संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथपवनपावनम् अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपवनपावनम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथपवनपावनम् Translation - भाषांतर श्री: ॥ आचम्यप्राणानायम्यदेशकालावुक्त्वा ॥ श्रृतिस्मृतिपुराणोक्तफलप्राप्त्यर्थंशरीरशुध्दयर्थमात्मानंपावयिष्ये ॥ आचार्यऋत्विग्यजमानै:सहैकवि शतिदर्भपिंजूलान्यादायसप्तभि:पावयति ॥ नाभ्या:सोदकैर्दर्भैर्मुखपर्यंतंसंमार्ष्टि ॥ ॐ चित्पतिर्मापुनात्वच्छिंद्रेणपवित्रेणवसो:सूर्यस्यरश्मिभि: ॥ सकृन्मंत्रेणद्विस्तूष्णीं ॥ अथमार्जनं ॥ यद्देवादेवहेडनं ॥ देवासश्चकृमावयं ॥ आदित्यास्तस्मान्मामुंचत ॥ ऋतस्यर्तेनमामुत ॥ देवाजीवनकाम्यायत् ॥ वाचानृतमूदिम ॥ अग्निर्मातस्मादेनस: ॥ गार्हपत्य:प्रमुंचतु ॥ दुरितायानिचकृम ॥ करोतुमामनेनसं ॥ ऋतेनध्यावापृथिवी ॥ ऋतेनत्व सरस्वती ॥ ऋतान्मामुंचता हस: ॥ यदन्यकृतमारिम ॥ सजातश सादुतवाजामिश सात् ॥ ज्यायस:श सादुतवाकनीयस: ॥ अनाज्ञातंदेवकृतंयदेन: ॥ तस्मात्त्वमस्मान्जातवेदोमुमुग्धि ॥ यद्वाचायन्मनसा ॥ बाहुभ्यामूरुभ्यामष्ठीवभ्ध्यां ॥ शिश्नैर्यदनृतंचकृमावयं ॥ अग्निर्मातस्मादेनस: ॥ यध्दस्ताभ्यांचकरकिल्बिषाणि ॥ अक्षाणांवग्नुमुपजिघ्नमान: ॥ दूरेपश्याचराष्ट्रभृच्च ॥ तान्यप्सरसावनुदत्तामृणानि ॥ अदीव्यन्नृणंयदहंचकार ॥ यद्वादास्यन्त्संजगाराजनेभ्य: ॥ अग्निर्मातस्मादेनस: ॥ यन्मयिमातागर्भेसति ॥ एनश्चकारयत्पिता ॥ अग्निर्मातस्मादेनस: ॥ यदापिपेषमातरंपितरं ॥ पुत्र:प्रमुदितोधयन् ॥ अहिसितौपितरौमयातत् ॥ तदग्नेअनृणोभवामि ॥ यदंतरिक्षंपृथिवीमुतध्यां ॥ यन्मातरंपितरंवाजिहिसिम ॥ अग्निर्मातस्मादेनस: ॥ यदाशसानिशसायत्प्राशसा ॥ यदेनश्चकृमानूतनंयत्पुराणं ॥ अग्निर्मातस्मादेनस: ॥ अतिक्रामामिदुरितंयदेन: ॥ जहामिरिप्रपंचरमेसधस्थे ॥ यत्रयंतिसुकृतोनापिदुष्कृत: ॥ तमारोहामिसुकृतांनुलोकं ॥ त्रितेदेवाअमृजतैतदेन: ॥ त्रितएतन्मनुष्येषुमामृजे ॥ ततोमायदिकिंचिदानशे ॥ अग्निर्मातस्मादेनस: ॥ गार्हपत्य:प्रमुंचतु ॥ दुरितायानिचकृम ॥ करोतुमामनेनसं ॥ दिविजाताअप्सुजाता: ॥ याजाताओषधीभ्य: ॥ अथोयाअग्निजाआप: ॥ तान:शुंधंतुशुंधनी: ॥ यदापोनक्तंदुरितंचराम ॥ यद्वादिवानूतनंयत्पुराणं ॥ हिरण्यवर्णास्तत उत्पुनीतन: ॥ इमंमेवरुणतत्त्वायामि ॥ त्वंनोअग्नेसत्वंनोअग्ने ॥ त्वमग्नेअयासि ॥ इत्यनुवाकंजप्त्वा ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: ॥ सुरभिनोमुखाकरत्प्रण आयूषितारिषत् ॥ इतिमार्जनं ॥तांस्त्यक्त्वा ॥ अन्यान्गृहीत्वा ॥ ॐ वाक् पतिर्मापुनात्वच्छिद्रेणवसो:सूर्यस्यरश्मिभि: ॥ नाभ्या:सोदकैर्दर्भैर्नासिकापर्यतंसंमार्ष्टि ॥ सकृन्मंत्रेणद्विस्तूष्णीं ॥ ॐ पवमान:सुवर्जन: ॥ पवित्रेणविचर्षणि: ॥ य:पोतासपुनातुमा ॥ पुनंतुमादेवजना: ॥ पुनंतुमनवोधिया ॥ पुनंतुविश्वाआयव: ॥ जातवेद:पवित्रवत् ॥ पवित्रेणपुनाहिमा ॥ शुक्रेणदेवदीध्यत् ॥अग्नेक्रत्वाक्रतूरनु ॥ यत्तेपवित्रमर्चिषि ॥ अग्नेविततमंतरा ॥ ब्रह्मतेनपुनीमहे ॥ उभाभ्यांदेवसवित: ॥ पवित्रेणसवेनच ॥ इदंब्रह्मपुनीमहे ॥ वैश्वदेवीपुनतीदेव्यागात् ॥यस्यैबह्वीस्तनुवोवीतपृष्ठा: ॥ तयामदंत: सधमाध्येषु ॥ वयस्यामपतयोरयीणां ॥ बृहभ्दि:सवितस्तृभि: ॥ वर्षिष्ठैर्देवमन्मभि: ॥ अग्नेदक्षै:पुनाहिमा ॥ येनदेवाअपुनत ॥येनापोदिव्यंकश: ॥ तेनदिव्येनब्रह्मणा ॥ इदंब्रह्मपुनीमहे ॥ य:पावमानीरध्येति ॥ ऋषिभि:संभृतरसं ॥ सर्वसपूतमश्नाति ॥ स्वदितंमातरिश्वना ॥ पावमानीर्योअध्येति ॥ ऋषिभि:संभृतरसं ॥ तस्मैसरस्वतीदुहे ॥ क्षीरसपिंर्मधूदकं॥ पावमानी:स्वस्त्यनी: ॥ सुदुघाहिपयस्वती: ॥ ऋषिभि:संभृतोरस: ॥ ब्राह्मणेष्वमृतहितं ॥ पावमानीर्दिशंतनु: ॥ऋषिभि:संभृतोरस: ॥ ब्राह्मणेष्वमृतंहितं ॥ येनदेवा:पवित्रेण ॥ आत्मानंपुनतेसदा ॥ तेनसहस्त्रधारणेन ॥ पावमान्य:पुनंतुमा ॥ प्राजापत्यंपवित्रं ॥ शतोध्यामहिरण्मयं ॥ तेनब्रह्मविदोवयं ॥ पूतंब्रह्मपुनीमहे ॥ इंद्र:सुनीतीसहमापुनातु ॥ सोम:स्वस्त्यावरुण: समीच्यां ॥ यमोराजाप्रमृणाभि:पुनातुमा ॥ जातवेदामोर्जयंत्यापुनात् ॥ इत्यनुवाकंजप्त्वा ॥ ततोमार्जनं ॥ आपोहिष्ठाम् योभुवस्तानऊर्जेदधातन ॥ महेरणायचक्षसे ॥ योव:शिवतमोरसस्तस्यभाजयतेहन: ॥ उशतीरिवमातर: ॥ तस्माअरंगमामवोयस्यक्षयायजिनथ ॥ आपोजनयथाचन: ॥ तांस्त्यक्त्वा ॥ अन्यान्गृहीत्वा ॥ ॐ देवोमासवितापुनात्वाच्छिद्रेणपवित्रेणवसो:सूर्यस्यरश्मिभि: ॥ नाभ्या:सोदकैर्दर्भैर्ललाटपर्यंतंसमार्ष्टि ॥ सकृन्मंत्रेणद्विस्तूष्णीं ॥ तस्यतेपवित्रपतेपवित्रेणयस्मैकंपनेतच्छकेयं ॥ इतिजप्त्वा ॥ ततोमार्जनं ॥ हिरण्यवर्णा:शुचय: पावकायासुजात: कश्यषोयास्विंद्र: ॥ अग्निंयागर्भेदधिरेविरुपास्तान आप:शस्योनाभवंतु ॥ यासाराजावरुणोयातिमध्येसत्यानृतेअवपश्यन्जनानां ॥ मधुश्चुत:शुचयोया:पावकास्तान आप:शस्योनाभवंतु ॥ यासांदेवादिविकृण्वंतिभक्षंयाअंतरिक्षेबहुधाभवति ॥ या:पृथिवींपयसोंदंतिशुक्रास्तानाआप:शस्योनाभवंतु ॥ शिवेनमाचक्षुषापश्यताप:शिवयातनुवोस्पृशतत्वचंमे ॥ सर्वाअग्नीरप्सुषदोहुवेवोमयिवर्चोबलमोजोनिधत्त ॥ तास्त्यक्त्वा ॥ भूर्भव:सुव: इत्यप:प्राश्य ॥ आपोहिष्ठेतितिसृभिर्मुखंनिमृज्य ॥ विपरीताभिराचामेत् ॥ तस्माअरं० चन: ॥ योव:शिव० ॥ आपोहि० क्षसे ॥ पयस्वतीरोषधय:पयस्वद्वीरुधांपय: ॥ अपांपयसोयत्पयस्तेनमामिंद्रससृज ॥ इतिप्रतिमंत्रमाचामेत् ॥तत:स्मृत्युक्तमाचनंकुर्याध्यथा ॥ कृत्वालंपादशौचंविमलमथजलंत्रि:पिबेदुन्मृजेद्विर्देशिन्यंगुष्ठकाभ्यांसजलमभिमृशेन्नासिकारंध्रयुग्मं ॥ अंगुष्ठानामिकाभ्यांनयनयुगयुतंकर्णयुग्मंकनिष्ठांगुष्ठाभ्यांनाभिदेशेहृदयमथतलेनांगुलीभि:शिरोंसौ ॥१॥इतिस्मृत्युक्तमाचनमनंचरेत् ॥ गायत्रीजप:शतकृत्व:सहस्त्रकृत्वोवाऽपरिमितकृत्वोवावर्तयेत् ॥ दशवारमिडाजप: ॥ ॐ इडादेवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानिश सिषद्विश्वेदेवा: अवंतुशोभायैपितरोनुमदंतु ॥ अपन:शोशुचदघमग्नेशुशुध्यारयिं ॥ अपन:शोशुचदघं ॥प्रयभ्दंदिष्ठएषांप्रास्माकासश्चसूरय: ॥ अपन:शोशुचदघं ॥ प्रयत्तेअग्नेसूरयोजायेमहिप्रतेवयं ॥ अपन:शोशुचदघं ॥ त्वहिविश्वतोमुखविश्वत:परिभूरसि ॥ अपन:शोसुचदघं ॥ द्विषोनोविश्वतोमुखातिनावेवपारय ॥ अपन:शोशुचदघं ॥ सन:सिंधुमिवनावयातिपर्षास्वस्तये ॥ अपन:शोशुचद्घं ॥ आप:प्रवणादिवयतीपास्मस्त्यंदतामघं ॥ अपन:शोशुचदघं ॥उद्वनादुदकानीवापास्मत्स्यंदतामघं ॥ अपन:शोशुचदघं ॥ आनंदायप्रमोदायपुनरागास्वान्गृहान् ॥ अपन:शोशुचदघं ॥ नवैतत्रप्रमीयतेगौरश्व:पुरुष:पशु: ॥ यत्रेदंब्रह्मक्रियतेपरिधिजींवनायकमपन:शोशुचदघं ॥ सहस्त्रशीर्षापुरुष: ॥ सहस्त्राक्ष:सहस्त्रपात् ॥ सभूमिंविश्वतोवृत्वा ॥ अत्यतिष्ठदृशांगुलं ॥ पुरुषएवेदसर्वे ॥ यद्भूतंयच्चभव्यं ॥ उतामृतत्वस्येशान ॥ यदन्नेनातिरोहति ॥ एतानावनस्यमहिमा ॥ अतोज्यायाश्चपूरुष: ॥ पादोस्यविश्वाभूतानि ॥ त्रिपादस्यामृतंदिवि ॥ त्रिपादूर्ध्वउदैत्पुरुष: ॥ पादोस्येहाभवात्पुन: ॥ ततोविष्वड्व्यक्रामत् ॥ साशनानशनेअभि ॥ तस्माद्विराडजायत ॥ विराजोअधिपूरुष: ॥सजातोअत्यरिच्यत ॥ पश्चाद्भूमिमथोपुर: ॥ यत्पुरुषेणहविषा ॥ देवायज्ञमतन्वत ॥ वसंतोअस्यासीदाज्यं ॥ ग्रीष्मइध्म:शरध्दवि: ॥ सप्तास्यासन्परिधय: ॥ त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतन्वाना: ॥ अबध्नन्पुरुषंपशुं ॥ तंयज्ञंबर्हिषिप्रौक्षन् पुरुषंजातमग्रत: ॥ तेनदेवाअयजंत ॥ साध्याऋषयश्चये ॥ तस्माध्यज्ञात्सर्वंहुत: ॥ संभृतंपृषदाज्यं ॥ पशूस्ताश्चक्रेवायव्यान् ॥ आरण्यान्ग्राम्याश्चये ॥ तस्माध्यज्ञात्सर्वहुत: ॥ ऋच:सामानिजज्ञिरे ॥ छंदासिजज्ञिरेतस्मात् ॥ यजुस्तस्मादजायत ॥ तस्मादश्वाअजायंत ॥ येकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात् ॥ तस्माज्जाताअजावय: ॥ यत्पुरुषंव्यदधु: ॥कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहू ॥ कावूरुपादावुच्येते ॥ ब्राह्मणोस्यमुखमासीत् ॥ बाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य: ॥ पभ्ध्याशूद्रोअजायत ॥ चंद्रमामनसोजात: ॥ चक्षो:सूर्योअजायत ॥ मुखादिंद्रश्चाग्निश्चं ॥ प्राणाद्वायुरजायत ॥ नाभ्याआसीदंरिक्षं ॥ शीर्ष्णॊध्यौ:समवर्तत॥ पभ्ध्यांभूमिर्दिश:श्रोत्रात् ॥ तथालोकाअकल्पयन् ॥ वेदाहमेतंपुरुषंमहातं ॥ आदित्यवर्णंतमसस्तुपारे ॥ सर्वाणिरुपाणिविचित्यधीर: ॥ नामानिकृत्वाभिवदन्यदास्ते ॥ धातापुरस्ताध्यमुदाजहार ॥ शक्र:प्रविद्वान्प्रदिशश्चतस्त्र: ॥ तमेवंविद्वानमृतइहभवति ॥ नान्य:पंथाअयनायविध्यते ॥ यज्ञेनयज्ञमयजंतदेवा: ॥ तानिधर्माणिप्रथमान्यासान् ॥ तेहनाकंमहिमान:सचंते ॥ यत्रपूर्वेसाध्या:संतिदेवा: ॥ॐ भूर्भव:सुव: ॥ अनेनशरीरशुध्द्यंगभूतपवनपावनन्यासेनश्रीपरमेश्वर:प्रीयतां ॥ N/A References : N/A Last Updated : July 22, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP