वृषदानव्रत
( वीरमित्रोदय ) - इसी दिन ( फाल्गुन शुक्ल १४ को ) यथोक्तगुण* सम्पन्न वृषका गन्ध - पुष्पादिसे पूजन करके विद्वान् ब्राह्मणको दे तो सम्पूर्ण पाप दूर हो जाते हैं ।
* लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ।
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ ( हरिहर )
चरणांसमुखं पुच्छं यस्य श्वेतानि गोपतेः ।
लाक्षारससवर्णश्च तं नीलमिति निर्दिशेत् ॥
भूमौ कर्षति लाङ्गूल प्रलम्बं स्थूलवालधिः ।
पुरस्तादुन्नओ नीलो वृषभः स प्रशस्यते ॥
श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य प्रशस्यते ।
स्त्रिग्धवर्णेन रक्तेन क्षत्रियस्य प्रशस्यते ॥
काञ्चनाभेन वैश्यस्य कृष्णः शूद्रस्य शस्यते । ( अन्यत्र )
यस्य प्रागायते श्रृङ्गे भ्रूमुखाभिमुखे सदा ।
सर्वेषामेव वर्णानां स च सर्वार्थसाधख ॥ ( स्मृत्यन्तर )