संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः १२ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः १२ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १२ Translation - भाषांतर मैत्रेय उवाचइति ते वर्णितः क्षत्तः कालाख्यः परमात्मनःमहिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मेससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत्महामोहं च मोहं च तमश्चाज्ञानवृत्तयःदृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यतभगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत्सनकं च सनन्दं च सनातनमथात्मभूःसनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसःतान्बभाषे स्वभूः पुत्रान्प्रजाः सृजत पुत्रकाःतन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाःसोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैःक्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमेधिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेःसद्योऽजायत तन्मन्युः कुमारो नीललोहितःस वै रुरोददेवानां पूर्वजो भगवान्भवःनामानि कुरु मे धातः स्थानानि च जगद्गुरोइति तस्य वचः पाद्मो भगवान्परिपालयन्अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि तेयदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकःततस्त्वामभिधास्यन्ति नाम्नारुद्र इति प्रजाःहृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं महीसूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि तेमन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजःउग्ररेता भवः कालो वामदेवो धृतव्रतःधीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिकाइरावती स्वधा दीक्षारुद्राण्योरुद्र ते स्त्रियःगृहाणैतानि नामानि स्थानानि च सयोषणःएभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिःइत्यादिष्टः स्वगुरुणा भगवान्नीललोहितःसत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाःरुद्राणांरुद्रसृष्टानां समन्ताद्ग्रसतां जगत्निशाम्यासङ्ख्यशो यूथान्प्रजापतिरशङ्कतअलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तममया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैःतप आतिष्ठ भद्रं ते सर्वभूतसुखावहम्तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान्तपसैव परं ज्योतिर्भगवन्तमधोक्षजम्सर्वभूतगुहावासमञ्जसा विन्दते पुमान्मैत्रेय उवाचएवमात्मभुवादिष्टः परिक्रम्य गिरां पतिम्बाढमित्यमुमामन्त्र्य विवेश तपसे वनम्अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरेभगवच्छक्तियुक्तस्य लोकसन्तानहेतवःमरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुःभृगुर्वसिष्ठो दक्षश्च दशमस्तत्रनारदःउत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवःप्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुःपुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोरृषिःअङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत्धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम्अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करःहृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात्आस्याद्वाक्सिन्धवो मेढ्रान्निरृतिः पायोरघाश्रयःछायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुःमनसो देहतश्चेदं जज्ञे विश्वकृतो जगत्वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनःअकामां चकमे क्षत्तः सकाम इति नः श्रुतम्तमधर्मे कृतमतिं विलोक्य पितरं सुताःमरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन्नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरेयस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुःतेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरोयद्वृत्तमनुतिष्ठन्वै लोकः क्षेमाय कल्पतेतस्मै नमो भगवते य इदं स्वेन रोचिषाआत्मस्थं व्यञ्जयामास सधर्मं पातुमर्हतिस इत्थं गृणतः पुत्रान्पुरो दृष्ट्वा प्रजापतीन्प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदातां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमःकदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात्कथं स्रक्ष्याम्यहं लोकान्समवेतान्यथा पुराचातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सहधर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयःविदुर उवाचस वै विश्वसृजामीशो वेदादीन्मुखतोऽसृजत्यद्यद्येनासृजद्देवस्तन्मे ब्रूहि तपोधनमैत्रेय उवाचऋग्यजुःसामाथर्वाख्यान्वेदान्पूर्वादिभिर्मुखैःशास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात्आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनःस्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैःइतिहासपुराणानि पञ्चमं वेदमीश्वरःसर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनःषोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथआप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्विद्या दानं तपः सत्यंधर्मस्येति पदानि चआश्रमांश्च यथासङ्ख्यमसृजत्सह वृत्तिभिःसावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथावार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहेवैखानसा वालखिल्यौ दुम्बराः फेनपा वनेन्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौआन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव चएवं व्याहृतयश्चासन्प्रणवो ह्यस्य दह्रतःतस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोःत्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेःमज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत्स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनःस्वराः सप्त विहारेण भवन्ति स्म प्रजापतेःशब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परःब्रह्मावभाति विततो नानाशक्त्युपबृंहितःततोऽपरामुपादाय स सर्गाय मनो दधेऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम्ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरवअहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदान ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम्एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदाकस्य रूपमभूद्द्वेधा यत्कायमभिचक्षतेताभ्यां रूपविभागाभ्यां मिथुनं समपद्यतयस्तु तत्र पुमान्सोऽभून्मनुः स्वायम्भुवः स्वराट्स्त्री यासीच्छतरूपाख्या महिष्यस्य महात्मनःतदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरेस चापि शतरूपायां पञ्चापत्यान्यजीजनत्प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारतआकूतिर्देवहूतिश्च प्रसूतिरिति सत्तमआकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम्दक्षायादात्प्रसूतिं च यत आपूरितं जगत् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP