संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः ७ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः ७ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ७ Translation - भाषांतर श्रीशुक उवाचएवं ब्रुवाणंमैत्रेयं द्वैपायनसुतो बुधःप्रीणयन्निव भारत्याविदुरः प्रत्यभाषतविदुर उवाचब्रह्मन्कथं भगवतश्चिन्मात्रस्याविकारिणःलीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाःक्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतःस्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतःअस्राक्षीद्भगवान्विश्वं गुणमय्यात्ममाययातया संस्थापयत्येतद्भूयः प्रत्यपिधास्यतिदेशतः कालतो योऽसाववस्थातः स्वतोऽन्यतःअविलुप्तावबोधात्मा स युज्येताजया कथम्भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितःअमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतःएतस्मिन्मे मनो विद्वन्खिद्यतेऽज्ञानसङ्कटेतन्नः पराणुद विभो कश्मलं मानसं महत्श्रीशुक उवाचस इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिःप्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयःमैत्रेय उवाचसेयं भगवतो माया यन्नयेन विरुध्यतेईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्यदर्थेन विनामुष्य पुंस आत्मविपर्ययःप्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकःयथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणःदृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणःस वै निवृत्तिधर्मेण वासुदेवानुकम्पयाभगवद्भक्तियोगेन तिरोधत्ते शनैरिहयदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौविलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशःअशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेःकिं वा पुनस्तच्चरणारविन्द परागसेवारतिरात्मलब्धाविदुर उवाचसञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभोउभयत्रापि भगवन्मनो मे सम्प्रधावतिसाध्वेतद्व्याहृतं विद्वन्नात्ममायायनं हरेःआभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिःयश्च मूढतमो लोके यश्च बुद्धेः परं गतःतावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनःअर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनःतां चापि युष्मच्चरण सेवयाहं पराणुदेयत्सेवया भगवतः कूटस्थस्य मधुद्विषःरतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनःदुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसुयत्रोपगीयते नित्यं देवदेवो जनार्दनःसृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात्तेभ्यो विराजमुद्धृत्य तमनु प्राविशद्विभुःयमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम्यत्र विश्व इमे लोकाः सविकाशं त आसतेयस्मिन्दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत्त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नःयत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैःप्रजा विचित्राकृतय आसन्याभिरिदं ततम्प्रजापतीनां स पतिश्चकॢपे कान्प्रजापतीन्सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान्एतेषामपि वेदांश्च वंशानुचरितानि चउपर्यधश्च ये लोका भूमेर्मित्रात्मजासतेतेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णयतिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम्वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम्गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम्सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम्वर्णाश्रमविभागांश्च रूपशीलस्वभावतःऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम्यज्ञस्य च वितानानि योगस्य च पथः प्रभोनैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्स्मृतम्पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम्जीवस्य गतयो याश्च यावतीर्गुणकर्मजाःधर्मार्थकाममोक्षाणां निमित्तान्यविरोधतःवार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक्श्राद्धस्य च विधिं ब्रह्मन्पित्णां सर्गमेव चग्रहनक्षत्रताराणां कालावयवसंस्थितिम्दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम्प्रवासस्थस्य योधर्मो यश्च पुंस उतापदियेन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनःसम्प्रसीदति वा येषामेतदाख्याहि मेऽनघअनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तमअनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाःतत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमःतत्रेमं क उपासीरन्क उ स्विदनुशेरतेपुरुषस्य च संस्थानं स्वरूपं वा परस्य चज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम्निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिःस्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वाएतान्मे पृच्छतः प्रश्नान्हरेः कर्मविवित्सयाब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषःसर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघजीवाभयप्रदानस्य न कुर्वीरन्कलामपिश्रीशुक उवाचस इत्थमापृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानःप्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP