संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः ३१ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः ३१ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ३१ Translation - भाषांतर श्रीभगवानुवाचकर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तयेस्त्रियाः प्रविष्ट उदरं पुंसो रेतःकणाश्रयःकललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम्मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहःनखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिःचतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवःषड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणेमातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मतेशेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवेकृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम्मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुःकटुतीक्ष्णोष्णलवण रूक्षाम्लादिभिरुल्बणैःमातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनःउल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतःआस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरःअकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरेतत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम्स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दतेआरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितःनैकत्रास्तेसूतिवातैर्विष्ठाभूरिव सोदरःनाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिःस्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः जन्तुरुवाचतस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम्सोऽहं व्रजामि शरणं ह्यकुतोभयं मेयेनेदृशी गतिरदर्श्यसतोऽनुरूपायस्त्वत्र बद्ध इव कर्मभिरावृतात्माभूतेन्द्रियाशयमयीमवलम्ब्य मायाम्आस्ते विशुद्धमविकारमखण्डबोधम्आतप्यमानहृदयेऽवसितं नमामियः पञ्चभूतरचिते रहितः शरीरेच्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम्तेनाविकुण्ठमहिमानमृषिं तमेनंवन्दे परं प्रकृतिपूरुषयोः पुमांसम्यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्सांसारिके पथि चरंस्तदभिश्रमेणनष्टस्मृतिः पुनरयं प्रवृणीत लोकंयुक्त्या कया महदनुग्रहमन्तरेणज्ञानं यदेतददधात्कतमः स देवस्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशःतं जीवकर्मपदवीमनुवर्तमानास्तापत्रयोपशमनाय वयं भजेमदेह्यन्यदेहविवरे जठराग्निनासृग्विण्मूत्रकूपपतितो भृशतप्तदेहःइच्छन्नितो विवसितुं गणयन्स्वमासान्निर्वास्यते कृपणधीर्भगवन्कदा नुयेनेदृशीं गतिमसौ दशमास्य ईशसङ्ग्राहितः पुरुदयेन भवादृशेनस्वेनैव तुष्यतु कृतेन स दीननाथःको नाम तत्प्रति विनाञ्जलिमस्य कुर्यात्पश्यत्ययं धिषणया ननु सप्तवध्रिःशारीरके दमशरीर्यपरः स्वदेहेयत्सृष्टयासं तमहं पुरुषं पुराणंपश्ये बहिर्हृदि च चैत्यमिव प्रतीतम्सोऽहं वसन्नपि विभो बहुदुःखवासंगर्भान्न निर्जिगमिषे बहिरन्धकूपेयत्रोपयातमुपसर्पति देवमायामिथ्या मतिर्यदनु संसृतिचक्रमेतत्तस्मादहं विगतविक्लव उद्धरिष्यआत्मानमाशु तमसः सुहृदात्मनैवभूयो यथा व्यसनमेतदनेकरन्ध्रंमा मे भविष्यदुपसादितविष्णुपादः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP