संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथोपाककर्मप्रयोग अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथोपाककर्मप्रयोग ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथोपाककर्मप्रयोग Translation - भाषांतर श्री: ॥ आचम्यप्राणानायम्यदेशकालौसंकीर्त्य । ममाध्याप्यानांचाधीतामध्येष्णमाणानांचछंदसांयातयामतानिरासेनाप्यायनद्वाराश्रीपरमेश्वरप्रीत्यर्थंएभिर्ब्राह्मणै:सहउपाकर्माख्यंकर्मकरिष्ये इति संकल्प्य । तदंगंगणपतिंपूजयित्वास्मृत्वास्मृत्वावातत: स्थंडिलादिसर्वंकर्मकरिष्ये । स्थंडिलोपलेनाध्यानांतंकृत्वान्वादध्यात् । क्रियमाणेउपाकर्महोमेदेवतापरिग्रहार्थमन्वाधानं करिष्ये । असिन्नन्वाहितेग्नावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा अत्रप्रधानं सावित्रीं ब्रह्माणंश्रध्दां मेधां प्रज्ञां धारणा सदसस्पतिंअनुमतिं छंदांस्यृषीन् एता:प्रधानदेवता: आज्येन ॥पुनरत्रप्रधानं अग्निं अप्तृणसूर्यान् अग्निं शकुंतं अग्निं मित्रावरुणौ अग्निं अप: अग्निं मरुत:अग्निं विश्वादेवान् अग्निं इंद्रासोमौ इंद्रं अग्नामरुत: पवमानसोमं पवमानसोमं अग्निं संज्ञानं एता: प्रधानदेवता: दधिसक्तुद्रव्येणशेषेणस्विष्टकृतमग्निमिध्मसन्नहनेनरुद्रं यज्ञोपवीतेनपरमात्मानं अयासग्निंदेवान्विष्णुं० सध्योयक्ष्ये । पात्रासादनेदधिसक्तुसस्थालीप्रोक्षण्यौइत्यादिदधिसक्तुनासहाज्यंत्रि:पर्यग्निकृत्वा चक्षुष्यंतेन्वाधानोक्तसावित्र्यादिनवभिर्मंत्रैराज्यंहुत्वाअत्रपंचावत्तिनस्तिष्ठंत: ॐ प्रसूतोभक्षमकरंचरावपिस्तोमंचेमंप्रथम:सूरिरुन्मृजे ॥ सुतेसातेनयध्यागमंवांप्रतिविश्वामित्रजमदग्नीदमे ॥ इतिमंत्रंपठेयु: ॥ पंचावत्तीतुदर्व्यामुपस्तीर्यमध्यात्पूर्वात्पश्चार्धाच्चत्रिर्हविषोवदायाभिघार्यजुहुयात् ॥ अग्निमीळेवैश्वामित्रोमधुच्छंदाअग्निर्गायत्री ॥ उपाकर्मप्रधानदधिसक्तुहोमेविनियोग: ॥ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं ॥ होतारंरत्नधातमंस्वाहा ॥ अग्नयइदं० ॥कुषुंभकस्तदगस्त्योप्तृणसूर्याअनुष्टुप् ॥ उपाकर्मप्र० ॥ ॐ कुषुंभकस्तदब्रवीद्गिरे:प्रवर्तमानक: ॥ वृश्चिकस्यारसंविषमरसंवृश्चिकतेविषंस्वाहा ॥ अतृप्तणसूर्येभ्याइ० ॥त्वमग्नेध्युभिरित्यस्यशौनकोगृत्समदोऽग्निर्जगती ॥ उपाकर्म० ॥ ॐ त्वमग्नेध्युभिस्त्वमाशुशुक्षणिस्त्वमभ्ध्यस्त्वमश्मनस्परि ॥ त्वंनेभ्यस्त्वमोषधीभ्यस्त्वंनृणांनृपतेजायसेशुचि:स्वाहा ॥ अग्नयइ० ॥ आवदन्छौनकोगृत्समद:शकुंतोजगती ॥ उपाकर्म० ॥ ॐ आवदंस्त्वंशकुनेभद्रमावदतूष्णीमासीन:सुमतिंचिकिध्दिन: ॥ यदुत्पतन्वदसिकर्करिर्यथाबृहद्वदेमविदथेसवीरा:स्वाहा ॥ शकुंतायेदं० ॥ सोमस्यमागाथिनोविश्वामित्रोग्निस्त्रिष्टुप् ॥उपाकर्मप्रधान० ॥ ॐ सोमस्यमातवसंवक्ष्यग्रेवन्हिंचकर्थविदथेजयजध्यै ॥ देवाँअच्छादीध्यध्युंजेअद्रिंशमायेअग्नेतन्वंजुषस्वस्वाहा ॥ अग्नयइदं० ॥ गृणानाभार्गवोजमदग्निर्मित्रावरुणौगायत्री ॥ उपाकर्म० ॥ ॐ गृणानाजमदग्निनायोवृतस्यसीदतं ॥ पातंसोममृतावृधास्वाहा ॥ मित्रावरुणाभ्यामिदं० ॥ त्वांह्यग्नेगौतमोवामदेवोऽग्निरष्टि: ॥ उपाकर्म० ॥ॐ त्वांह्यग्नेसदमित्समन्यवोदेवासोदेवमरतिंन्येरिरइतिक्रत्वान्येरिरे । अमर्त्यंयजमतमर्त्येष्वादेवमादेवंजनतप्रचेतसंविश्वमादेवंजनतप्रचेतसंस्वाहा ॥ अग्नयइदं० ॥ धामंतेगौतमोवामदेवआपोजगती ॥ उपाकर्म० ॥ ॐ धामंतेविश्वंभुवनमधिश्रितमंत:समुद्रेहृध्यं१तरायुषि ॥ अपामनीकेसमिथेयआभृतस्तमश्याममधुमंतंतऊर्मिस्वाहा ॥ अभ्ध्यइदं० ॥ अबोध्यात्रेयौबुधगविष्ठिरावग्निस्त्रिष्टुप् ॥ उपाकर्म० ॥ ॐ अबोध्यग्नि:समिधाजनानांप्रतिधेनुमिवायतीमुषासं ॥ यव्हाइवप्रवयामुज्जिहाना:प्रभानव:सिस्त्रतेनाकमच्छस्वाहा ॥ अग्नयइदं० ॥ गंतानआत्रेयएवयामरुन्मरुतोतिजगती ॥ उपाकर्म० ॥ ॐ गंतानोयज्ञंज्ञिया: सुशमिश्रोताहवमरक्षएवयामरुत् ॥ ज्येष्ठासोनपर्वतासोव्योमनियूयंतस्यप्रचेतस: स्यातदुर्धर्तवोनिद:स्वाहा ॥ मरुभ्ध्यइदं० ॥त्वंह्यग्नेबार्हस्पत्योभारद्वाजोऽग्निस्त्रिष्टुप् ॥ उपाकर्म० ॥ ॐ त्वंह्यग्नेप्रथमोमनोतास्याधियोअभवोअभवोदस्महोता ॥ त्वंसींवृषन्नकृणोर्दुष्टरीतुसहोविश्वस्मैसहसेसहध्यैस्वाहा ॥ अग्नयइदं० ॥योन:स्व:पायुर्भारद्वाजोविश्वेदेवाअनुष्टुप् ॥ उपाकर्म० ॥ ॐ योन:स्वोअरणोयश्चनिष्टयोजिघांसति ॥ देवास्तंसर्वेधूर्वंतुब्रह्मवर्मममांतरंस्वाहा ॥ विश्वेभ्योदेवेभ्यइ० ॥ अग्निंनरोमैत्रावरुणिर्वसिष्ठोग्निर्विराट् ॥ उपाकर्म० ॥ ॐ अग्निंनरोदीधितिभिरण्योर्हस्तच्युतीजनयंतप्रशस्तं ॥ दूरेदृशंगृपतिमथर्युंस्वाहा ॥ अग्नयइ० ॥ प्रतिचक्ष्वमैत्रावरूणिर्वसिष्ठइंद्रासोमावनुष्टुप् ॥ उपाक० ॥ॐ प्रतिचक्ष्वविचक्ष्वेंद्रश्चसोमजागृतं ॥ रक्षोभ्योवधमस्त्यतमशनिंयातुभ्ध्य:स्वाहा ॥ इंद्रासोमाभ्यामिदं० ॥ माचित्काण्व:प्रगाथइंद्रोबृहती ॥ उपाकर्म० ॥ ॐ माचिदन्यद्विशंसतसखायोमारिषण्यत ॥ इंद्रमित्स्तोतावृषणंसचासुतेमुहुरुक्थाचशंसतस्वाहा ॥ इंद्राये० ॥आग्नेयाहिसौभरिरग्नामरुतोऽनुष्टुप् ॥ उपाक० ॥ ॐ आग्नेयाहिमरुत्सखारुद्रेभि:सोमपीतये ॥ सोभर्याऽउपसुष्ठुतिंमादयस्वस्वर्णरेस्वाहा ॥ अग्नामरुभ्ध्यइदं० ॥ स्वादिष्ठयामधुच्छंदा:पवमान:सोमोगायत्री ॥ उपाकर्म० ॥ ॐ स्वादिष्ठयामदिष्ठयापवस्वसोमधारया ॥ इंद्रायपातवेस्तु:स्वाहा ॥ पवमानायसोमायेदं० ॥ यत्तेराजन्मारीच:कश्यप:पवमान:सोम:पंक्ति: ॥ उपाकर्म० ॥ ॐ यत्तेराजन्छृतंहविस्तेनसोमाभिरक्षन: ॥ अरातीवामानस्तारीन्मोचन:किंचनामंमदिंद्रार्येदोपरिस्त्रवस्वाहा ॥पवमानायसोमायेदं० ॥ अग्रेबृहन्नाप्त्यस्त्रितोऽग्निस्त्रिष्टुप् ॥ उपाकर्म० ॥ ॐ अग्रेबृहन्नुषसामूर्ध्वोअस्थान्निर्जगन्वान्तमसोज्योतिषागात् ॥ अग्निर्भानुनारुशतास्वंगआजातोविश्वासब्ध्यान्यप्रा:स्वाहा ॥ अग्नयइदं० ॥ समानीवइत्यस्यांगिरस:संवनन:संज्ञानमनुष्टुप् ॥ उपाक० ॥ ॐ समानीवआकूति:समानाहृदयानिव: ॥ समानमस्तुवोमनोयथाव:सुसहासतिस्वाहा ॥ संज्ञानायेदं० ॥ तत:स्विष्टकृतंहुत्वारज्जुंप्रहृत्य दधिसुक्तप्राश्नीयु: ॥ दधिक्राव्णोवामदेवोदधिक्रावानुष्टुप् दधिसक्तुप्रानेविनियोग: ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: । सुरभिनोमुखाकरत्प्रणाआयुंषितारिषत्स्वाहा ॥ प्राश्यआचम्यमार्जयेत् ॥ उत्तरपरिस्तरणदर्भाणामध: अंजलिंकृत्वान्येनअपआसेचयतेतन्मार्जनम् ॥ यज्ञोपवीतमितिमंत्रस्यपरब्रह्मपरमात्मात्रिष्टुप् यज्ञोपवीतहवनेविनियोग: ॥ ॐ यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्यत्सहजंपुरस्तात् ।आयुष्यमग्र्यंप्रतिमुंचशुभ्रंयज्ञोपवीतंबलमस्तुतेज:स्वाहा । परमात्मान इदंनमम इतिहुत्वा ॥ तत:सदक्षिणानियज्ञोपवीतानियथाशक्तिब्राह्मणेभ्योदत्त्वास्वयंधारयेत् ॥अन्येसर्वेपिस्वस्वधार्ययज्ञोपवीतानिपृथगभिमंत्र्यधारयेयु: ॥ N/A References : N/A Last Updated : July 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP