उत्तरस्थानम् - त्रिंशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
ग्रन्थिष्वामेषु कर्तव्या यथास्वं शोफवत् क्रिया
बृहतीचित्रकव्याघ्रीकणासिद्धेन सर्पिषा ॥१॥
स्नेहयेच्छुद्धिकामं च तीक्ष्णैः शुद्धस्य लेपनम्
संस्वेद्य बहुशो ग्रन्थिं विमृद्नीयात् पुनः पुनः ॥२॥
एष वाते विशेषेण क्रमः पित्तास्रजे पुनः
जलौकसो हिमं सर्वं कफजे वातिको विधिः ॥३॥
तथाऽप्यपक्वं छित्त्वैनं स्थिते रक्तेऽग्निना दहेत्
साध्वशेषं सशेषो हि पुनराप्यायते ध्रुवम् ॥४॥
मांसव्रणोद्भवौ ग्रन्थी यापयेदेवमेव च
कार्यं मेदोभवेऽप्येतत्तप्तैः फालादिभिश्च तम् ॥५॥
प्रमृद्यात्तिलदिग्धेन छन्नं द्विगुणवाससा
शस्त्रेण पाटयित्वा वा दहेन्मेदसि सूद्धृते ॥६॥
सिराग्रन्थौ नवे पेयं तैलं साहचरंतथा
उपनाहोऽनिलहरैर्बस्तिकर्म सिराव्यधः ॥७॥
अर्बुदे ग्रन्थिवत् कुर्यात् यथास्वं सुतरां हितम्
अजाशकृच्छिग्रमूललाक्षासुरसकाञ्जिकैः
वस्त्रबद्धैरुपस्वेद्य मर्दयित्वा प्रलेपयेत् ॥१॥
उपोदकापत्रपिण्ड्या छदैराच्छादितं घनम्
निवेश्य पट्टं बध्नीयाच्छाम्यत्येवं नवार्बुदम् ॥२॥
जीर्णे चार्कच्छदसुधासामुद्र गुडकाञ्जिकैः
प्रच्छाने पिण्डिका बद्धा ग्रन्थ्यर्बुदविलायनी ॥३॥
श्लीपदेऽनिलजे विध्येत् स्निग्धस्विन्नोपनाहिते ॥८॥
सिरामुपरि गुल्फस्य द्व्यङ्गुले पाययेच्च तम्
मासमेरण्डजं तैलं गोमूत्रेण समन्वितम् ॥९॥
जीर्णे जीर्णान्नमश्नीयाच्छुण्ठीशृतपयोऽन्वितम्
त्रैवृतं वा पिबेदेवमशान्तावग्निना दहेत् ॥१०॥
गुल्फस्याधः सिरामोक्षः पैत्ते सर्वं च पित्तजित्
सिरामङ्गुष्ठके विध्वा कफजे शीलयेद्यवान् ॥११॥
सक्षौद्रा णि कषायाणि वर्द्धमानास्तथाऽभयाः
लिम्पेत्सर्षपवार्ताकीमूलाभ्यां धन्वयाऽथवा ॥१२॥
ऊर्ध्वाधःशोधनं पेयमपच्यां साधितं घृतम्
दन्तीद्र वन्तीत्रिवृताजालिनीदेवदालिभिः ॥१३॥
शीलयेत्कफमेदोघ्नं धूमगण्डूषनावनम्
सिरयाऽपहरेद्र क्तं पिबेन्मूत्रेण तार्क्ष्यजम् ॥१४॥
पिलमर्द्धपलं वाऽपि कर्षं वाऽप्युष्णवारिणा
काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति १
ग्रन्थीनपक्वानालिम्पे न्नाकुलीपटुनागरैः
स्विन्नान् लवणपोटल्या कठिनाननु मर्दयेत् ॥१५॥
शमीमूलकशिग्रूणां बीजैः सयवसर्षपैः
लेपः पिष्टोऽम्लतक्रेण ग्रन्थिगण्डविलायनः ॥१६॥
क्षुण्णानि निम्बपत्राणि कॢप्तैर्भल्लातकैः सह
शरावसम्पुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः १
एतच्छागाम्बुना पिष्टं गण्डमालाप्रलेपनम्
पाकोन्मुखान् स्रुतास्रस्य पित्तश्लेष्महरैर्जयेत्
अपक्वानेव वोद्धृत्य क्षाराग्निभ्यामुपाचरेत् ॥१७॥
काकादनीलाङ्गलिका नहिकोत्तुण्डिकीफलैः
जीमूतबीजकर्कोटीविशालाकृतवेधनैः ॥१८॥
पाठान्वितैः पलार्धांशैर्विषकर्षयुतैः पचेत्
प्रस्थं करञ्जतैलस्य निर्गुण्डीस्वरसाढके ॥१९॥
अनेन माला गण्डानां चिरजा पूयवाहिनी
सिध्यत्यसाध्यकल्पाऽपि पानाभ्यञ्जननावनैः ॥२०॥
तैलं लाङ्गलिकीकन्दकल्कपादं चतुर्गुणे
निर्गुण्डीस्वरसे पक्वं नस्याद्यैरपचीप्रणुत् ॥२१॥
भद्र श्रीदारुमरिचद्विहरिद्रा त्रिवृद्घनैः
मनः शिलालनलदविशालाकरवीरकैः ॥२२॥
गोमूत्रपिष्टैः पलिकैर्विषस्यार्धपलेन च
ब्राह्मीरसार्कजक्षीरगोशकृद्र ससंयुतम् ॥२३॥
प्रस्थं सर्षपतैलस्य सिद्धमाशु व्यपोहति
पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीः ॥२४॥
वचाहरीतकीलाक्षाकटु रोहिणिचन्दनैः
तैलं प्रसाधितं पीतं समूलामपचीं जयेत् ॥२५॥
शरपुङ्खोद्भवं मूलं पिष्टं तन्दुलवारिणा
नस्याल्लेपाच्च दुष्टारुरपचीविषजन्तुजित् ॥२६॥
मूलैरुत्तमकारण्याः पीलुपर्ण्याः सहाचरात्
सरोध्राभययष्ट्याह्वशताह्वाद्वीपिदारुभिः ॥२७॥
तैलं क्षीरसमं सिद्धं नस्येऽभ्यङ्गे च पूजितम्
गोव्यजाश्वखुरा दग्धाः कटुतैलेन लेपनम् ॥२८॥
एङ्गुदेन तु कृष्णाहिर्वायसो वा स्वयं मृतः
इत्यशान्तौ गदस्यान्यपार्श्वजङ्घासमाश्रितम् ॥२९॥
बस्तेरूर्ध्वमधस्ताद्वा मेदो हृत्वाऽग्निना दहेत्
स्थितस्योर्ध्वं पदं मित्वा तन्मानेन च पार्ष्णितः ॥३०॥
तत ऊर्ध्वं हरेद् ग्रन्थीनित्याह भगवान्निमिः
पार्ष्णिं प्रति द्वादश चाङ्गुलानि
मुक्त्वेन्द्र बस्तिं च गदान्यपार्श्वे
विदार्य मत्स्याण्डनिभानि मध्या
ज्जालानि कर्षेदिति सुश्रुतोक्तिः ॥३१॥
आ गुल्फकर्णात्सुमितस्य जन्तो
स्तस्याष्टभागं खुडकाद्विभज्य
घ्राणार्जवेऽध सुरराजबस्ते
र्भित्त्वाऽक्षमात्रं त्वपरे वदन्ति ॥३२॥
उपनाह्यानिलान्नाडीं पाटितां साधु लेपयेत्
प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः ससैन्धवैः ॥३३॥
पैत्तीं तु तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः
श्लैष्मिकीं तिलसौराष्ट्रीनिकुम्भारिष्टसैन्धवैः ॥३४॥
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम्
अशस्त्रकृत्यामेषिण्या भित्त्वाऽन्ते सम्यगेषिताम् ॥३५॥
क्षारपीतेन सूत्रेण बहुशो दारयेद् गतिम्
व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम् ॥३६॥
या वर्त्यो यानि तैलानि तन्नाडीष्वपि शस्यते
पिष्टं चञ्चुफलं लेपान्नाडीव्रणहरं परम् ॥३७॥
घोण्टाफलत्वक् लवणं सलाक्षं
बूकस्य पत्रं वनितापयश्च
स्नुगर्कदुग्धान्वित एष कल्को
वर्तीकृतो हन्त्यचिरेण नाडीम् ॥३८॥
सामुद्र सौवर्चलसिन्धुजन्मसुपक्वघोण्टाफलवेश्मधूमाः
आम्रातगायत्रिजपल्लवाश्चकटंकटेर्यावथ चेतकी च ॥३९॥
कल्केऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु
अगतिरिव नश्यति गतिश्चपला चपलेषु भूतिरिव ॥४०॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर चितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधोनाम त्रिंशॐऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP