उत्तरस्थानम् - एकोनविंशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातो नासारोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
अवश्याया निलरजोभाष्यातिस्वप्नजागरैः
नीचात्युच्चोपधानेन पीतेनान्येन वारिणा ॥१॥
अत्यम्बुपानरमणच्छर्दि बाष्पग्रहादिभिः
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः ॥२॥
जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम्
तत्र वातात्प्रतिश्याये मुखशोषो भृशं क्षवः ॥३॥
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः
कीटिका इव सर्पन्तीर्मन्यते परितो भ्रुवौ ॥४॥
स्वरसादश्चिरात्पाकः शिशिराच्छकफस्रुतिः
पित्तात्तृष्णाज्वरघ्राणपिटिकासम्भवभ्रमाः ॥५॥
नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः
कफात्कासोऽरुचिः श्वासो वमथुर्गात्रगौरवम् ॥६॥
माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः
सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशान्तिमान् ॥७॥
दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक्
उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता ॥८॥
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम्
सर्व एव प्रतिश्याया दुष्टतां यान्त्युपेक्षिताः ॥९॥
यथोक्तोपद्र वाधिक्यात्स सर्वेन्द्रि यतापनः
साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः ॥१०॥
कुप्यत्यकस्माद्बहुशो मुखदौर्गन्ध्यशोफकृत्
नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः ॥११॥
पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः
मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः ॥१२॥
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः
श्लेष्मा सचिक्कणः पीतोऽज्ञानं च रसगन्धयोः ॥१३॥
तीक्ष्णाघ्राणोपयोगार्करश्मि सूत्रतृणादिभिः
वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि ॥१४॥
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत्
निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशक्षवः ॥१५॥
शोषयन्नासिकास्रोतः कफं च कुरुतेऽनिलः
शूकपूर्णाभनासात्वं कृच्छ्रात्दुच्छ्वसनं ततः ॥१६॥
स्मृतोऽसौ नासिकाशोषो नासानाहे तु जायते
नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना ॥१७॥
निःश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत् ॥१८॥
स घ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः
अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते ॥१९॥
कफः प्रवृद्धो नासायां रुद्द्धवा स्रोतांस्यपीनसम्
कुर्यात्सघुर्घुरश्वासं पीनसाधिकवेदनम् ॥२०॥
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका
अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥२१॥
रक्तेन नासा दग्धेव बाह्यान्तः स्पर्शनासहा
भवेद्धूमोपमोच्छ्वासा सा दीप्तिर्दहतीव च ॥२२॥
तालुमूले मलैर्दुष्टैर्मारुतो मुखनासिकात्
श्लेष्मा च पूतिर्निर्गच्छेत् पूतिनासं वदन्ति तम् ॥२३॥
निचयादभिघाताद्वा पूयासृङ् नासिका स्रवेत्
तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरम् ॥२४॥
पित्तश्लेष्मावरुद्धोऽन्तर्नासायां शोषयेन्मरुत्
कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत् ॥२५॥
अर्शोर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम्
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः ॥२६॥
सानुनासिकवादित्वं पूतिनासः शिरोव्यथा
अष्टादशानामित्येषां यापयेद्दुष्टपीनसम् ॥२७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने नासारोगविज्ञानीयो नामैकोनविंशोऽध्यायः ॥१९॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP