संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
गर्भिणीमरणविधिः

अथान्त्येष्टिप्रयोगः - गर्भिणीमरणविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


देशकालौ संकीर्त्य अमुकगोत्रायाः अमुकप्रेतायाः गर्भिण्यवस्थामरणनिमित्तप्रत्यवायपरिहारद्वारा दाहादियोग्यतासिद्ध्यर्थं त्रयस्त्रिंशत्कृच्छ्रप्रायश्चित्तं प्रतिकृच्छ्रं तत्प्रत्याम्नायत्वेन यथाशक्तिगोनिष्क्रयीभूतं व्यावहारिकद्रव्यं सूतकांते दातुमहमुत्सृजे तथा च - गोभूमि - सुवर्ण - दानानि तत्तन्निष्क्रयीभूतं यथाशक्तिद्रव्यं सूतकांते दातुमहमुत्सृजे । ततः गर्भं पृथक्कृत्य तां दहेत् । सगर्भाया दहने तद्वधप्रायश्चित्तं दाहकर्तुरब्दत्रयं प्रायश्चित्तं च कार्यम् । एतद्गर्भिण्या गर्भनिष्कांसनादिविधानं षण्मासोर्ध्वमेव न तु षण्मासपर्यंतमिति प्रायश्चित्तहेमाद्रौ ॥ इति गर्भिणीमरणविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP