उत्तरस्थानम् - चतुर्थोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातो भूतविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
लक्षयेज्ज्ञानविज्ञानवाक्चेष्टा बलपौरुषम्
पुरुषेऽपौरुषं यत्र तत्र भूतग्रहं वदेत् ॥१॥
भूतस्य रूपप्रकृतिभाषागत्यादिचेष्टितैः
यस्यानुकारं कुरुते तेनाविष्टं तमादिशेत् ॥२॥
सोऽष्टादशविधो देवदानवादिविभेदतः
हेतुस्तदनुषक्तौ तु सद्यः पूर्वकृतोऽथवा ॥३॥
प्रज्ञापराधः सुतरां तेन कामादिजन्मना
लुप्तधर्मव्रताचारः पूज्यानप्यतिवर्तते ॥४
तं तथा भिन्नमर्यादं पापमात्मोपघातिनम्
देवादयोऽप्यनुघ्नन्ति ग्रहाश्छिद्र प्रहारिणः ॥५॥
छिद्रं पापक्रियारम्भः पाकोऽनिष्टस्य कर्मणः
एकस्य शून्येऽवस्थानं श्मशानादिषु वा निशि ॥६॥
दिग्वासस्त्वं गुरोर्निन्दा रतेरविधिसेवनम्
अशुचेर्देवतार्चादि परसूतकसङ्करः ॥७॥
होममन्त्रबलीज्यानां विगुणं परिकर्म च
समासाद्दिनचर्यादिप्रोक्ता चारव्यतिक्रमः ॥८॥
गृह्णन्ति शुक्लप्रतिपत्त्रयोदश्योः सुरा नरम्
शुक्लत्रयोदशीकृष्णद्वादश्योर्दानवा ग्रहाः ॥९॥
गन्धर्वास्तु चतुर्दश्यां द्वादश्यां चोरगाः पुनः
पञ्चम्यां शुक्लसप्तम्येकादश्योस्तु धनेश्वराः ॥१०॥
शुक्लाष्टपञ्चमीपौर्णमासीषु ब्रह्मराक्षसाः
कृष्णे रक्षःपिशाचाद्या नवद्वादशपर्वसु ॥११॥
दशामावास्ययोरष्टनवम्योः पितरोऽपरे
गुरुवृद्धादयः प्रायः कालं सन्ध्यासु लक्षयेत् ॥१२॥
फुल्लपद्मोपममुखं सौम्यदृष्टिमकोपनम्
अल्पवाक्स्वेदविण्मूत्रं भोजनानभिलाषिणम् ॥१३॥
देवद्विजातिपरमं शुचिं संस्कृतवादिनम्
मीलयन्तं चिरान्नेत्रे सुरभिं वरदायिनम् ॥१४॥
शुक्लमाल्याम्बरसरिच्छलोच्च भवनप्रियम्
अनिद्र मप्रधृष्यं च विद्याद्देववशीकृतम् ॥१५॥
जिह्मदृष्टिं दुरात्मानं गुरुदेवद्विजद्विषम्
निर्भयं मानिनं शूरं क्रोधनं व्यवसायिनम् ॥१६॥
रुद्रः स्कन्दो विशाखोऽहमिन्द्रो ऽहमिति वादिनम्
सुरामांसरुचिं विद्यात् दैत्यग्रहगृहीतकम् ॥१७॥
स्वाचारं सुरभिं हृष्टं गीतनर्तनकारिणम्
स्नानोद्यानरुचिं रक्तवस्त्रमाल्यानुलेपनम् ॥१८॥
शृङ्गारलीलाभिरतं गन्धर्वाध्युषितं वदेत्
रक्ताक्षं क्रोधनं स्तब्धदृष्टिं वक्रगतिं चलम् ॥१९॥
श्वसन्तमनिशं जिह्वालोलिनं सृक्किणीलिहम्
प्रियदुग्धगुडस्नान मधोवदनशायिनम् ॥२०॥
उरगाधिष्ठितं विद्यात्त्रस्यन्तं चातपत्रतः
विप्लुतत्रस्तरक्ताक्षं शुभगन्धं सुतेजसम् ॥२१॥
प्रियनृत्यकथागीतस्नान माल्यानुलेपनम्
मत्स्यमांसरुचिं हृष्टं तुष्टं बलिनमव्यथम् ॥२२॥
चलिताग्रकरं कस्मै किं ददामीति वादिनम्
रहस्यभाषिणं वैद्यद्विजातिपरिभाविनम् ॥२३॥
अल्परोषं द्रुतगतिं विद्याद्यक्षगृहीतकम्
हास्यनृत्यप्रियं रौद्र चेष्टं छिद्र प्रहारिणम् ॥२४॥
आक्रोशिनं शीघ्रगतिं देवद्विजभिषग्द्विषम्
आत्मानं काष्ठशस्त्राद्यैर्घ्नन्तं भोःशब्दवादिनम् ॥२५॥
शास्त्रवेदपठं विद्याद् गृहीतं ब्रह्मराक्षसैः
सक्रोधदृष्टिं भृकुटिमुद्वहन्तं ससंभ्रमम् ॥२६॥
प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम्
अन्नाद्विनाऽपि बलिनं नष्टनिद्रं निशाचरम् ॥२७॥
निर्लज्जमशुचिं शूरं क्रूरं परुषभाषिणम्
रोषणं रक्तमाल्यस्त्रीरक्तमद्यामिषप्रियम् ॥२८॥
दृष्ट्वा च रक्तं मांसं वाऽलिहानं दशनच्छदौ
हसन्तमन्नकाले च राक्षसाधिष्ठितं वदेत् ॥२९॥
अस्वस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनम्
उच्छिष्टनृत्यगान्धर्वहासमद्यामिषप्रियम् ॥३०॥
निर्भर्त्सनाद्दीनमुखं रुदन्तमनिमित्ततः
नखैर्लिखन्तमात्मानं रूक्षध्वस्तवपुःस्वरम् ॥३१॥
आवेदयन्तं दुःखानि सम्बद्धाबद्धभाषिणम्
नष्टस्मृतिं शून्यरतिं लोलं नग्नं मलीमसम् ॥३२॥
रथ्याचैलपरीधानं तृणमालाविभूषणम्
आरोहन्तं च काष्ठाश्वं तथा सङ्करकूटकम् ॥३३॥
बह्वाशिनं पिशाचेन विजानीयादधिष्ठितम्
प्रेताकृतिक्रियागन्धं भीतमाहारविद्विषम् ॥३४॥
तृणच्छिदं च प्रेतेन गृहीतं नरमादिशेत्
बहुप्रलापं कृष्णास्यं प्रविलम्बितयायिनम् ॥३५॥
शूनप्रलम्बवृषणं कूष्माण्डाधिष्ठितं वदेत्
गृहीत्वा काष्ठलोष्टादि भ्रमन्तं चीरवाससम् ॥३६॥
नग्नं धावन्तमुत्त्रस्तदृष्टिं तृणविभूषणम्
श्मशानशून्यायतनरथ्यैकद्रुमसेविनम् ॥३७॥
तिलान्नमद्यमांसेषु सततं सक्तलोचनम्
निषादाधिष्ठितं विद्याद् वदन्तं परुषाणि च ॥३८॥
याचन्तमुदकं चान्नं त्रस्तलोहितलोचनम्
उग्रवाक्यं च जानीयान्नरमौकिरणार्दितम् ॥३९॥
गन्धमाल्यरतिं सत्यवादिनं परिवेपिनम्
बहुनिद्रं च जानीयाद्वेतालेन वशीकृतम् ॥४०॥
अप्रसन्नदृशं दीनवदनं शुष्कतालुकम्
चलन्नयनपक्ष्माणं निद्रा लुं मन्दपावकम् ॥४१॥
अपसव्यपरीधानं तिलमांसगुडप्रियम्
स्खलद्वाचं च जानीयात् पितृग्रहवशीकृतम् ॥४२॥
गुरुवृद्धर्षिसिद्धाभि शापचिन्तानुरूपतः
व्याहाराहारचेष्टाभिर्यथास्वं तद्ग्रहं वदेत् ॥४३॥
कुमारवृदानुगतं नग्नमुद्धतमूर्धजम्
अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत् ॥४४॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने भूतविज्ञानीयो नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP