संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अथ पाथेयश्राद्धम्

अथान्त्येष्टिप्रयोगः - अथ पाथेयश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य तिथ्यादिसंकीर्त्य अमुकगोत्रस्य अमुकप्रेतस्य मनुष्यलोकात् प्रेतलोकगमनार्थं पाथेयश्राद्धं करिष्ये । तूष्णीं तिलोदकं कृत्वा । अमुकगोत्रस्य अमुकप्रेतस्य पाथेयश्राद्धे क्षणमुपतिष्ठतां एवं पाद्यार्घ्यार्चनाच्छादनातं दत्त्वा अमुकगोत्राय अमुकप्रेताय पाथेयश्राद्धे इदमामं
यथाशक्तिसोपस्करं सोदकुंभं सदक्षिणं सूतकांते दास्यमानमुपति० पिंडस्थाने दर्भासनं दत्त्वा तस्योपरि तिलोदकमु० अद्येत्यादि० अमुकगोत्राय अमुकप्रेताय पाथेयश्राद्धे अयं सक्तुपिंड उप० तस्योपरि तिलोदकमु० अमुकगोत्र अमुकप्रेत घृताभ्यंजनं अंजनं वासः सूत्रं अर्चनं० तिलान् तुलसी भृंगराजं चोप० अनादिनिधनो देवः शंखचक्रगदाधरः । अक्षय्यः पुंडरीकाक्षः प्रेतमुक्तिप्रदो भव ॥ इदं पिंडदानं सतिलोदकं प्रेताप्यायनमस्त्विति प्रतिवचनांतं कृत्वा ‘ अभिरम्यताम् ’ इति विसृज्य पिंडं प्रवाह्य स्नायात् । इति पाथेयश्राद्धम् ॥ इति प्रथमदिनविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP