संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथगणपत्यथर्वशीर्षम् अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथगणपत्यथर्वशीर्षम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथगणपत्यथर्वशीर्षम् Translation - भाषांतर श्री: ॥ अथगणेशाथर्वशीर्षंव्याख्यास्याम: ॥ ॐ नमस्तेगणपतये । त्वमेवप्रत्यक्षंतत्त्वमसि । त्वमेवकेलंधर्तासि । त्वमेवसर्वंखल्विदंब्रह्मासि । त्वंसाक्षादात्मासिन्त्यं ॥१॥ऋतंवच्मि । सत्यंवच्मि ॥२॥अवत्वंमां । अववक्तारं । अवश्रोतारं । अवदातारं । अवधातारं । अवानूचानमवशिष्यं ।अवपश्चात्तात् । अवपुरस्तात् । अवत्तरात्तात् । अवदक्षिणात्तात् । अवचोर्ध्वात्तात् । अवधरात्तात् । सर्वतोमांपाहिपाहिसमंतात् ॥३॥त्वंवाड्मयस्त्वंचिन्मय: । त्वमानंदमयस्त्वंब्रह्ममय: । त्वसंच्चिदानंदाद्वितीयोसि । त्वंप्रत्यक्षंब्रह्मासि । त्वंज्ञानमयोविज्ञानयमोसि ॥४॥सर्वंजगदिदंत्वत्तोजायते । सर्वंजगदिदंत्वत्ततिष्ठति । सर्वजगदिदंत्वयिलयमेष्यति ।सर्वजगदिदंत्वयिप्रत्येति । त्वंभूमिरापोनलोनिलोनभ: । त्वंचत्वारिवाक् पदानि ॥५॥त्वंगुणयातीत: । त्वंदेहत्रयातीत: । त्वंकालत्रयातीत: । त्वंमूलाधारस्थितोसिनित्यं ।त्वंशक्तित्रयात्मक: । त्वांयोगिनोध्यायंतिनित्यं । त्वंब्रह्मात्वंविष्णुस्त्वंरुद्रस्त्वमिंद्रस्त्वमग्नित्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वंब्रह्मभूर्भुव:स्वरोम् ॥६॥गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरं । अनुस्वार:परतर: । अर्धेंदुलसितं । तारेणरुध्दं । एतत्तवमनुस्वरुपं । गकार:पूर्वरुपं । अकारोमध्यमरुपं । अनुस्वारश्चांत्यरुपं । बिंदुरुत्तरुपं । नाद:संधानं । सहितासंधि: । सैषागणेशविध्या । गणकऋषि: । निचृद्गायत्रीच्छंद: । गणपतिर्देवता ॥ ॐ गं गणपतयेनम: ॥७॥एकदंतायविद्महेवक्रतुंडायधीमहि । तन्नोदंतीप्रचोदयात् ॥८॥एकदंतंचतुर्हस्तंपाशमंकुशधारिणन् । रदंचवरदंहस्तैर्बिभ्राणंमूषकध्वजम् । रक्तंलंबोदरंशूर्पकर्णकंरक्तवाससं । रक्तगंधानुलिप्तांगंरक्तपुष्पै:सुपूजितम् । भक्तानुकंपिनंदेवंजगत्कारणमच्युतं । आविर्भूतंचसृष्टयादौप्रकृते:पुरुषात्परं । एवंध्यायतियोनित्यंसयोगीयोगिनांवर: ॥९॥नमोव्रातपतयेनमोगणपतयेनम: प्रथमपतयेनमस्तेअस्तुलंबोदरायैकदंतायविघ्ननाशिनेशिवसुतायश्रीवरदेमूर्तयेनम: ॥१०॥एतदथर्वशीर्षंयोधीते । सब्रह्मभूयाकल्पते । ससर्वविघ्नैर्नबाध्यते । ससर्वत:सुखमेधते ।सपंचमहापापात्प्रमुच्यते । सायमधीयानोदिवसकृतंपापंनाशयति । प्रातरधीयानोरात्रिकृतंपापंनाशयति । सायंप्रात:प्रयुंजानोअपापोभवति । सर्वत्राधीयानो पविघ्नोभवति । धर्मार्थकाममोक्षंचविंदति । इदमथर्वशीर्षमशिष्यायनदेयं । योयदिमोहाद्दास्यति सपापीयान् भवति । सहस्त्रावर्तनात् । यंयंकाममधीते तंतमनेनसाधयेत् ॥११॥अनेनगणपतिमभिषिंचति सवाग्ग्मीभवति । चतुर्थ्यामनश्नन्जपति सविध्यावान्भवति । इत्यथर्वणवाक्यं । ब्रह्माध्याचरणंविध्यान्नबिभेतिकदाचनेति ॥१२॥योदूर्वांकुरैर्यजति सवैश्रवणोपमोभवति । योलाजैर्यजति सयशोवान् भवति । समेधावा न् भवति । योमोदकसहस्त्रणेयजति सवांछित्तफलमवाप्नोति । य:साज्यसमिभ्दिर्यजति ससर्वंलभतेससर्वंलभते । अष्टौब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वीभवति । सूर्यग्रहेमहानध्यांप्रतिमान्निधौवाजप्त्वा सिध्दमंत्रोभवति । महाविघ्नात्प्रमुच्यते । महादोषात्प्रमुच्यते । महापापात्प्रमुच्यते । ससर्वविभ्दवतिससर्वविभ्दवति यएवंवेद । इत्युपनिषत् ॥१३॥इतिगणपत्यथर्वशीर्षंसमाप्तम् ॥ ॥६॥ N/A References : N/A Last Updated : July 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP