अथान्त्येष्टिप्रयोगः - धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः
‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.
धनिष्ठापंचके यदि मृतस्तदा तद्विधिपूर्वको दाहः कार्यः । स यथा - देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य धनिष्ठापंचकमरणसूचितवंशारिष्टनिरसनार्थं प्रेतस्योत्तमगतिप्राप्त्यर्थं पंचकमरणविधिं करिष्ये इति संकल्प्य प्रेतस्य मुखे आज्यबिंदून् प्रक्षिप्य दर्भमयाः पंच प्रतिमाः कृत्वा ऊर्णासूत्रेण सवेष्ट्य यवपिष्टेनानुलिप्य गंधमाल्यैरलंकृत्य प्रेतांगेषु न्यसेत् । तत्र प्रथमां शिरसि द्वितीयां नेत्रयोः तृतीयां वामकुक्षौ चतुर्थीं नाभौ पंचमीं पादयोः एवं निधाय तदुपरि नाममंत्रैर्घृताहुतीर्जुहुयात् । तत्र नामानि ‘ क्रमेण प्रेतवाहाय नमः प्रेतसखाय नमः प्रेताय० प्रेतभूमिपाय० प्रेतहर्त्रे नमः ’ इति ॥ तत उदकं दत्त्वा ‘ यमाय नमः रुद्राय नमः ’ इति मंत्राभ्यां प्रत्येकमाज्याहुतिद्वयं जुहुयात् । ततः पुत्तलैः सह विधिना प्रेतं दहेत् । आशौचांते पंचकशांतिं कुर्यात् एवं त्रिपादऋक्षेऽपि पिष्टमयपुत्तलत्रयं कृत्वा तेन सह प्रेतं दहेत् शांतिर्नावश्यकी । पंचके मृतस्य अश्विन्यादिषु दाहप्राप्तौ शांतिकमेवाशौचांते कार्यम् न पुत्तलविधिः ॥ इति पंचकमरणविधिः ॥
ततोऽग्निप्रज्वलनं कुर्यात् । तत्र मंत्रौ वाराहे - कृत्वा तु दुष्कृतं कर्म जानता वाऽप्यजानता । मृत्युकालवशं प्राप्य नरं पंचत्वमागतम् ॥ धर्माधर्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्वगात्राणि दिव्यान् लोकान्स गच्छतु ॥ इति मंत्राभ्यां पुंसः शिरो देशे स्त्रियाः पाददेशेऽग्निं दद्यात् । ततश्चितौ वस्त्रेण वायुः कार्यः, तत्र मंत्रः - त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः । उक्तः संहारकस्तस्मादेनं स्वर्गं मृतं नय ॥ ततः कपालमोक्षानंतरं जलपूरितमृन्मयकुंभं सव्यांसे गृहीत्वा अश्मना तस्य पृष्ठभागे छिद्रं कृत्वा पादतोऽप्रदक्षिणं त्रिः परिव्रजन् मंत्रं पठेत् - ‘ अयोध्या मथुरा माया काशी कांची अवंतिका ॥ पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः । ’ इति मंत्रेण प्रतिप्रदक्षिणं छिद्रं कुर्यात् । एवं त्रिः प्रदक्षिणीकृत्य प्रेतशिरोदेशे कुंभं स्फोटयित्वा पृष्ठतोऽनवेक्षमाणाः कनिष्ठपुरः सराः सव्यमावृत्य निर्गच्छेयुः । यत्र जलप्रवाहोदकं भवति तत्र गत्वा सर्वे स्नात्वा कर्ता आचम्य अश्मानं स्नापयित्वा दक्षिणाग्रकुशेषु निधाय तस्योपरि सतिलांजलित्रयं दक्षिणहस्तेन पितृतीर्थेन दद्यात् । यथा - अमुकगोत्र अमुकप्रेत दाहजनिततापोपशमनार्थं एष तिलतोयांजलिस्तवोपतिष्ठताम् । इत्यश्मनि त्रिवारं दद्यात् । ततः ‘ अमुकगोत्र अमुकप्रेत दाहजनिततृषोपशमनार्थं इदं ते वासोदकमुपतिष्ठतां ’ इत्यश्मनि वासोदकं दद्यात् । शववाहकाः सगोत्रिणः स्त्रियोऽपि मातापितृगुर्वाचार्यमातामहमातामहीभ्यो दद्युः । अन्ये सुह्रदो दद्युर्न वा । दाने तु नाश्मनियमः पतितव्रात्यादयो न दद्युः क्षत्रिया उदड्मुखाः शूद्रब्राह्मणादयो दक्षिणमुखा दद्युः । ततो बालपुरः सरा गृहं गत्वा निंबपत्राणि भक्षयित्वा दूर्वां अग्न्युदकगोमूत्रगोमयादि स्पृष्टा अश्मनि पादं दत्त्वा गृहं प्रविशेयुः ।
तद्दिने गृहपाचितं न भोक्तव्यं भोजनकाले भक्तमुष्टिं प्रेतस्य नामगोत्रमुच्चार्य भूमौ दत्त्वा उदकं दद्यात् । केचित्सायमुपरिपात्रे उदकं निधाय ‘ अमुकप्रेत अत्र स्नाहि ’ द्वितीयपात्रे दुग्धं निधाय ‘ इदं पिब ’ इत्याहुः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP