संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः १७ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः १७ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १७ Translation - भाषांतर मैत्रेय उवाचनिशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताःततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसःदितिस्तु भर्तुरादेशादपत्यपरिशङ्किनीपूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौउत्पाता बहवस्तत्र निपेतुर्जायमानयोःदिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाःसहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुःसोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवःववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुःउन्मूलयन्नगपतीन्वात्यानीको रजोध्वजःउद्धसत्तडिदम्भोद घटया नष्टभागणेव्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम्चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरःसोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाःमुहुः परिधयोऽभूवन्सराह्वोः शशिसूर्ययोःनिर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरेअन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम्सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाःसङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम्व्यमुञ्चन्विविधा वाचो ग्रामसिंहास्ततस्ततःखराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्खार्काररभसा मत्ताः पर्यधावन्वरूथशःरुदन्तो रासभत्रस्ता नीडादुदपतन्खगाःघोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वतगावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणःव्यरुदन्देवलिङ्गानि द्रुमाः पेतुर्विनानिलम्ग्रहान्पुण्यतमानन्ये भगणांश्चापि दीपिताःअतिचेरुर्वक्रगत्या युयुधुश्च परस्परम्दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः प्रजाःब्रह्मपुत्रानृते भीता मेनिरे विश्वसम्प्लवम्तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौववृधातेऽश्मसारेण कायेनाद्रिपती इवदिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौगां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुःप्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायततं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतःचक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण चवशे सपालान्लोकांस्त्रीनकुतोमृत्युरुद्धतःहिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम्गदापाणिर्दिवं यातो युयुत्सुर्मृगयन्रणम्तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम्वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम्मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम्भीता निलिल्यिरेदेवास्तार्क्ष्यत्रस्ता इवाहयःस वै तिरोहितान्दृष्ट्वा महसा स्वेन दैत्यराट्सेन्द्रान्देवगणान्क्षीबानपश्यन्व्यनदद्भृशम्ततो निवृत्तः क्रीडिष्यन्गम्भीरं भीमनिस्वनम्विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपःतस्मिन्प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाःअहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुःस वर्षपूगानुदधौ महाबलश्चरन्महोर्मीञ्छ्वसनेरितान्मुहुःमौर्व्याभिजघ्ने गदया विभावरीमासेदिवांस्तात पुरीं प्रचेतसःतत्रोपलभ्यासुरलोकपालकं यादोगणानामृषभं प्रचेतसम्स्मयन्प्रलब्धुं प्रणिपत्य नीचवज्जगाद मे देह्यधिराज संयुगम्त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम्विजित्य लोकेऽखिलदैत्यदानवान्यद्राजसूयेन पुरायजत्प्रभोस एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिःरोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम्पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम्आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाःतं वीरमारादभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिर्वृतःयस्त्वद्विधानामसतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP