संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्| अष्टत्रिंशोऽध्यायः उत्तरस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः उत्तरस्थानम् - अष्टत्रिंशोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता अष्टत्रिंशोऽध्यायः Translation - भाषांतर अथातो मूषिकालर्कविषप्रतिषेधं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःलालनश्चपलः पुत्रो हसिरश्चिक्किरोऽजिरःकषायदन्तः कुलकः कोकिलः कपिलोऽसितः ॥१॥अरुणः शबलः श्वेतः कपोतः पलितोन्दुरःछुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥२॥शुक्रं पतति यत्रैषां शुक्रदिग्धैः स्पृशन्ति वायदङ्गमङ्गैस्तत्रास्रे दूषिते पाण्डुतां गते ॥३॥ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोऽरुचिःशीतज्वरोऽतिरुक्सादो वेपथुः पर्वभेदनम् ॥४॥रोमहर्षः स्रुतिर्मूर्च्छा दीर्घकालानुबन्धनम्श्लेष्मानुबद्धबह्वाखुपोतकच्छर्दनं सतृट् ॥५॥व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यतिमूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः ॥६॥शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम्शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम् ॥७॥छुच्छुन्दरसगन्धं च वर्जयेदाखुदूषितम्शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः ॥८॥मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम्लालावानन्धबधिरः सर्वतः सोऽभिधावति ॥९॥स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननःदंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक् ॥१०॥हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्च्छोद्भवोऽनु चअनेनान्येऽपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः ॥११॥शृगालाश्वतराश्वर्क्ष द्वीपिव्याघ्रवृकादयःकण्डूनिस्तोद वैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः ॥१२॥विदाहरागरुक्पाकशोफ ग्रन्थिविकुञ्चनम्दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥१३॥सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषेदष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति ॥१४॥पश्यंस्तमेव चाकस्मादादर्शसलिलादिषुयोऽद्भ्यस्त्रस्येददष्टोऽपि शब्दसंस्पर्शदर्शनैः ॥१५॥जलसन्त्रासनामानं दष्टं तमपि वर्जयेत्आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत् ॥१६॥दर्पणेनाथवा तीव्ररुजा स्यात्कर्णिकाऽन्यथादग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत् ॥१७॥शिरीषरजनीवक्रकुङ्कुमा मृतवल्लिभिःअगारधूममञ्जिष्ठारजनीलवणोत्तमैः ॥१८॥लेपो जयत्याखुविषं कर्णिकायाश्च पातनःततोऽम्लै क्षालयित्वाऽनु तोयैरनु च लेपयेत् ॥१९॥पालिन्दीश्वेतकटभीविल्व मूलगुडूचिभिःअन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेद्द्रुतम् ॥२०॥छर्दनं नीलिनीक्वाथैः शुकाख्याङ्कोल्लयोरपिकोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥२१॥मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्वचामदनजीमूतकुष्ठं वा मूत्रपेषितम् ॥२२॥पूर्वकल्पेन पातव्यं सर्वोन्दुरविषापहम्विरेचनं त्रिवृन्नीलीत्रिफलाकल्क इष्यते ॥२३॥शिरोविरेचने सारः शिरीषस्य फलानि चअञ्जनं गोमयरसो व्योषसूक्ष्मरजोन्वितः ॥२४॥कपित्थगोमयरसो मधुमानवलेहनम्तन्दुलीयकमूलेन सिद्धं पाने हितं घृतम् ॥२५॥द्विनिशाकटभीरक्तायष्ट्याह्वैर्वाऽमृतान्वितैःआस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा ॥२६॥सिन्दुवारं नतं शिग्रुबिल्वमूलं पुनर्नवावचाश्वदंष्ट्राजीमूतमेषां क्वाथं समाक्षिकम् ॥२७॥पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितःतक्रेण शरपुङ्खाया बीजं सञ्चूर्ण्य वा पिबेत् ॥२८॥अङ्कोल्लमूलकल्को वा बस्तमूत्रेण कल्कितःपानालेपनयोर्युक्तः सर्वाखुविषनाशनः ॥२९॥कपित्थमध्यतिलकतिलाङ्कोल्लजटाः पिबेत्गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ॥३०॥अथवा सैर्यकान्मूलं सक्षौद्रं तन्दुलाम्बुनाकटुकालाबुविन्यस्तं पीतं वाऽम्बु निशोषितम् ॥३१॥सिन्दुवारस्य मूलानि बिडालास्थि विषं नतम्जलपिष्टोऽगदो हन्ति नस्याद्यैराखुजं विषम् ॥३२॥सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शनेयथायथं वा कालेषु दोषाणां वृद्धिहेतुषु ॥३३॥तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाःयथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः ॥३४॥दंशं त्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषाप्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत् ॥३५॥अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम्अङ्कोल्लोत्तरमूलाम्बु त्रिपलं सहविःपलम् ॥३६॥पिबेत्सधत्तूरफलां श्वेतां वाऽपि पुनर्नवाम्एकध्यं पललं तैलं रूपिकायाः पयो गुडः ॥३७॥भिनत्ति विषमालर्कं घनवृन्दमिवानिलःसमन्त्रं सौषधीरत्नं स्नपनं च प्रयोजयेत् ॥३८॥चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तपरिक्षतम्शूयते पच्यते रागज्वरस्रावरुजान्वितम् ॥३९॥सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपादिकारजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥४०॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने मूषिकालर्कविषप्रतिषेधो नामाष्टत्रिंशोऽध्यायः ॥३८॥इति विषतन्त्रं नाम षष्ठमङ्गं समाप्तम् N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP