उत्तरस्थानम् - चतुस्त्रिंशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातो गुह्यरोगप्रतिषेधं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
मेढ्रमध्ये सिरां विध्येदुपदंशे नवोत्थिते
शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः ॥१॥
तिलकल्कघृतक्षौद्रै र्लेपः पक्वे तु पाटिते
जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् ॥२॥
शल्लकीबदरीबिल्व पलाशतिनिशोद्भवाः
त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले ॥३॥
स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम्
तुत्थगैरिकलोध्रैला मनोह्वालरसाञ्जनैः ॥४॥
हरेणुपुष्पकासीससौराष्ट्री लवणोत्तमैः
लेपः क्षौद्र युतैः सूक्ष्मैरुपदंशव्रणापहः ॥५॥
कपाले त्रिफला दग्धा सघृता रोपणं परम्
सामान्यं साधनमिदं प्रतिदोषं तु शोफवत् ॥६॥
न च याति यथा पाकं प्रयतेत तथा भृशम्
पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः ॥७॥
अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत्
सर्षपा लिखिताः सूक्ष्मैः कषायैरवचूर्णयेत् ॥८॥
तैरेवाभ्यञ्जनं तैलं साधयेद् व्रणरोपणम्
क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः ॥९॥
कुम्भीकायां हरेद्र क्तं पक्वायां शोधिते व्रणे
तिन्दुकत्रिफलारोध्रैर्लेपस्तैलं च रोपणम् ॥१०॥
अलज्यां स्रुतरक्तायामयमेव क्रियाक्रमः
उत्तमाख्यां तु पिटिकां सञ्च्छिद्य बडिशोद्धृताम् ॥११॥
कल्कैश्चूर्णैः कषायाणां क्षौद्र युक्तैरुपाचरेत्
क्रमः पित्तविसर्पोक्तः पुष्करव्यूढयोर्हितः ॥१२॥
त्वक्पाके स्पर्शहान्यां च सेचयेन्मृदितं पुनः
बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत् ॥१३॥
अष्ठीलिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत्
निवृत्तं सर्पिषाऽभ्यज्य स्वेदयित्वोपनाहयेत् ॥१४॥
त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वलादिभिः
स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत् ॥१५॥
मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम्
मणौ पुनः पुनः स्निग्धं भोजनं चात्र शस्यते ॥१६॥
अयमेव प्रयोज्यः स्यादवपाट्यामपि क्रमः
नाडीमुभयतोद्वारां निरुद्धे जतुना सृताम् ॥१७॥
स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत्स्नेहैश्चलापहैः
त्र्यहात्त्र्यहात्स्थूलतरां न्यस्य नाडीं विवर्धयेत् ॥१८॥
स्रोतोद्वारमसिद्धौ तु विद्वान् शस्त्रेण पाटयेत्
सेवनीं वर्जयन् युञ्ज्यात् सद्यः क्षतविधिं ततः ॥१९॥
ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैरुपनाहयेत्
लिम्पेत्कषायैः सक्षौद्रै र्लिखित्वा शतपोनकम् ॥२०॥
रक्तविद्र धिवत्कार्या चिकित्सा शोणितार्बुदे
व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत् ॥२१॥
योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित्
स्नेहनस्वेदबस्त्यादि वातजासु विशेषतः ॥२२॥
न हि वातादृते योनिर्वनितानां प्रदुष्यति
अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम् ॥२३॥
पाययेत बलातैलं मिश्रकं सुकुमारकम्
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समां ॥२४॥
पाणिना नमयेज्जिह्मां संवृतां व्यधयेत् पुनः
प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत् ॥२५॥
स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रियो मता
कर्मभिर्वमनाद्यैश्च मृदुभिर्योजयेत्स्त्रियम् ॥२६॥
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते
बस्त्यभ्यङ्गपरीषेक प्रलेपपिचुधारणम् ॥२७॥
काश्मर्यत्रिफला द्रा क्षाकासमर्दनिशाद्वयैः
गुडूचीसैर्यकाभीरुशुकनासा पुनर्नवैः ॥२८॥
परूषकैश्च विपचेत्प्रस्थमक्षसमैर्घृतात्
योनिवातविकारघ्नं तत्पीतं गर्भदं परम् ॥२९॥
वचोपकुञ्चिकाजाजीकृष्णा वृषकसैन्धवम्
अजमोदायवक्षारशर्करा चित्रकान्वितम् ॥३०॥
पिष्ट्वा प्रसन्नयाऽलोड्य खादेत्तद्घृतभर्जितम्
योनिपार्श्वार्तिहृद्रो गगुल्मार्शोविनिवृत्तये ॥३१॥
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्
पिबेन्मद्यैः सलवणैस्तथा कृष्णोपकुञ्चिके ॥३२॥
रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ॥३३॥
नतवार्ताकिनीकुष्ठ सैन्धवामरदारुभिः
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः ॥३४॥
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः
शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च ॥३५॥
शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्
रसेन क्षीरतुल्येन पाचयेत घृताढकम् ॥३६॥
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः
पिष्टैः प्रियालैश्चाक्षांशैर्द्विबलामधुकान्वितैः ॥३७॥
सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्
शर्कराया दशपलं क्षिपेल्लिह्यात्पिंचु ततः ॥३८॥
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्
क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम् ॥३९॥
कामलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्
अपस्मारार्दितायाममदोन्मादांश्च नाशयेत् ॥४०॥
एवमेव पयः सर्पिर्जीवनीयोपसाधितम्
गर्भदं पित्तजानां च रोगाणां परमं हितम् ॥४१॥
बलाद्रो णद्वयक्वाथे घृततैलाढकं पचेत्
क्षीरे चतुर्गुणे कृष्णाकाकनासासितान्वितैः ॥४२॥
जीवन्तीक्षीरकाकोली स्थिरावीरर्धिजीवकैः
पयस्याश्रावणीमुद्गपीलु माषाख्यपर्णिभिः ॥४३॥
वातपित्तामयान् हत्वा पानाद् गर्भं दधाति तत्
रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च ॥४४॥
यथादोषोदयं युञ्ज्याद् रक्तस्थापनमौषधम्
पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम् ॥४५॥
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्
बाह्लीकबिल्वातिविषारोध्रतोयदगैरिकम् ॥४६॥
शुण्ठीमधूकमाचीकरक्त चन्दनकट्फलम्
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ॥४७॥
पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तन्दुलाम्भसा
पिबेदर्शःस्वतीसारे रक्तं यश्चोपवेश्यते ॥४८॥
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्
योनिदोषं रजोदोषं श्यावश्वेतारुणासितम् ॥४९॥
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्
योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम् ॥५०॥
धातक्यामलकीपत्र स्रोतोजमधुकोत्पलैः
जम्ब्वाम्रसारकासीस रोध्रकट्फलतिन्दुकैः ॥५१॥
सौराष्ट्रिकादाडिमत्वगुदुम्बर शलाटुभिः
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् ॥५२॥
तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्
तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा ॥५३॥
विप्लुतोपप्लुता योनिः सिद्ध्य्त्सेस्फोटशूलिनी
यवान्नमभयारिष्टं सीधु तैलं च शीलयेत् ॥५४॥
पिप्पल्ययोरजः पथ्याप्रयोगांश्च समाक्षिकान्
कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि धातुकी ॥५५॥
पैच्छिल्ये क्षौद्र संयुक्तश्चूर्णो वैशद्यकारकः
पलाशधातकीजम्बूसमङ्गामोचसर्जजः ॥५६॥
दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते
आरग्वधादिवर्गस्य कषायः परिषेचनम् ॥५७॥
स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम्
धारणं वेसवारस्य कृसरापायसस्य च ॥५८॥
दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा
चूर्णो वा सर्वगन्धानां पूतिगन्धान्ध्यिपिकर्षणः ॥५९॥
श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः
पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः ॥६०॥
सन्निपातसमुत्थायाः कर्म साधारणं हितम्
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः ॥६१॥
अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रि यम् ॥६२॥
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्
मञ्जिष्ठाकुष्ठतगरत्रिफला शर्करावचाः ॥६३॥
द्वे निशे मधुकं मेदां दीप्यकं कटुरोहिणीम्
पयस्याहिङ्गुकाकोलीवाजिगन्धाशतावरीः ॥६४॥
पिष्ट्वाऽक्षाशा घृतप्रस्थं पचेत्क्षीरचतुर्गुणम्
योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते ॥६५॥
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्
फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत् ॥६६॥
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्
एतत्परं च बालानां ग्रहघ्नं देहवर्धनम् ॥६७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने गुह्यरोगप्रतिषेधो नाम चतुस्त्रिंशोऽध्यायः ॥३४॥
इति शल्यतन्त्रं नाम पञ्चममङ्गं समाप्तम्
N/A
References : N/A
Last Updated : March 15, 2021
TOP