संस्कृत सूची|संस्कृत साहित्य|संहिता|वाग्भटसंहिता|उत्तरस्थानम्|
त्रयस्त्रिंशोऽध्यायः

उत्तरस्थानम् - त्रयस्त्रिंशोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो गुह्यरोगविज्ञानीयं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
स्त्रीव्यवायनिवृत्तस्य सहसा भजतोऽथवा
दोषाध्युषितसङ्कीर्ण मलिनाणुरजःपथाम् ॥१॥
अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम्
दूषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा ॥२॥
विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः
मुष्टिदन्तनखोत्पीडा विषवच्छूकपातनैः ॥३॥
वेगनिग्रहदीर्घातिखर स्पर्शविघट्टनैः
दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान् ॥४॥
जनयन्त्युपदंशादीनुपदंशोऽत्र पञ्चधा
पृथग्दोषैः सरुधिरैः समस्तैश्चात्र मारुतात् ॥५॥
मेढ्रे शोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम्
पक्वोदुम्बरसङ्काशः पित्तेन श्वयथुर्ज्वरः ॥६॥
श्लेष्मणा कठिनः स्निग्धः कण्डूमान् शीतलो गुरुः
शोणितेनासितस्फोटसम्भवोऽस्रस्रुतिर्ज्वरः ॥७॥
सर्वजे सर्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि
तीव्रा रुगाशुपचनं दरणं कृमिसम्भवः ॥८॥
याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः
जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः ॥९॥
अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः
पिच्छिलास्रस्रवा योनौ तद्वच्च च्छत्रसन्निभाः ॥१०॥
तेऽशास्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वं भगार्तवम्
गुह्यस्य बहिरन्तर्वा पिटिकाः कफरक्तजाः ॥११॥
सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः
पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः ॥१२॥
सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान्
कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुजा ॥१३॥
अलजीं मेहवद्विद्यादुत्तमां पित्तरक्तजाम्
पिटिकां माषमुद्गाभां पिटिका पिटिकाचिता ॥१४॥
कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा
पाणिभ्यां भृशसंव्यूढे संव्यूढपिटिका भवेत् ॥१५॥
मृदितं मृदितं वस्त्रसंरब्धं वातकोपतः
विषमा कठिना भुग्ना वायुनाऽष्ठीलिका स्मृता ॥१६॥
विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम्
निवर्तते सरुग्दाहं क्वचित्पाकं च गच्छति ॥१७॥
पिण्डितं ग्रन्थितं चर्म तत्प्रलम्बमधो मणेः
निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत् ॥१८॥
दुरूढं स्फुटितं चर्म निर्दिष्टमवपाटिका
वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् ॥१९॥
स्रोतो मूत्रं ततोऽभ्येति मन्दधारमवेदनम्
मणेर्विकाशरोधश्च स निरुद्धमणिर्गदः ॥२०॥
लिङ्गं शूकैरिवापूर्णं ग्रथिताख्यं कफोद्भवम्
शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया ॥२१॥
छिद्रै रणुमुखैर्यत्तु मेहनं सर्वतश्चितम्
वातशोणितकोपेन तं विद्याच्छतपोनकम् ॥२२॥
पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान्
मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः ॥२३॥
सरागैरसितैः स्फोटैः पिटिकाभिश्च पीडितम्
मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदम् ॥२४॥
मांसार्बुदं प्रागुदितं विद्र धिश्च त्रिदोषजः
कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः ॥२५॥
पक्वानि सन्निपातेन तान् विद्यात्तिलकालकान्
मांसोत्थमर्बुदं पाकं विद्र धिं तिलकालकान् ॥२६॥
चतुरो वर्जयेदेषां शेषांश्छीघ्रमुपाचरेत्
विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात् ॥२७॥
विषमस्थाङ्गशयन भृशमैथुनसेवनैः
दुष्टार्तवादपद्र व्यैर्बीजदोषेण दैवतः ॥२८॥
योनौ क्रुद्धोऽनिलः कुर्याद् रुक्तोदायामसुप्तताः
पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम् ॥२९॥
फेनिलारुणकृष्णाल्पतनु रूक्षार्तवस्रुतिम्
स्रंसं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च ॥३०॥
तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता
सैवातिचरणा शोफसंयुक्ताऽतिव्यवायतः ॥३१॥
मैथुनादतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम्
रुजन् सन्दूषयेद्योनिं वायुः प्राक्चरणेति सा ॥३२॥
वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः
सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति ॥३३॥
इयं व्यापदुदावृत्ता जातघ्नी तु यदाऽनिलः
जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्तवोद्भवम् ॥३४॥
अत्याशिताया विषमं स्थितायाः सुरते मरुत्
अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत् ॥३५॥
सास्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा
वातलाहारसेविन्यां जनन्यां कुपितोऽनिलः ॥३६॥
स्त्रियो योनिमणुद्वारां कुर्यात्सूचीमुखीति सा
वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसङ्ग्रहम् ॥३७॥
करोति योनेः शोषं च शुष्काख्या साऽतिवेदना
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत् ॥३८॥
वमेत्सरुङ् नीरुजो वा यस्याः सा वामिनी मता
योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः ॥३९॥
नृद्वेषिण्यस्तनी च स्यात् षण्ढसंज्ञाऽनुपक्रमा
दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः ॥४०॥
कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम्
उत्सन्नमांसां तामाहुर्महायोनिं महारुजाम् ॥४१॥
यथास्वैर्दूषणैर्दुष्टं पित्तं योनिमुपाश्रितम्
करोति दाहपाकोषापूतिगन्धिज्वरान्विताम् ॥४२॥
भृशोष्णभूरिकुणप नीलपीतासितार्तवाम्
सा व्यापत् पैत्तिकी रक्तयोन्याख्याऽसृगतिस्रुतेः ॥४३॥
कफोऽभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम्
शीतलां कण्डुलां पाण्डुपिच्छिलां तद्विधस्रुतिम् ॥४४॥
सा व्यपच्छ्लैष्मिकी वातपित्ताभ्यां क्षीयते रजः
सदाहकार्श्यवैवर्ण्यं यस्याः सा लोहितक्षया ॥४५॥
पित्तलाया नृसंवासे क्षवथूद्गारधारणात्
पित्तयुक्तेन मरुता योनिर्भवति दूषिता ॥४६॥
शूना स्पर्शासहा सार्तिर्नीलपीतास्रवाहिनी
बस्तिकुक्षिगुरुत्वातिसारारोचककारिणी ॥४७॥
श्रोणिवङ्क्षणरुक्तोदज्वरकृत् सा परिप्लुता
वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी ॥४८॥
उपप्लुता स्मृता योर्निप्ल्ताख्या त्वधावनात्
सञ्जातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया ॥४९॥
अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः
कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम् ॥५०॥
सा कर्णिनी त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः
यथास्वोपद्र वकरैर्व्यापत्सा सान्निपातिकी ॥५१॥
इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति
ततो गर्भं न गृह्णाति रोगांश्चाप्नोति दारुणान् ॥५२॥
असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः॥५२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
षष्ठे उत्तरस्थाने गुह्यरोगविज्ञानीयोनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP