संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथपुरुषसूक्तम् अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपुरुषसूक्तम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथपुरुषसूक्तम् Translation - भाषांतर श्री: ॥ सहस्त्रशीर्षाषोळशनारायण:पौरुषमानुष्टुभंत्रिष्टुबंतं ॥ अभिषेकेविनियोग: ॥ हरि: ॐ ॥ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष: सह्स्त्रपात् ॥ सभूमिंविश्वतोवृत्वात्यतिष्ठदृशांगुलं ॥ पुरुषएवेदंसर्वंयद्भूतंयच्चभव्यं ॥ उतामृतत्वस्येशानोयदन्नेनातिरोहति ॥ एतावानस्यमहिमातोज्यांश्चपूरुष: ॥ पादोस्यविश्वाभूतानित्रिपादस्यामृतदिवि ॥ त्रिपादूर्ध्वउदैत्पुरुष:पादोस्येहाभवत्पुन: ॥ ततोविष्वड्व्यक्रामत्साशनानशनेअभि ॥ तस्माद्विराळजायतविराजोअधिपूरुष: ॥ सजातोअत्यरिच्यतपश्चाद्भूतमिमथोपुर: ॥१॥यत्पुरुषेणहविषादेवायज्ञमतन्वत ॥ वसंतोअस्यासीदाज्यंग्रीष्मइध्म:शरध्दवि: ॥ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रत: ॥ तेनदेवाअयजंतसाध्याऋषयश्चये ॥ तस्माध्यज्ञात्सर्वहुत:संभृतंपृषदाज्यं ॥ पशून्तांश्चक्रेवायव्यानारण्यान् ग्राम्याश्चये ॥ तस्माध्यज्ञात्सर्वहुतऋच:सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्मादयजुस्तस्मादजायत ॥ तस्मादश्वाअजायंतयेकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात्तस्माज्जाताअजावय: ॥२॥यत्पुरुषंव्यदधु:कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ ब्राह्मणॊस्यमुखमासीब्दाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य:पभ्दयांशूद्रोअजायत ॥ चंद्रमामनसोजातश्चक्षो:सूर्योअअजायत ॥ मुखादिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥ नाभ्याआसीदंतरिक्षंशीर्ष्णोध्यौ:समवर्तत ॥ पभ्दयांभूमिर्दिश:श्रोत्रात्तथालोकाँअकल्पयन् ॥ सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायदयंज्ञंतन्वानाअबध्नपुरुषंपशुम् ॥यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥३॥अतोदेवाइतिषण्णांकाण्वोमेधातिथिर्देवाविष्णुर्गायत्री ॥ अभिषेकेवि० ॥ ॐ अतोदेवाअवंतुनोयतोविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभि: ॥ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदम् ॥ समूह्वमस्यपासुरे ॥ त्रीणिपदाविचक्रमेविष्णुर्गोपाअदाभ्य: ॥ अतोधर्माणिधारयन् ॥ विष्णो:कर्माणिपश्यतयतोव्रतानिपस्पशे ॥ इंद्रस्युज्य:सखा ॥ तद्विष्णो:परमंपदंसदापश्यंतिसूरय: ॥ दिवीवचक्षुराततं ॥ तद्विप्रासोविपन्यवोजागृवांस:समिधंते ॥ विष्णोर्यत्परमंपदम् ॥ इतिपुरुषसूक्तंविष्णुसूक्तंच ॥ देवस्यत्वासवितु: प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामग्नेस्तेजसासूर्यस्यवर्चसेंद्रस्येंद्रियेणाभिषिंचामि ॥ बलायश्रियैयशसेन्नाध्याय ॐ भूर्भव: स्व: अमृताभिषेकोस्तु शांति: पुष्टिस्तुष्टिश्चास्तु ॥ अमुकदेव० महाभिषेकस्नानंसमर्पयामि ॥ महाभि० शुध्दोदकस्नानंसमर्पयामि ॥ स्नानांतेआचमनीयंस० ॥ ॐ तदस्तुमित्रावरुणातदग्नेशंयोरस्मभ्यमिदमस्तुशस्तम् ॥ अशीमहिगाधमुतप्रतिष्ठानंमोदिवेबृहतेसादनाय ॥ गृहावैप्रतिष्ठासूक्तंतत्प्रतिष्ठिततमयावाचाशंस्तव्यंतस्माध्यध्यपिदूरइवपशूँल्लभतेगृहानेवैनानाजिगमिषतिगृहाहिपशूनांप्रतिष्ठाप्रतिष्ठा ॥ नर्यप्रजांमेगोपाय ॥अमृतत्वायजीवसे ॥ जातांजनिष्यमाणांच ॥ अमृतेसत्येप्रतिष्ठितां ॥ सुप्रतिष्ठितमस्तु ॥ ॐ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रत: ॥ तेनदेवाऽअयजंतसाध्याऋषयश्चये ॥ सर्वभूषाधिकेसौम्येलोकलज्जानिवारणे ॥ मयोपपादितेतुभ्यंवाससीप्रतिगृह्यताम् ॥ अमु० वस्त्रं०॥ आचमनीयं ॥ ॐ तस्माध्यज्ञात्सर्वहुत:संभृतंपृषदाज्यं ॥ पशून्ताश्चक्रेवायव्यानारण्यान्ग्राम्याश्चये ॥ देवदेवनमस्तेस्तुत्राहिमांभवसागरात् ॥ ब्रह्मसूत्रंसोत्तरीयंगृहाणपुरुषोत्तम ॥ अमु० यज्ञोप० आचमनीय ॥ (हरिद्रास्वर्णवर्णाभासर्वसौभाग्यदायिनी ॥ सर्वालंकारमुख्याहिदेवित्वंप्रतिगृह्यताम् ॥ हरिद्रांस० ॥ हरिद्राचूर्णसंयुक्तंकुंकुमंकामदायकम् ॥ वस्त्रालंकरणंसर्वदेवित्वंप्रतिगृह्यताम् ॥ अमुकदे० कुंकुमंसमर्पयामि ॥ कज्जलंकामदंरमम्यंकामिनीकामसंभवम् ॥ सीमंतभूषणार्थायसिंदूरंप्रतिगृह्यताम् ॥ अमुकदे० सिंदूरंस० ॥ मांगल्यतंतुमणिभिर्मुक्ताफलविराजितम् ॥ कंठस्यभूषणार्थायकंठसूत्रंप्रगृह्यताम् ॥ अमुकदे० कंठसूत्रस० ॥ काचस्यनिर्मितंदिव्यंकंकणंचसुरेश्वरि ॥ हस्तालंकरणार्थायकंकणंप्रतिगृह्यताम् ॥ अमुकदेवतायैनम: ॥ कंकणंस० ॥ अलंकारान्मयादेविसुवर्णेनविनिरर्मितान् ॥ प्रीत्यर्थंतवदेवेशिभूषणंप्रतिगृह्यताम् ॥ अमुकदे० नानाभूषणानिस० ॥ नानाभरणशोभाढयंनानारत्नोपशोभितं ॥ अर्पितंचमयादेविताडपत्रंप्रगृह्यताम् ॥ अमुकदे० ताडपत्रंसम० ॥) ॐ अहिरिवभोगै:पर्येतिबाहुंज्यायाहेतिंपरिबाधमान: ॥ हस्तघ्नोविश्वावयुनानिविद्वान्पुमान्पुमांसंपरिपातुविश्वत: ॥ ज्योत्स्नापतेनमस्तुभ्यंनमस्तेविश्वरुपिणे ॥ नानापरिमलद्रव्यंगृहाणपरमेश्वर ॥ अमुकदे० नानापरिमलद्रव्याणिसम० ॥ ॐ तस्माध्यज्ञात्सर्वहुतऋच: सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्माध्यजुस्तस्मादजायत ॥ श्रीखंडंचंदनंदिव्यंगंधाढयंसुमनोहरं ॥ विलेपनंसुरश्रेष्ठचंदनंप्रतिगृह्यताम् ॥ अमुकदे० चंदनंस० ॥ अक्षतास्तंडुला:शुभ्रा:कुंकुमेनविराजिता: ॥ मयानिवेदिताभक्त्यागृहाणपरमेश्वर ॥ अमुकदे० अलंकारार्थेअक्षतानस० ॥ ॐ तस्मादश्वाअजायंतयेकेचोभयादत: ॥ गावोहजज्ञिरेत्तस्माताअजावय: ॥ माल्यादीनि सुगंधीनिमालत्यादीनिवैप्रभो ॥ मयाहृतानिपूजार्थंपुष्पाणिप्रतिगृह्यतां ॥ सेवंतिकाबकुलचंपकपाटलाब्जै:पुन्नागजातिकरवीररसालपुष्पै: ॥ बिल्वप्रवालतुलसीदलमालतीभिस्त्वांपूजयामिजगदीश्वरमेप्रसीद ॥ अमु० पुष्पाणिस० ॥ केशवादिचतुर्विंशतिनामभिर्वाअष्टोत्तरशतनामभि:सहस्त्रनामभिर्वातुलासीदलैरन्येनद्रव्येणवापूजयेत् ॥ ॐ यत्पुरुषंव्यदधु:कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ वनस्पतिरसोद्भूतोगंधाढ्योगंधउत्तम: ॥ आघ्नेय:सर्वदेवानांधूपोऽयंप्रतिगृह्यताम् ॥ अमु० धूपंस० ॥ ॐ ब्राह्मणोस्यमुखमासीब्दाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य:पभ्ध्यांशूद्रोअजायत ॥ आज्यंसुवर्तिसंयुक्तंवन्हिनायोजितंमया ॥ दीपंगृहाणदेवेशत्रैलोक्यतिमिरापह ॥ भक्त्या दीप्रपंयच्छामिदेवायपरमात्मने ॥ त्राहिमांनिरयाध्दोराद्दीपोयंप्रतिगृह्यतां ॥ अमु० दीपंस० ॥ ॐ चंद्रमामनसोजातश्चक्षो:सूर्योअजायत ॥ मुखादिंद्रश्चाग्निप्राणाद्वायुरजायत ॥ नैवेध्यंगृह्यतांदेवभक्तिंचलांकुरु ॥ ईप्सितंमेवरंदेहिपरत्रचपरागतिम् ॥ शर्कराखंडखाद्यानिदधिक्षीरघृतानच ॥ आहारंभक्ष्यभोज्यंचनैवेध्यंप्रतिगृह्यताम् ॥ शर्कराध्यमुकनैवेध्यं समर्पयामि ॥ ॐ प्राणायस्वाहा ॥ ॐ अपानाय स्वाहा ॥ ॐ व्यानाय० ॐ उदानाय० ॐ समानाय० ॐ ब्रह्मणे० ॥ नैवेध्यमध्येपानीयं स० ॥ पुन: ॐ प्राणायस्वा० ॥ इत्यादि उत्तरापोशनं स० ॥ हस्तप्रक्षालनं स० ॥ मुखप्रक्षालनं स० ॥करोद्वर्तनार्थेचंदनं स० ॥ पूगीफलंमहद्दिव्यंनागवल्लीदलैर्युतम् ॥ कर्पूर्रैलासमायुक्तंतांबूलंप्रतिगृह्यताम् ॥ अमु० तांबूलं स० ॥ इदंफलंमयादेवस्थापितंपुरतस्तव ॥ तेनमेसुफलावाप्तिर्भवेज्जन्मनिजन्मनि ॥ फलेनफलितंसर्वत्रैलोक्यंसचराचरं ॥ तस्मात्फलप्रदानेनसफला:स्युर्मनोरथा: ॥ अमु० फलं० स० ॥ हिरण्यगर्भगर्भस्थं हेमबीजंविभावसो: ॥ अनंतपुण्यफलदमत:शांतिप्रयच्छमे ॥ अमु० दक्षिणां स० ॥ ॐ श्रियेजात:श्रिय आनिरियायश्रियंवयोजरितृभ्योददाति ॥ श्रियंवसानाअमृतत्वमायन्भवंतिसत्यासमिथामितद्रौ ॥ श्रियएवैनंतच्छ्रियामादधातिसंततमृचावषट्कृत्यंसंतत्यैसंधीयतेप्रजयापशुभिर्यएवंवेद ॥ याज्ययायजतिप्रत्तिर्वैयाज्यापुण्यैवलक्ष्मी:पुण्यामेवतलक्ष्मींसंभावयतिपुण्यांलक्ष्मींसंस्कुरुते ॥ चंद्रादित्यौचधरणिर्विध्युदग्निस्तथैवच ॥ त्वमेवसर्वज्योतींषिआर्तिक्यंप्रतिगृह्यताम् ॥ अमु० महानीराजनदीपंस० ॥ हृत्स्थाज्ञानतमोनाशक्षमंभक्त्यासमर्पितं ॥ कर्पूरदीपममलंगृहाणपरमेश्वर ॥ अमुकदे० कर्पूरार्तिक्यदीपं स० ॥ ॐ नाभ्याआसीदंतरिक्षंशीर्ष्णौध्यौसम:वर्तत ॥ पभ्ध्यांभूमिर्दिश:श्रोत्रात्तथालोकाँअकल्पयन् ॥ नम:सर्वहितार्थायजगदाधारहेतवे ॥ साष्टांगोऽयंप्रणामस्तेप्रयत्नेनमयाकृत: ॥ नमोस्त्वनंतायसहस्त्रमूर्तयेसहस्त्रपादाक्षिशिरोरुबाहवे ॥ सहस्त्रनाम्नेपुरुषायशाश्वतेसहस्त्रकोटीयुगधारिणेनम: ॥ अमु० नमस्कारान् सम० ॥ ॐ सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतन्वानाअबध्नन्पुरुषंपशुं ॥ यानिकानिपापानिजन्मांतरकृतानिच ॥ तानितानिविनश्यंतिप्रदक्षिणपदेपदे ॥ अमुक० प्रदक्षिणा० स० ॥ ॐ यज्ञेययज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥ नमोमहभ्ध्योनमो० राजधिराजाय० ॥ मंत्रपुष्पांजलिंसमर्पयामि ॥ अग्निमावाह्य पुरुषसूक्तेनप्रत्यृचमाज्यंहुत्वा तदसंभवेसूक्तावृत्तिद्वयंजप्त्वा पुनस्तेनैवसूक्तेनषोडशपुष्पाण्यर्पयित्वा पुन:सूक्तंजपेत् ॥ तदनंतरंस्वोपदिष्टमूलमंत्रंयथाशक्तिजस्वा ॥ ततोगीतंवाध्यंनृत्यंछत्रंचामरंदर्पणमांदोलनंसर्वराजोपचारार्थेतुलसीपरं स० ॥ प्रार्थना ॥ ॐ अयंमेहस्तोभगवानयंमेभगवत्तर: ॥ अयंमेविश्वभेषज्योंशिवाभिमदर्शन: ॥ अयंमातायंपितायंजीवातुरागमत् ॥ इदंतवप्रसर्पणंसुबंधेहिनिरिहि ॥ आवाहनंनजानामिनजानामितवार्चनं ॥ पूजांचैवनजानामिक्षमस्वपरमेश्वर ॥ मंत्रहीनंक्रियाहीनंभक्तिहीनंसुरेश्वर ॥ यत्पूजितं मयादेवपरिपूर्णंतदस्तुमे ॥ अपराधसहस्त्रंचक्रियतेहर्निशंमया ॥ दासोऽयमितिमांमत्वाक्षमस्वपरमेश्वर ॥ पूजांते ॥ दत्वाषोडशभिऋग्भि:षोडशान्नस्यचाहुती: ॥ सूक्तेन (पौरुषेन) प्रत्यृचंपुष्पंदत्वासूक्तेनसंस्तुयात् ॥अन्यै:पौराणैश्च ॥ गतंपापंगतंदु:खं गतंदारिद्र्यमेवच ॥ आगतासुखसंपत्ति:पुण्याच्चतवदर्शनात् ॥ रुपंदेहिजयंदेहियशोदेहिद्विषोजहि ॥ पुत्रान् देहिधनंदेहिसर्वान्कामांश्चदेहिमे ॥ यस्यस्मृत्याचनामोक्त्यातप:पूजाक्रियादिषु ॥ न्यूनंसंपूर्णतांयातिसध्योवंदेतमच्युतं ॥इतिप्रार्थना ॥ अनेनमयायथाज्ञानेनयथामीलितोपचारद्रव्यै:कृतपूजनेनश्रीअमुकदेवता:प्रीयंताम् ॥ ततो निर्माल्यं (विष्णुभिन्नं) देवदत्तंभावयित्वाशिरसिधारयेत् ॥ शंखमध्येस्थितंतोयंभ्रामितंकेशवोपरि ॥ अंगलग्नंमनुष्याणांब्रह्महत्यांव्यपोहति ॥ अनेनमंत्रेणशंखोदकंशिरसिधारयेत् ॥ अकालमृत्युहरणंसर्वव्याधिविनाशनं ॥ देवपादोदकंपीत्वाशिरसाधारयाम्यहं ॥ तीर्थंग्राह्यं ॥ तत्तुपात्रांतरेणैवविहितंनहस्तेन ॥ इतिदेवपूजा ॥ इतिअष्टधाविभक्तदिवसस्यप्रथमभागकृत्यं ॥ N/A References : N/A Last Updated : July 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP