संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः ११ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः ११ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ११ Translation - भाषांतर मैत्रेय उवाचचरमः सद्विशेषाणामनेकोऽसंयुतः सदापरमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतःसत एव पदार्थस्य स्वरूपावस्थितस्य यत्कैवल्यं परममहानविशेषो निरन्तरःएवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तमसंस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुःस कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम्सतोऽविशेषभुग्यस्तु स कालः परमो महान्अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतःजालार्करश्म्यवगतः खमेवानुपतन्नगात्त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतःशतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतःनिमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणःक्षणान्पञ्च विदुः काष्ठां लघु ता दश पञ्च चलघूनि वै समाम्नाता दश पञ्च च नाडिकाते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम्द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैःस्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम्यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभेपक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानदतयोः समुच्चयो मासः पितॄणां तदहर्निशम्द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिविअयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतःसंवत्सरशतं न्णां परमायुर्निरूपितम्ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत्संवत्सरावसानेन पर्येत्यनिमिषो विभुःसंवत्सरः परिवत्सर इडावत्सर एव चअनुवत्सरो वत्सरश्चविदुरैवं प्रभाष्यतेयः सृज्यशक्तिमुरुधोच्छ्वसयन्स्वशक्त्यापुंसोऽभ्रमाय दिवि धावति भूतभेदःकालाख्यया गुणमयं क्रतुभिर्वितन्वंस्तस्मै बलिं हरत वत्सरपञ्चकायविदुर उवाचपितृदेवमनुष्याणामायुः परमिदं स्मृतम्परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदःभगवान्वेद कालस्य गतिं भगवतो ननुविश्वं विचक्षते धीरा योगराद्धेन चक्षुषामैत्रेय उवाचकृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम्चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि चसन्ध्यासन्ध्यांशयोरन्तर्यः कालः शतसङ्ख्ययोःतमेवाहुर्युगं तज्ज्ञा यत्रधर्मो विधीयतेधर्मश्चतुष्पान्मनुजान्कृते समनुवर्ततेस एवान्येष्वधर्मेण व्येति पादेन वर्धतात्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम्तावत्येव निशा तात यन्निमीलति विश्वसृक्निशावसान आरब्धो लोककल्पोऽनुवर्ततेयावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दशस्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम्मन्वन्तरेषु मनवस्तद्वंश्याऋषयः सुराःभवन्ति चैव युगपत्सुरेशाश्चानु ये च तान्एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनःतिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिःमन्वन्तरेषु भगवान्बिभ्रत्सत्त्वं स्वमूर्तिभिःमन्वादिभिरिदं विश्वमवत्युदितपौरुषःतमोमात्रामुपादाय प्रतिसंरुद्धविक्रमःकालेनानुगताशेष आस्ते तूष्णीं दिनात्ययेतमेवान्वपि धीयन्ते लोका भूरादयस्त्रयःनिशायामनुवृत्तायां निर्मुक्तशशिभास्करम्त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निनायान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताःतावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवःप्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयःअन्तः स तस्मिन्सलिल आस्तेऽनन्तासनो हरिःयोगनिद्रानिमीलाक्षः स्तूयमानो जनालयैःएवंविधैरहोरात्रैः कालगत्योपलक्षितैःअपक्षितमिवास्यापि परमायुर्वयःशतम्यदर्धमायुषस्तस्य परार्धमभिधीयतेपूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्ततेपूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत्कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुःतस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षतेयद्धरेर्नाभिसरस आसील्लोकसरोरुहम्अयं तु कथितः कल्पो द्वितीयस्यापि भारतवाराह इति विख्यातो यत्रासीच्छूकरो हरिःकालोऽयं द्विपरार्धाख्यो निमेष उपचर्यतेअव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनःकालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरःनैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम्विकारैः सहितो युक्तैर्विशेषादिभिरावृतःआण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतःदशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत्लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयःतदाहुरक्षरं ब्रह्म सर्वकारणकारणम्विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP