संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः १६ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः १६ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १६ Translation - भाषांतर ब्रह्मोवाचइति तद्गृणतां तेषां मुनीनां योगधर्मिणाम्प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुःश्रीभगवानुवाचएतौ तौ पार्षदौ मह्यं जयो विजय एव चकदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम्यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैःस एवानुमतोऽस्माभिर्मुनयो देवहेलनात्तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मेतद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताःयन्नामानि च गृह्णाति लोको भृत्ये कृतागसिसोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयःयस्यामृतामलयशःश्रवणावगाहःसद्यः पुनाति जगदाश्वपचाद्विकुण्ठःसोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्तिश्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम्यत्सेवया चरणपद्मपवित्ररेणुंसद्यः क्षताखिलमलं प्रतिलब्धशीलम्न श्रीर्विरक्तमपि मां विजहाति यस्याःप्रेक्षालवार्थ इतरे नियमान्वहन्तिनाहं तथाद्मि यजमानहविर्वितानेश्च्योतद्घृतप्लुतमदन्हुतभुङ्मुखेनयद्ब्राह्मणस्य मुखतश्चरतोऽनुघासंतुष्टस्य मय्यवहितैर्निजकर्मपाकैःयेषां बिभर्म्यहमखण्डविकुण्ठयोगमायाविभूतिरमलाङ्घ्रिरजः किरीटैःविप्रांस्तु को न विषहेत यदर्हणाम्भःसद्यः पुनाति सहचन्द्रललामलोकान्ये मे तनूर्द्विजवरान्दुहतीर्मदीयाभूतान्यलब्धशरणानि च भेदबुद्ध्याद्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुःयेब्राह्मणान्मयि धिया क्षिपतोऽर्चयन्तस्तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राःवाण्यानुरागकलयात्मजवद्गृणन्तःसम्बोधयन्त्यहमिवाहमुपाहृतस्तैःतन्मे स्वभर्तुरवसायमलक्षमाणौयुष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यःभूयो ममान्तिकमितां तदनुग्रहो मेयत्कल्पतामचिरतो भृतयोर्विवासःब्रह्मोवाचअथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम्नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यतसतीं व्यादाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वराम्विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम्ते योगमाययारब्ध पारमेष्ठ्यमहोदयम्प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचःऋषय ऊचुःन वयं भगवन्विद्मस्तव देव चिकीर्षितम्कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसेब्रह्मण्यस्य परं दैवंब्राह्मणाः किल ते प्रभोविप्राणां देवदेवानां भगवानात्मदैवतम्त्वत्तः सनातनोधर्मो रक्ष्यते तनुभिस्तवधर्मस्य परमो गुह्यो निर्विकारो भवान्मतःतरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात्योगिनः स भवान्किं स्विदनुगृह्येत यत्परैःयं वै विभूतिरुपयात्यनुवेलमन्यैर्अर्थार्थिभिः स्वशिरसा धृतपादरेणुःधन्यार्पिताङ्घ्रितुलसीनवदामधाम्नोलोकं मधुव्रतपतेरिव कामयानायस्तां विविक्तचरितैरनुवर्तमानांनात्याद्रियत्परमभागवतप्रसङ्गःस त्वं द्विजानुपथपुण्यरजःपुनीतःश्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम्धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैःपद्भिश्चराचरमिदं द्विजदेवतार्थम्नूनं भृतं तदभिघाति रजस्तमश्चसत्त्वेन नो वरदया तनुवा निरस्यन त्वं द्विजोत्तमकुलं यदि हात्मगोपंगोप्ता वृषः स्वर्हणेन ससूनृतेनतर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्थालोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम्तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोःक्षेमं जनाय निजशक्तिभिरुद्धृतारेःनैतावता त्र्यधिपतेर्बत विश्वभर्तुस्तेजः क्षतं त्ववनतस्य स ते विनोदःयं वानयोर्दममधीश भवान्विधत्तेवृत्तिं नु वा तदनुमन्महि निर्व्यलीकम्अस्मासु वा य उचितो ध्रियतां स दण्डोयेऽनागसौ वयमयुङ्क्ष्महि किल्बिषेणश्रीभगवानुवाचएतौ सुरेतरगतिं प्रतिपद्य सद्यःसंरम्भसम्भृतसमाध्यनुबद्धयोगौभूयः सकाशमुपयास्यत आशु यो वःशापो मयैव निमितस्तदवेत विप्राःब्रह्मोवाचअथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम्वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयंप्रभम्भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य चप्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम्भगवाननुगावाह यातं मा भैष्टमस्तु शम्ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मेएतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदापुरापवारिता द्वारि विशन्ती मय्युपारतेमयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम्प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनःद्वाःस्थावादिश्य भगवान्विमानश्रेणिभूषणम्सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत्तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतःहतश्रियौ ब्रह्मशापादभूतां विगतस्मयौतदा विकुण्ठधिषणात्तयोर्निपतमानयोःहाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाःतावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेःदितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम्तयोरसुरयोरद्य तेजसा यमयोर्हि वःआक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सतिविश्वस्य यः स्थितिलयोद्भवहेतुराद्योयोगेश्वरैरपि दुरत्यययोगमायःक्षेमं विधास्यति स नो भगवांस्त्र्यधीशस्तत्रास्मदीयविमृशेन कियानिहार्थः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP