संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्| एकोनत्रिंशोऽध्यायः उत्तरस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः उत्तरस्थानम् - एकोनत्रिंशोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता एकोनत्रिंशोऽध्यायः Translation - भाषांतर अथातो ग्रथ्यर्बुद श्लीपदापचीनाडीविज्ञानीयं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःकफप्रधानाः कुर्वन्ति मेदोमांसास्रगा मलाःवृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात्स्मृतः ॥१॥दोषास्रमांसमेदोस्थिसिराव्रणभवा नवते तत्र वातादायामतोदमेदान्वितोऽसितः ॥२॥स्थानात्स्थानान्तरगति रकस्माद्धानिवृद्धिमान्मृदुर्बस्तिरिवानद्धो विभिन्नोऽच्छ स्रवत्यसृक् ॥३॥पित्तात्सदाहः पीताभो रक्तो वा पच्यते द्रुतम्भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः ॥४॥शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेद्घनम्दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु ॥५॥सिरामांसं च संश्रित्य सस्वापः पित्तलक्षणःमांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत् ॥६॥स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि ॥७॥वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम्श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम् ॥८॥स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्अस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत् ॥९॥सोऽस्थिग्रन्थिः पदातेस्तु सहसाऽम्भोवगाहनात्व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम् ॥१०॥वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य चनिःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः ॥११॥अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनःसार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा ॥१२॥वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्कुर्यात्सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः ॥१३॥साध्या दोषास्रमेदोजाः न तु स्थूलखराश्चलाःमर्मकण्ठोदरस्थाश्च महत्तु ग्रन्थितोऽबुदम् ॥१४॥तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्प्रायो मेदःकफाढ्यत्वात्स्थिरत्वाच्च न पच्यते ॥१५॥सिरास्थं शोणितं दोषः सङ्कोच्यान्तः प्रपीड्य चपाचयेत तदानद्धं सास्रावं मांसपिण्डितम् ॥१६॥मांसाङ्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततःअजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम् ॥१७॥तेष्वसृङ्मांसजे वर्ज्ये चत्वार्यन्यानि साधयेत्प्रस्थिता वङ्क्षणोर्वादिमधःकायं कफोल्बणाः ॥१८॥दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वतेशनैःशनैर्घनं शोफं श्लीपदं तत्प्रचक्षते ॥१९॥परिपोटयुतं कृष्णमनिमित्तरुजं खरम्रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितम् ॥२०॥कफाद्गुरु स्निग्धमरुक् चितं मांसाङ्कुरैर्बृहत्तत्त्यजेद्वत्सरातीतं सुमहत् सुपरिस्रुति ॥२१॥पाणिनासौष्ठकर्णेषु वदन्त्येके तु पादवत्श्लीपदं जायते तच्च देशेऽनूपे भृशं भृशम् ॥२२॥मेदः स्थाः कण्ठमन्याऽक्षकक्षावङ्क्षणगा मलाःसवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन् ॥२३॥अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वतेपच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः ॥२४॥नश्यन्त्यन्ये भवन्त्यन्येदीर्घकालानुबन्धिनःगण्डमालाऽपची चेयं दूर्वेव क्षयवृद्धिभाक् ॥२५॥तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः ॥२६॥अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावतिगतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः ॥२७॥नाड्येकाऽनृजुरन्येषां सैवानेकगतिर्गतिःसा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी ॥२८॥वातात् सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमास्रवत्यभ्यधिकं रात्रौ पित्तात्तृड्ज्वरदाहकृत् ॥२९॥पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चतिघनपिच्छिलसंस्रावा कण्डूला कठिना कफात् ॥३०॥निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत्अन्तःस्थितं शल्यमनाहृतं तुकरोति नाडीं वहते च साऽस्यफेनानुबिद्धं तनुमल्पमुष्णंसास्रं च पूयं सरुजं च नित्यम् ॥३१॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामैकोनत्रिंशोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP