संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः ९ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः ९ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ९ Translation - भाषांतर ब्रह्मोवाचज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजांन ज्ञायते भगवतो गतिरित्यवद्यम्नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धंमायागुणव्यतिकराद्यदुरुर्विभासिरूपं यदेतदवबोधरसोदयेनशश्वन्निवृत्ततमसः सदनुग्रहायआदौ गृहीतमवतारशतैकबीजंयन्नाभिपद्मभवनादहमाविरासम्नातः परं परम यद्भवतः स्वरूपम्आनन्दमात्रमविकल्पमविद्धवर्चःपश्यामि विश्वसृजमेकमविश्वमात्मन्भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मितद्वा इदं भुवनमङ्गल मङ्गलायध्याने स्म नो दर्शितं त उपासकानाम्तस्मै नमो भगवतेऽनुविधेम तुभ्यंयोऽनादृतो नरकभाग्भिरसत्प्रसङ्गैःये तु त्वदीयचरणाम्बुजकोशगन्धंजिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम्भक्त्या गृहीतचरणः परया च तेषांनापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम्तावद्भयं द्रविणदेहसुहृन्निमित्तंशोकः स्पृहा परिभवो विपुलश्च लोभःतावन्ममेत्यसदवग्रह आर्तिमूलंयावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकःदैवेन ते हतधियो भवतः प्रसङ्गात्सर्वाशुभोपशमनाद्विमुखेन्द्रिया येकुर्वन्ति कामसुखलेशलवाय दीनालोभाभिभूतमनसोऽकुशलानि शश्वत्क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाःशीतोष्णवातवरषैरितरेतराच्चकामाग्निनाच्युतरुषा च सुदुर्भरेणसम्पश्यतो मन उरुक्रम सीदते मेयावत्पृथक्त्वमिदमात्मनइन्द्रियार्थमायाबलं भगवतो जन ईश पश्येत्तावन्न संसृतिरसौ प्रतिसङ्क्रमेतव्यर्थापि दुःखनिवहं वहती क्रियार्थाअह्न्यापृतार्तकरणा निशि निःशयानानानामनोरथधिया क्षणभग्ननिद्राःदैवाहतार्थरचनाऋषयोऽपि देवयुष्मत्प्रसङ्गविमुखा इह संसरन्तित्वं भक्तियोगपरिभावितहृत्सरोजआस्से श्रुतेक्षितपथो ननु नाथ पुंसाम्यद्यद्धिया त उरुगाय विभावयन्तितत्तद्वपुः प्रणयसे सदनुग्रहायनातिप्रसीदति तथोपचितोपचारैर्आराधितः सुरगणैर्हृदि बद्धकामैःयत्सर्वभूतदययासदलभ्ययैकोनानाजनेष्ववहितः सुहृदन्तरात्मापुंसामतो विविधकर्मभिरध्वराद्यैर्दानेन चोग्रतपसा परिचर्यया चआराधनं भगवतस्तव सत्क्रियार्थोधर्मोऽर्पितः कर्हिचिद्म्रियते न यत्रशश्वत्स्वरूपमहसैव निपीतभेदमोहाय बोधधिषणाय नमः परस्मैविश्वोद्भवस्थितिलयेषु निमित्तलीलारासाय ते नम इदं चकृमेश्वराययस्यावतारगुणकर्मविडम्बनानिनामानि येऽसुविगमे विवशा गृणन्तितेऽनैकजन्मशमलं सहसैव हित्वासंयान्त्यपावृतामृतं तमजं प्रपद्येयो वा अहं च गिरिशश्च विभुः स्वयं चस्थित्युद्भवप्रलयहेतव आत्ममूलम्भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस्तस्मै नमो भगवते भुवनद्रुमायलोको विकर्मनिरतः कुशले प्रमत्तःकर्मण्ययं त्वदुदिते भवदर्चने स्वेयस्तावदस्य बलवानिह जीविताशांसद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मैयस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्यम्अध्यासितः सकललोकनमस्कृतं यत्तेपे तपो बहुसवोऽवरुरुत्समानस्तस्मै नमो भगवतेऽधिमखाय तुभ्यम्तिर्यङ्मनुष्यविबुधादिषु जीवयोनिष्व्आत्मेच्छयात्मकृतसेतुपरीप्सया यःरेमे निरस्तविषयोऽप्यवरुद्धदेहस्तस्मै नमो भगवते पुरुषोत्तमाययोऽविद्ययानुपहतोऽपि दशार्धवृत्त्यानिद्रामुवाह जठरीकृतलोकयात्रःअन्तर्जलेऽहिकशिपुस्पर्शानुकूलांभीमोर्मिमालिनि जनस्य सुखं विवृण्वन्यन्नाभिपद्मभवनादहमासमीड्यलोकत्रयोपकरणो यदनुग्रहेणतस्मै नमस्त उदरस्थभवाय योगनिद्रावसानविकसन्नलिनेक्षणायसोऽयं समस्तजगतां सुहृदेक आत्मासत्त्वेन यन्मृडयते भगवान्भगेनतेनैव मे दृशमनुस्पृशताद्यथाहंस्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौएष प्रपन्नवरदो रमयात्मशक्त्यायद्यत्करिष्यति गृहीतगुणावतारःतस्मिन्स्वविक्रममिदं सृजतोऽपि चेतोयुञ्जीत कर्मशमलं च यथा विजह्याम्नाभिह्रदादिह सतोऽम्भसि यस्य पुंसोविज्ञानशक्तिरहमासमनन्तशक्तेःरूपं विचित्रमिदमस्य विवृण्वतो मेमा रीरिषीष्ट निगमस्य गिरां विसर्गःसोऽसावदभ्रकरुणो भगवान्विवृद्धप्रेमस्मितेन नयनाम्बुरुहं विजृम्भन्उत्थाय विश्वविजयाय च नो विषादंमाध्व्या गिरापनयतात्पुरुषः पुराणःमैत्रेय उवाचस्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिःयावन्मनोवचः स्तुत्वा विरराम स खिन्नवत्अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनःविषण्णचेतसं तेन कल्पव्यतिकराम्भसालोकसंस्थानविज्ञान आत्मनः परिखिद्यतःतमाहागाधया वाचा कश्मलं शमयन्निवश्रीभगवानुवाचमा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावहतन्मयापादितं ह्यग्रे यन्मां प्रार्थयते भवान्भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम्ताभ्यामन्तर्हृदि ब्रह्मन्लोकान्द्रक्ष्यस्यपावृतान्तत आत्मनि लोके च भक्तियुक्तः समाहितःद्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनःयदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम्प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम्यदा रहितमात्मानं भूतेन्द्रियगुणाशयैःस्वरूपेण मयोपेतं पश्यन्स्वाराज्यमृच्छतिनानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतःनात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहःऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणःयन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि तेज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम्यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिःतुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिःनालेन सलिले मूलं पुष्करस्य विचिन्वतःयच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम्यद्वा तपसि ते निष्ठा स एष मदनुग्रहःप्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छयायदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन्य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत्तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरःपूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिनाराद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम्अहमात्मात्मनां धातः प्रेष्ठः सन्प्रेयसामपिअतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियःसर्ववेदमयेनेदमात्मनात्मात्मयोनिनाप्रजाः सृज यथापूर्वं याश्च मय्यनुशेरतेमैत्रेय उवाचतस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरःव्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP