संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथशिवाथर्वशीर्षम् अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथशिवाथर्वशीर्षम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथशिवाथर्वशीर्षम् Translation - भाषांतर श्री: ॥ ॐ देवाहवैस्वर्गलोकमायंस्तेरुद्रमपृच्छन् कोभवानिति ॥ सोऽब्रवीदहमेक:प्रथमासोद्वर्तामिचभविष्यामिचनान्य:कश्चिन्मत्तोव्यतिरिक्त इति । सोऽतरादंतरंप्राविशद्दिश्चांतरंप्राविशत्सोऽहंनित्योव्यक्ताव्यक्तोब्रह्माब्रह्माहंप्रांच:प्रत्यंचोऽहंदक्षिणांचउदंचोऽहमधश्चोर्ध्वश्चाहंदिशश्चप्रदिशश्चाहं पुमानपुमान् स्त्रियश्चाहंसावित्र्यहंगायत्र्यंहंत्रिष्टुब् जगत्यनुष्टुप् चाहंछंदोऽहंसत्योऽहंगार्हपत्योदक्षिणाग्निराहवनीयोहंगौरहंगौर्यहमृगहंयजुरहं सामाहमथर्वांगिरसोऽहंज्येष्ठोऽहंश्रेष्ठोऽहंवरिष्ठोऽहमापोऽहंतेजोऽहंगुह्योऽहमरण्योऽहमक्षरमहंक्षरमहंपुष्करमहंपवित्रमहमुग्रंच बलिश्चपुरस्ताज्ज्योतिरित्यहमेवसर्वेभ्योमामेवससर्व:समायोमांवेदसदेवान्वेदसर्वांश्चवेदान्सांगानपि ब्रह्मब्राह्मणैश्चगांगोभिर्ब्राह्मणान् ब्राह्मणेनहविर्हविषाआयुरायुषासत्यंसत्येनधर्मेणधर्मंतर्पयामिस्वेनतेजसा । ततोहवैतेदेवारुद्रमपृच्छन् तेदेवारुद्रमपश्यन् तेदेवारुद्रमध्यायन् तेदेवाऊर्ध्वबाहवोरुद्रंस्तुवंति ॥१॥ॐ योवैरुद्र:सभगवान् यश्चब्रह्मातस्मैवैनमोनम: ॥१॥योवैरुद्र:सभगवान् यश्चविष्णुस्तस्मैवैनमोनम: ॥२॥योवैरुद्र:सभगवानय् श्चस्कंदस्तस्मै० ॥३॥योवैरुद्र:सभगवान् यश्चेंद्रस्तस्मैवैनमो० ॥४॥योवैरुद्र:सभगवान् यश्चाग्निस्तस्मै० ॥५॥योवैरुद्र:सभगवान् यश्चवायुस्तस्मैवैनमो० ॥६॥योवैरुद्र:सभगवान् यश्चसूर्यस्तमैवैनमो० ॥७॥योवैरुद्र:सभगवान् यश्चसोमस्तस्मैवैनमो० ॥८॥योवैरुद्र:सभगवान् येऽष्टौग्रहास्तस्मैवैनमो० ॥९॥योवैरुद्र:सभगवान् येचाष्टौप्रतिग्रहास्तस्मै० ॥१०॥योवैरुद्र:सभगवान् यच्चभूस्तस्मैवैनमो० ॥११॥योवैरुद्र:सभगवान् यच्चभुवस्तस्मै० ॥१२॥योवैरुद्र:सभगवान् यच्चस्वस्तस्मैवैनमो० ॥१३॥योवैरुद्र:सभगवान् यच्चमहस्तस्मै० ॥१४॥योवैरुद्र:सभगवान् याचपृथिवीतस्मै० ॥१५॥योवैरुद्र:सभगवान् यच्चांतरिक्षंतस्मैवैनमो० ॥१६॥योवैरुद्र:सभगवान् याचध्यौस्तस्मै० ॥१७॥योवैरुद्र:सभगवान् याश्चापस्तस्मै० ॥१८॥योवैरुद्र:सभगवान् यच्चतेजस्तस्मै० ॥१९॥योवैरुद्र:सभगवान् चध्यौस्तस्मै० ॥२०॥योवैरुद्र:सभगवान् यश्चयमस्तस्मै० ॥२१॥योवैरुद्र:सभगवान् यच्चतेजस्तस्मै० ॥२२॥योवैरुद्र:सभगवान् यच्चामृतंतस्मै० ॥२३॥योवैरुद्र:सभगवान् च्चाकाशंतस्मै० ॥२४॥योवैरुद्र:सभगवान् यच्चविश्वंतस्मै० ॥२५॥योवैरुद्र:सभगवान् यच्चस्थूलंतस्मै० ॥२६॥योवैरुद्र:सभगवान् यच्चसूक्ष्मंतस्मै० ॥२७॥योवैरुद्र:सभगवान् यच्चशुक्लंतस्मै० ॥२८॥योवैरुद्र:सभगवान् यच्चकृष्णंतस्मै० ॥२९॥योवैरुद्र:सभगवान् यच्चकृत्स्नंतस्मै० ॥३०॥योवैरुद्र:सभगवान् यच्चशुक्लंतस्मै० ॥३१॥योवैरुद्र:सभगवान् यच्चसर्वंतस्मै० ॥३२॥ ॥२॥भूस्तेआदिर्मध्यंभुवस्तेस्वस्तेशीर्षंविश्वरुपोऽसिब्रह्मैकस्त्वंद्विधात्रिधावृध्दिस्त्वंशांतिस्त्वंपुष्टिंस्त्वंहुतमहुतंदत्तमदत्तंत्तसर्वमसर्वंविश्वमविश्वंकृतमकृतंपरमपरंपरायणंचत्वं । अपामसोममृताअभूमागन्मज्योतिरविदामदेवान् । किंनूनमस्मान् कृणवदराति:किमुधूर्तिरमृतमर्त्यस्य । सोमसूर्यपुरस्तात्सूक्ष्म:पुरुष: । सर्वजगध्दितंवाएतदक्षरंप्राजापत्यंसौम्यंसूक्ष्मंपुरुषंग्राह्यमग्राह्येणभावंभावेन सौम्यंसौम्येनसूक्ष्मंसूक्ष्मेणवायव्यंवायव्येनग्रसतितस्मैमहाग्रासायवैनमोनम: । हृद्रिस्थादेवता:सर्वाहृदिप्राणा:प्रतिष्ठिता: । हृदित्वमसियोनित्यंतिस्त्रोमात्रा:परस्तुस: ॥ तस्योत्तरत:शिरोदक्षिणत:पादौ यउत्तरत:सओंकार:यओंकार:सप्रणव:य:प्रणव:ससर्वव्यापीय: सर्वव्यापीसोऽनंत:योऽनंतस्तत्तारंयत्तारंतच्छुक्लंयच्छुक्लंतसूक्ष्मंयत्सूक्ष्मंतद्वैध्युतंतत्परंब्रह्मसएक:यएक:सरुद्र:योरुद्र:सईशान:यईशान:सभगवान् महेश्वर: ॥३॥अथकस्मादुच्यतेओंकार:यस्मादुच्चार्यमाणएवप्राणानूर्ध्वमुत्क्रामयतियस्मादुच्यतेओंकार: ।अथकस्मादुच्यतेप्रणव: यस्मादुच्चार्यमाणएवऋग्यजु:सामाथर्वांगिरसंब्रह्मब्राह्मणेभ्य: प्रणामयतिनामयतिचतस्मादुच्यतेप्रणव: । अथकस्मादुच्यतेसर्वव्यापीयस्मादुच्चार्यमाणएवयथास्नेहेनपललपिंडमिवशांतरुपमोतप्रोतमनुप्राप्तोव्यतिषक्तश्चतस्मादुच्यतेसर्वव्यापी । अथकस्मादुच्यतेऽनंत:यस्मादुच्चार्यमाणएवतिर्यगूर्ध्वमधस्ताच्चास्यांतोनोपलभ्यतेतस्मादुच्यतेऽनंत: । अथकस्मादुच्यतेतारंयस्मादुच्चार्यमाणाएवगर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयतित्रायतेचतस्मादुच्यतेतारं । अथकस्मादुच्यतेशुक्लंयस्मादुच्चार्यमाणएवक्लंदतेक्लामयतिचतस्मादुच्यतेशुक्लं । अथकस्मादुच्यतेसूक्ष्मंयस्मादुच्चार्यमाणएवसूक्ष्मोभूत्वाशरीराण्यधितिष्ठतिसर्वाणिचांगान्यभिमृतशतितस्मादुच्यतेसूक्ष्मं । अथकस्मादुच्यतेवैध्युतंयस्मादुच्चार्यमाणएवव्यक्तेमहतितमसिध्योतयतितस्मादुच्यतेवैध्युतं ।अथकस्मादुच्यतेपरंब्रह्मयस्मात् परमपरंपरायणंचबृहब्दृहत्याबृंहयतितस्मादुच्यतेपरंब्रह्म । अथकस्मादुच्यतेएक:य:सर्वान्प्राणान् संभक्ष्यसंभक्षणेनाज:संसृजतिविसृजतितीर्थमेव्रजंतितीर्थमेकेदक्षिणा:प्रत्यंचउदंच:प्रांचोऽभिव्रजंत्येकेतेषांसर्वेषामिहसंगति:साकंसएकोऽभूदंतश्चरतिप्रजानांतस्मादुच्यतएक: । अथकस्मादुच्यतेरुद्र:यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्यरुपमुपलभ्यतेतस्मादुच्यतेरुद्र: । अथकस्मादुच्यतेईशान:य:सर्वान्देवानीशतेईशानीभिर्जननीभिश्चशक्तिभि: । अभित्वाशूरणोनुमोदुग्धाइवधेनव: । ईशानमस्यजगत:स्वर्दृशमीशानमिंद्रतस्थुषइतितस्मादुच्यतेईशान: । अथकस्मादुच्यतेभगवान् महेश्वर:यस्माद्भक्तान् ज्ञानेनभजत्यनुगृह्णातिचवाचंसंसृजतिविसृजतिचसर्वान् भावान्परित्यज्यात्मात्मज्ञानेनयोगैश्वर्येणमहतिमहीयतेतस्मादुच्यतेभगवान् महेश्वर: । तदेतद्रुद्रचरितम् ॥४॥एषोहदेव:प्रदिशोऽनुसर्वा:पूर्वोहजात:सउगर्मेअंत: । सएवजात:सजनिष्यमाण:प्रत्यड्जनास्तिष्ठतिसर्वतोमुख: । एकोरुद्रोनद्वितीयायतस्मैय इमाँल्लोकानीशतईशनीभि: । प्रत्यड्गजनास्तिष्ठतिशांतकालेसंसृज्यविश्वाभुवनानिगोप्ता ॥ योयोनिंयोनिमधितिष्ठप्रत्येकोयेनदंसर्वंविचरतिसर्वम् । तमीशानंवरदंदेवमीड्यंनिचाय्येमांशांतिमत्यंतमेति । क्षमांहित्वाहेतुजालस्यमूलबुध्ध्यासंचितंस्थापयित्वातुरुद्रे । रुद्रमेकंत्वामाहु:शाश्वतंवैपुराणमिषमूर्जेणपशवोनुनामयंतंमृत्युपाशान् ।तदेतेनात्मन्नेतेनार्धचतुर्थेनमात्रेणशांतिंसंसृजतिपशुपाशविमोक्षणंयासाप्रथमामात्राब्रह्मदेवत्यारक्तावर्णेनयस्तांध्यायतेनित्यंसगच्छेद्ब्रह्मपदं । यासाद्वितीयामात्राविष्णुदेवत्याकृष्णवर्णेनयस्तांध्यायतेनित्यंसगच्छेद्वैष्णवंपदं ।यासातृतीयामात्राईशानदेवत्याकपिलावर्णेनयस्तांध्यायतेनित्यंसगच्छेदैशानंपदं । यासार्धचतुर्थीमात्रासर्वदेवत्याऽव्यक्तीभूताखंविचरतिशुध्दास्फटिकसंनिभावर्णेनयस्तांध्यायतेनित्यंसगच्छेत्पदमनामयम् । तदेतदुपासीतमुनयोवाग्वदंतिनतस्यग्रहणमयंपंथांविहित उत्तरेणयेनदेवायांतियेनपितरोयेनऋषय:परमपरंपरायणंचेति । वालाग्रमात्रंहृदयस्यमध्येविश्वंदेवंजातरुपंवरेण्यं । तमात्मस्थंयेनुपश्यंतिधीरास्तेषांशांतिर्भवतिनेतरेषां । यस्मिन् क्रोधंयांचतृष्णांक्षमांचाक्षमांहित्वाहेतुजालस्यमूलंबुध्ध्यासंचितंस्थापयित्वातुरुद्रेरुद्रमेकत्वमाहु: । रुद्रोहिशाश्वतेनवैपुराणेनेषमूर्जेणतपसानियंताग्निरितिभस्मवायुरितिभस्मजलमितिभस्मस्थलमितिभस्मव्योमेतिभस्मसर्वंहवाइदंभस्ममनएतानिचक्षूंषियस्मादव्रतमिदंपाशुपतंयभ्दस्मनांगानिसंस्पृशेत् तस्मात् ब्रह्मतदेतत्पाशुपतंपशुपाशविमोक्षणाय ॥५॥योग्नौरुद्रोयोऽप्स्वंतर्यओषधीर्वीरुध आविवेश । यइमाविश्वाभुवनानिचक्लृपेतस्मैरुद्रायनमोऽस्त्वग्नये । योरुद्रोऽग्नौयोरुद्रोऽप्स्वंतर्योरुद्रओषधीर्वीरुधआविवेश । योरुद्रइमाविश्वाभुवनानिचक्लृपेतस्मैरुद्रायवैनमोनम: । योरुद्रोऽप्सुयोरुद्रओषधीषुयोरुद्रोवनस्पतिषु । येनरुद्रेणजगदूर्ध्वंधारितंपृथिवीद्विधात्रिधाधर्ताधारितानागायेंतरिक्षेतस्मैरुद्रायवैनमोनम: ।मूर्धानमस्यसंसेव्याप्यथर्वाहृदयंचयत् । मस्तिष्कादूर्ध्वंप्रेरयत्यवमानोऽधिशीर्षत: । तद्वाअथर्वण:शिरोदेवकोश:समुज्झित: । तत् प्राणोऽभिरक्षतिशिरोंऽतमथोमन: । नचदिवोदेवजनेनगुप्तानचांतरिक्षाणिनचभूमयइमा: । यस्मिन्निदंसर्वमोतप्रोतंतस्मादन्यन्नपरंकिचनास्ति । नतस्मात्पूर्वंनपरंतदस्तिनभूतंनोतभव्यंयदासीत् । सहस्त्रपादेकमूर्ध्नाव्याप्तंसएवेदमावरीवर्तिभूतं । अक्षरात् संजायतेकाल:कालाद्व्यापकउच्यते । व्यापकोहिभगवान् रुद्रोभोगायमानोयदाशेतेरुद्रस्तदासंहार्यतेप्रजा: । उच्छृसितेतमोभवतितमस आपोऽप्स्वंगुल्यामथितंशिशिरेशिशिरंमथ्यमानंफेनंभवतिफेनादंडंभवत्यंडाद्ब्रह्माभवतिब्रह्मणोवायु:वायोरोंकार: ओंकारात्सावित्रीसावित्र्यागायत्रीगायत्र्यालोकाभवंति । अर्चयंतितप:सत्यंमधुरक्षंतियध्द्रुवं । एतध्दिपरमंतप: । आपोज्योतीरसोऽमृतंब्रह्मभूर्भुव:स्वरोंनमइति ॥६॥यइदमथर्वंशिरोब्राह्मणोऽधीते । अश्रोत्रिय:श्रोत्रियोभवति । अनुपनीतउपनीतोभवति । सोऽग्निपूतोभवति । सवायुपूतोभवति । ससूर्यपूतोभवति । ससोमपूतोभवति । ससत्यपूतोभवति । ससर्वैर्देवैर्ज्ञातोभवति । ससर्वैर्वेदैरनुध्यातोभवति । ससर्वेषुतीर्थेषुस्नातोभवति । तेनसर्वै:क्रतुभिरिष्टंभवति । गायत्र्या:षष्टिसहस्त्राणिजप्तानिभवंति । प्रणवानामयुतंजप्तंवति । सचक्षुषापंक्तिंपुनाति । आसप्तमात्प्रुरुषयुगान्पुनातीत्याहभगवानथर्वशिर:सकृज्जप्त्वैवशुचि:सपूत:कर्मण्योभवति । द्वितीयंजप्त्वागणाधिपत्यमवाप्नोति । तृतीयंजप्स्वैवमेवानुप्रविशत्योंसत्यमोंसत्यमोसत्यं ॥ इत्यथर्ववेदेशिवाथर्वशीर्षंसमाप्तम् ॥ N/A References : N/A Last Updated : July 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP