संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
रजस्वला - सूतिका - मरणविधिः

अथान्त्येष्टिप्रयोगः - रजस्वला - सूतिका - मरणविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य देशकालौ संकीर्त्य अपसव्यं अमुकगोत्रायाः अमुकप्रेतायाः रजस्वलायाः ( सूतिकाया वा )
तदवस्थामरणनिमित्तजनितप्रत्यवायपरिहारद्वारा दाहाद्यौर्ध्वदेहिकयोग्यतासिद्ध्यर्थं चांद्रायणत्रयप्रायश्चित्तपूर्वकं शूर्पेणाष्टोत्तरशतस्नानानि कारयिष्ये इति संकल्प्य पुनः अद्येत्यादि० संकल्पितचांद्रायणप्रायश्चित्तं प्रतिचांद्रायणं तत्प्रत्याम्नायीभूतगोप्रदानं प्रतिगोदानं यथाशक्तिगोनिष्क्रयीभूतद्रव्यं सूतकांते दातुमहमुत्सृजे तेन श्री प्रेतपापापहा महाविष्णुः प्रीयतां इति संकल्प्य द्रव्यत्यागं कुर्यात् । ततो यवपिष्टेन प्रेतमनुलिप्य मलं प्रक्षाल्य स्वयं स्नात्वा शूर्पोदकेनाष्टशतवारं स्नापयित्वा पूर्ववस्त्रं परित्यज्य विधिना दहेत् यद्वा काष्ठवद्दग्ध्वाऽस्थिसंस्कारं कुर्यात् ॥ ॥ इति रजस्वला - सूतिकामरणविधिः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP