संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः ३२ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः ३२ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ३२ Translation - भाषांतर कपिल उवाचएवं कृतमतिर्गर्भे दशमास्यः स्तुवन्नृषिःसद्यः क्षिपत्यवाचीनं प्रसूत्यैसूतिमारुतःतेनावसृष्टः सहसा कृत्वावाक्षिर आतुरःविनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिःपतितो भुव्यसृङ्मिश्रः विष्ठाभूरिव चेष्टतेरोरूयति गते ज्ञाने विपरीतां गतिं गतःपरच्छन्दं न विदुषा पुष्यमाणो जनेन सःअनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरःशायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषितेनेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टनेतुदन्त्यामत्वचं दंशा मशका मत्कुणादयःरुदन्तं विगतज्ञानं कृमयः कृमिकं यथाइत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव चअलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितःसह देहेन मानेन वर्धमानेन मन्युनाकरोति विग्रहं कामी कामिष्वन्ताय चात्मनःभूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत्अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम्तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम्योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनःयद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैःआस्थितो रमते जन्तुस्तमो विशति पूर्ववत्सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमाशमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषुसङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु चन तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतःयोषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतःप्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितःरोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपःतत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान्ऋषिं नारायणमृते योषिन्मय्येह माययाबलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम्या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम्सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुःमत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्ययोपयाति शनैर्माया योषिद्देवविनिर्मितातामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्यां मन्यते पतिं मोहान्मन्मायामृषभायतीम्स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम्दैवोपसादितं मृत्युं मृगयोर्गायनं यथादेहेन जीवभूतेन लोकाल्लोकमनुव्रजन्भुञ्जान एव कर्माणि करोत्यविरतं पुमान्जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयःतन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवःद्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदातत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम्यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदातदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोःतस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमःबुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिहसम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तयामायाविरचिते लोके चरेन्न्यस्य कलेवरम् कपिल उवाचअथ यो गृहमेधीयान्धर्मानेवावसन्गृहेकाममर्थं चधर्मान्स्वान्दोग्धि भूयः पिपर्ति तान्स चापि भगवद्धर्मात्काममूढः पराङ्मुखःयजते क्रतुभिर्देवान्पित्ंश्च श्रद्धयान्वितःतच्छ्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान्गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यतियदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिःतदा लोका लयं यान्ति त एते गृहमेधिनाम्ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवेनिःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसःनिवृत्तिधर्मनिरता निर्ममा निरहङ्कृताःस्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसासूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम्परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम्द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु तेतावदध्यासते लोकं परस्य परचिन्तकाःक्ष्माम्भोऽनलानिलवियन्मनैन्द्रियार्थभूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुःअव्याकृतं विशति यर्हि गुणत्रयात्माकालंपराख्यमनुभूय परः स्वयम्भूःएवं परेत्य भगवन्तमनुप्रविष्टायेयोगिनो जितमरुन्मनसो विरागाःतेनैव साकममृतं पुरुषं पुराणंब्रह्म प्रधानमुपयान्त्यगताभिमानाःअथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम्श्रुतानुभावं शरणं व्रज भावेन भामिनिआद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिःयोगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैःभेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणाकर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्स संसृत्य पुनः काले कालेनेश्वरमूर्तिनाजाते गुणव्यतिकरे यथापूर्वं प्रजायतेऐश्वर्यं पारमेष्ठ्यं च तेऽपिधर्मविनिर्मितम्निषेव्य पुनरायान्ति गुणव्यतिकरे सतिये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताःकुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशःरजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाःपित्न्यजन्त्यनुदिनं गृहेष्वभिरताशयाःत्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसःकथायां कथनीयोरु विक्रमस्य मधुद्विषःनूनं दैवेन विहता ये चाच्युतकथासुधाम्हित्वा शृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजःदक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति तेप्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतःततस्ते क्षीणसुकृताः पुनर्लोकमिमं सतिपतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाःतस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम्तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम्वासुदेवे भगवति भक्तियोगः प्रयोजितःजनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिःन विगृह्णाति वैषम्यं प्रियमप्रियमित्युतस तदैवात्मनात्मानं निःसङ्गं समदर्शनम्हेयोपादेयरहितमारूढं पदमीक्षतेज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्दृश्यादिभिः पृथग्भावैर्भगवानेक ईयतेएतावानेव योगेन समग्रेणेह योगिनःयुज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशःज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम्अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणायथा महानहंरूपस्त्रिवृत्पञ्चविधः स्वराट्एकादशविधस्तस्य वपुरण्डं जगद्यतःएतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशःसमाहितात्मा निःसङ्गो विरक्त्या परिपश्यतिइत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम्येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य चज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणःद्वयोरप्येक एवार्थो भगवच्छब्दलक्षणःयथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयःएको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभिःक्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैःआत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम्योगेन विविधाङ्गेन भक्तियोगेन चैव हिधर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्आत्मतत्त्वावबोधेन वैराग्येण दृढेन चईयते भगवानेभिः सगुणो निर्गुणः स्वदृक्प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम्कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषुजीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताःयास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनःनैतत्खलायोपदिशेन्नाविनीताय कर्हिचित्न स्तब्धाय न भिन्नाय नैवधर्मध्वजाय चन लोलुपायोपदिशेन्न गृहारूढचेतसेनाभक्ताय च मे जातु न मद्भक्तद्विषामपिश्रद्दधानाय भक्ताय विनीतायानसूयवेभूतेषु कृतमैत्राय शुश्रूषाभिरताय चबहिर्जातविरागाय शान्तचित्ताय दीयताम्निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियःय इदं शृणुयादम्ब श्रद्धया पुरुषः सकृत्यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP