संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्| त्रयोविंशोऽध्यायः उत्तरस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः उत्तरस्थानम् - त्रयोविंशोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता त्रयोविंशोऽध्यायः Translation - भाषांतर अथातः शिरोरोगविज्ञानीयं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःधूमातपतुषाराम्बु क्रीडातिस्वप्नजागरैःउत्स्वेदाधिपुरोवात बाष्पनिग्रहरोदनैः ॥१॥अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैःउपधानमृजाभ्यङ्गद्वेषाधः प्रततेक्षणैः ॥२॥असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताःजनयन्त्यामयान् दोषाः तत्र मारुतकोपतः ॥३॥निस्तुद्येते भृशं शङ्खौ घाटा सम्भिद्यते तथाभ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम् ॥४॥बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणीघूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते ॥५॥स्फुरत्यति सिराजालं कन्धराहनुसङ्ग्रहःप्रकाशासहता घ्राणस्रावोऽकस्माद्व्यथाशमौ ॥६॥मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायतेशिरस्तापोऽयम् अर्धे तु मूर्ध्नः सोऽधावभेदकः ॥७॥पक्षात्कुप्यति मासाद्वा स्वयमेव च शाम्यतिअतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत् ॥८॥शिरोभितापे पित्तोत्थे शिरोधूमायनं ज्वरःस्वेदोऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम् ॥९॥अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतताशिरानिस्पन्दताऽलस्यं रुङ्मन्दाऽह्न्यधिका निशि ॥१०॥तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिःरक्तात् पित्ताधिकरुजः सर्वैः स्यात्सर्वलक्षणः ॥११॥सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषेकोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः ॥१२॥शिरसस्ते पिबन्तोऽस्र घोराः कुर्वन्ति वेदनाःचित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः ॥१३॥रौक्ष्यशोफव्यधच्छेद दाहस्फुरणपूतिताःकपाले तालुशिरसोः कण्डूः शोषः प्रमीलकः ॥१४॥ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजेवातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः ॥१५॥पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैःतीव्रदाहरुजारागप्रलापज्वरतृड्भ्रमाः ॥१६॥तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकःत्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः ॥१७॥पित्तानुबद्धः शङ्खाक्षिभ्रूललाटेषु मारुतःरुजं सस्पन्दनां कुर्यादनुसूर्योदयोदयाम् ॥१८॥आमध्याह्नं विवर्धिष्णुः क्षुद्वतः सा विशेषतःअव्यवस्थितशीतोष्णसुखा शाम्यत्यतः परम् ॥१९॥सूर्यावर्तः स इत्युक्ता दश रोगाः शिरोगताःशिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव ॥२०॥कपाले पवने दुष्टे गर्भस्थस्यापि जायतेसवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम् ॥२१॥यथादोषोदयं ब्रूयात् पिटिकार्बुदविद्र धीन्कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः ॥२२॥कङ्गुसिद्धार्थकनिभाः पिटिकाः स्युररुंषिकाःकण्डूकेशच्युतिस्वापरौक्ष्यकृत् स्फुटनं त्वचः ॥२३॥सुसूक्ष्मं कफवाताभ्यां विद्याद्दारुणकं तु तत्रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् ॥२४॥प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितःरोमकूपान् रुणद्ध्य्स्य तेनान्येषामसम्भवः ॥२५॥तदिन्द्र लुप्तं रुज्यां च प्राहुश्चाचेति चापरेखलतेरपि जन्मैवं शातनं तत्र तु क्रमात् ॥२६॥सा वातादग्निदग्धाभा पित्तात्स्विन्नसिरावृताकफाद्घनत्वग्वर्णांश्च यथास्वं निर्दिशेत् त्वचि ॥२७॥दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभादग्धाग्निनेव निर्लोमा सदाहा या च जायते ॥२८॥शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतःकेशान् सदोषः पचति पलितं सम्भवत्यतः ॥२९॥तद्वातात्स्फुटितं श्यावं खरं रूक्षं जलप्रभम्पित्तात्सदाहं पीताभं कफात् स्निग्धं विवृद्धिमत् ॥३०॥स्थूलं सुशुक्लं सर्वैस्तु विद्याद्व्यामिश्रलक्षणम्शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम् ॥३१॥असाध्या सन्निपातेन खलतिः पलितानि चशरीरपरिणामोत्थान्यपेक्षन्ते रसायनम् ॥३२॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने शिरोरोगविज्ञानीयो नाम त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP