं नमस्यंति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥

श्रीशुक उवाच ॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतु: । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥

इति श्रीमद्‌भागवते महापुराणे षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्याय:

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP