संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्| षट्त्रिंशोऽध्यायः उत्तरस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः उत्तरस्थानम् - षट्त्रिंशोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता षट्त्रिंशोऽध्यायः Translation - भाषांतर अथातः सर्पविषप्रतिषेधं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःदर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाःत्रिधा समासतो भौमाः भिद्यन्ते ते त्वनेकधा ॥१॥व्यासतो योनिभेदेन नोच्यन्तेऽनुपयोगिनःविशेषाद्रू क्षकटुकमम्लोष्णं स्वादुशीतलम् ॥२॥विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम्तारुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च ॥३॥बिषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषुरथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ॥४॥फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताःज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः ॥५॥प्रांशवो मन्दगमनाः राजीमन्तस्तु राजिभिःस्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः ॥६॥गोधासुतस्तु गौधेरो विषे दर्वीकरैः समःचतुष्पाद्व्यन्तरान् विद्यादेतेषामेव सङ्करात् ॥७॥व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपनाःआहारार्थं भयात् पादस्पर्शादतिविषात् क्रुधः ॥८॥पापवृत्तितया वैराद्देवर्षियमचोदनात्दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम् ॥९॥आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम्व्यन्तरः पापशीलत्वान्मार्गमाश्रित्य तिष्ठति ॥१०॥यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यतेन तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत् ॥११॥एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम्दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं त्रीणि तानि तु ॥१२॥मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम्दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम् ॥१३॥निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत्विषं नाहेयमप्राप्य रक्तं दूषयते वपुः ॥१४॥रक्तमण्वपि तु प्राप्तं वर्धते तैलमम्बुवत्भीरोस्तु सर्पसंस्पर्शाद्भयेन कुपितोऽनिलः ॥१५॥कदाचित्कुरुते शोफं सर्पाङ्गाभिहतं तु तत्दुर्गान्धकारे विद्धस्य केनचिद्दष्टशंकया ॥१६॥विषोद्वेगो ज्वरश्छर्दिर्मूर्च्छा दाहोऽपि वा भवेत्ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते ॥१७॥तुद्यते सविषो दंशः कण्डूशोफरुजान्वितःदह्यते ग्रथितः किञ्चिद्विपरीतस्तु निर्विषः ॥१८॥पूर्वे दर्वीकृतां वेगे दुष्टं श्यावीभवत्यसृक्श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः ॥१९॥द्वितीये ग्रन्थयो वेगेतृतीये मूर्ध्नि गौरवम्दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः ॥२०॥सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम्दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम् ॥२१॥मूर्च्छा विपाकोऽतीसारः प्राप्य शुक्रं तु सप्तमेस्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम् ॥२२॥अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक्तेन पीताङ्गता दाहो द्वितीये श्वयथूद्भवः ॥२३॥तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायतेचतुर्थे ज्वर्यते दाहः पञ्चमे सर्वगात्रगः ॥२४॥दष्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम्पाण्डुता तेन गात्राणां द्वितीये गुरुताऽति च ॥२५॥तृतीये दंशविक्लेदो नासिकाक्षिमुखस्रवाःचतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्चपञ्चमे ॥२६॥गात्रभङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत्कुर्यात्पञ्चसु वेगेषु चिकित्सां न ततः परम् ॥२७॥जलाप्लुता रतिक्षीणा भीता नकुलनिर्जिताःशीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः ॥२८॥तूर्णं देशान्तरायाता विमुक्तविषकञ्चुकाःकुशौषधीकण्टकवद्ये चरन्ति च काननम् ॥२९॥देशं च दिव्याध्युषितं सर्पास्तेऽल्पविषा मताःश्मशानचितिचैत्यादौ पञ्चमीपक्षसन्धिषु ॥३०॥अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु चयाम्याग्नेयमघाश्लेषाविशाखापूर्वनैरृते ॥३१॥नैरृताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत्दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः ॥३२॥स्तब्धजिह्वोमुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवतिहिध्माश्वासो वमिः कासो दष्टमात्रस्य देहिनः ॥३३॥जायन्ते युगपद्यस्य स हृच्छूली न जीवतिफेनं वमति निःसंज्ञः श्यावपादकराननः ॥३४॥नासावसादो भङ्गोऽङ्गे विड्भेदः श्लथसन्धिताविषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च ॥३५॥भवन्त्येतानि रूपाणि सम्प्राप्ते जीवितक्षयेन नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः ॥३६॥दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम्अतोऽन्यथा तु त्वरया प्रदीप्तागारवद्भिषक् ॥३७॥रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत्मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः ॥३८॥देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत्एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम् ॥३९॥कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहतिदष्टमात्रो दशेदाशु तमेव पवनाशिनम् ॥४०॥लोष्टं महीं वा दशनैश्छित्त्वा चानु ससम्भ्रमम्निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा ॥४१॥दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुलेक्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित् ॥४२॥अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम्न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः ॥४३॥निष्पीड्यानूद्धरेद्दंशं मर्मसन्ध्यगतं तथान जायते विषाद्वेगो बीजनाशादिवाङ्कुरः ॥४४॥दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम्प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा ॥४५॥करोति भस्मसात्सद्यो वह्निः किं नाम तु क्षतम्आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः ॥४६॥प्रच्छायान्तररिष्टायां मांसलं तु विशेषतःअङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः ॥४७॥चन्दनोशीरयुक्तेन सलिलेन च सेचयेत्विषे प्रविसृते विध्येत्सिरां सा परमा क्रिया ॥४८॥रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रियते विषम्दुर्गन्धं सविषं रक्तमग्नौ चटचटायते ॥४९॥यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक्सिरास्वदृश्यमानासु योज्याः शृङ्गजलौकसः ॥५०॥शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणालेपसेकैः सुबहुशः स्तम्भयेद्भृशशीतलैः ॥५१॥अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्र वाःभवन्ति तान् जयेच्छीतैर्वीजेच्चारोमहर्षतः ॥५२॥स्कन्ने तु रुधिरे सद्यो विषवेगः प्रशाम्यतिविषं कर्षति तीक्ष्णत्वाद् हृदयं तस्य गुप्तये ॥५३॥पिबेद्घृतं घृतक्षौद्र मगदं वा घृताप्लुतम्हृदयावरणे चास्य श्लेष्मा हृद्युपचीयते ॥५४॥प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततःद्र वैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः ॥५५॥वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुःभुजङ्गदोषप्रकृतिस्थानवेगविशेषतः ॥५६॥सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम्सिन्दुवारितमूलानि श्वेता च गिरिकर्णिका ॥५७॥पानं दर्वीकरैर्दष्टे नस्यं मधुसपाकलम्कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि ॥५८॥चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वापानं च क्षौद्र मञ्जिष्ठागृहधूमयुतं घृतम् ॥५९॥तन्दुलीयककाश्मर्यकिणिही गिरिकर्णिकाःमातुलुङ्गी सिता शेलुः पाननस्याञ्जनैर्हितः ॥६०॥अगदः फणिनां घोरे विषे राजीमतामपिसमाः सुगन्धामृद्वीकाश्वेताख्यागजदन्तिकाः ॥६१॥अर्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमम्सक्षौद्रो मण्डलिविषे विशेषादगदो हितः ॥६२॥पञ्चवल्कवरा यष्टीनागपुष्पैलवालुकम्जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम् ॥६३॥सक्षौद्रो हिमवान्नाम हन्ति मण्डलिनां विषम्लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा ॥६४॥काश्मर्यं वटशुङ्गानि जीवकर्षभकौ सितामञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत् ॥६५॥वंशत्वग्बीजकटुका पाटलीबीजनागरम्शिरीषबीजातिविषे मूलं गावेधुकं वचा ॥६६॥पिष्टो गोवारिणाऽष्टाङ्गो हन्ति गोनसजं विषम्कटुकातिविषाकुष्ठगृह धूमहरेणुकाः ॥६७॥सक्षौद्र व्योषतगरा घ्नन्ति राजीमतां विषम्निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि ॥६८॥उद्धृत्य प्रच्छितं सर्पिर्धान्यमृद्भ्यां प्रलेपयेत्पिबेत्पुराणं च घृतं वराचूर्णावचूर्णितम् ॥६९॥जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम्करवीरार्ककुसुममूल लाङ्गलिका कणाः ॥७०॥कल्कयेदारनालेन पाठामरिचसंयुताःएष व्यन्तरदष्टानामगदः सार्वकार्मिकः ॥७१॥शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम्भावितं सर्पदष्टानां पाननस्याञ्जने हितम् ॥७२॥द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम्अपि तक्षकदष्टानां पानमेतत्सुखप्रदम् ॥७३॥अथ दर्वीकृतां वेगे पूर्वे विस्राव्य शोणितम्अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत् ॥७४॥द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्विषापहे प्रयुञ्जीत तृतीयेऽञ्जननावने ॥७५॥पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृतेषष्ठपञ्चमयोः शीतैर्दिग्धं सिक्तमभीक्ष्णशः ॥७६॥पाययेद्वमनं तीक्ष्णं यवागूं च विषापहैःअगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः ॥७७॥कृत्वाऽवगाढं शस्त्रेण मूर्ध्नि काकपदं ततःमांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत् ॥७८॥तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत्अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम् ॥७९॥आद्येऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैःअलाबुना हरेद्र क्तं पूर्ववच्चागदं पिबेत् ॥८०॥षष्ठेऽञ्जनं तीक्ष्णतममवपीडं च योजयेत्अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम् ८१गर्भिणीबालवृद्धेषु मृदुं विध्येत्सिरां न चत्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः ॥८२॥तमालः केसरं शीतं पीतं तन्दुलवारिणाहन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान् ॥८३॥बिल्वस्य मूलं सुरसस्य पुष्पंफलं करञ्जस्य नतं सुराह्वम्फलत्रिकं व्योषनिशाद्वयं चबस्तस्य मूत्रेण सुसूक्ष्मपिष्टम् ॥८४॥भुजङ्गलूतोन्दुरवृश्चिकाद्यैर्विसूचिका जीर्णगरज्वरैश्चआर्तान्नरान्भूतविधर्षितांश्चस्वस्थीकरोत्यञ्जनपाननस्यैः ॥८५॥प्रलेपाद्यैश्च निःशेषं दंशादप्युद्धरेद्विषम्भूयो वेगाय जायेत शेषं दूषीविषाय वा ॥८६॥विषापायेऽनिलं क्रुद्धं स्नेहादिभिरुपाचरेत्तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः ॥८७॥पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिःसमाक्षिकेण वर्गेण कफमारग्वधादिना ॥८८॥सिता वैगन्धिको द्रा क्षा पयस्या मधुकं मधुपानं समन्त्रपूताम्बु प्रोक्षणं सान्त्वहर्षणम् ॥८९॥सर्पाङ्गाभिहते युञ्ज्यात्तथा सङ्काविषार्दितेकर्केतनं मरकतं वज्रं वारणमौक्तिकम् ॥९०॥वैडूर्यं गर्दभमणिं पिचुकं विषमूषिकाम्हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम् ॥९१॥तथा द्रो णां महाद्रो णां मानसीं सर्पजं मणिम्विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत् ॥९२॥छत्री झर्झरपाणिश्च चरेद्रा त्रौ विशेषतःतच्छायाशब्दवित्रस्ताः प्रणश्यन्ति भुजङ्गमाः ॥९३॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्पविषप्रतिषेधो नाम षट्त्रिंशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP