संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| अष्टदानानि अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - अष्टदानानि ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत अष्टदानानि Translation - भाषांतर तानि चैकादशेऽहनि आमान्नोदकुम्भ - गो - वस्त्र - भूमि - शय्या - छत्रासनानि कर्त्रा देयानि पवित्रपाणिराचम्य अद्येत्यादि० अमुकवर्मणः ( गुप्तस्य दासस्य वा ) अस्मत्पित्रादेः प्रेतत्वनिवृत्तिपूर्वकोत्तमलोकप्राप्त्यर्थं परलोके तत्तद्दानकल्पोक्तफलावाप्तयेऽष्टदानानि करिष्ये इति संकल्पयेत् । प्रतिदानं ब्राह्मणं सम्पूज्य दानपदार्थे तुलसीपत्रं निदध्यात् - आमान्नदानम् । अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः । अन्नं ब्रह्माखिलत्राणमस्तु जन्मनि जन्मनि ॥ इदमामान्नदानं अस्मत्पित्रादेः उत्तमलोकप्राप्त्यर्थं सुपूजिताय ब्राह्मणाय तुभ्यमहं संप्रददे दानसांगतासिद्ध्यर्थं इमां दक्षिणां च तुभ्यमहं संप्रददे तेन श्रीप्रेतपापापहा महाविष्णुः प्रीयताम् ॥ उदकुम्भदानम् - ब्राह्मणं संपूज्य - वारिपूर्णो घटश्चायं देवत्रयमयो यतः । प्रीयतां धर्मराजस्तु दानेनानेन पुण्यदः ॥ ‘ इदमुदकुम्भदानं तुलसीपत्राच्छादितं अस्मत्पित्रादेः ’ इत्युक्त्वा पूर्ववद्दद्यात् ॥ गोदानं तन्निष्क्रयीभूतं द्रव्यं वा - यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामनया गवा इति मंत्रेण पूर्ववद्दद्यात् ॥ वस्त्रदानम् - ‘ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालंकरणं वस्त्रमतः शांतिं प्रयच्छ मे ’ इति मंत्रेण ‘ परलोके लज्जानिवारणार्थं ’ इति विशेषोक्त्या वस्त्रदानं दद्यात् ॥ भूमिदानं तन्निष्क्रयीभूतं द्रव्यं वा - ‘ सर्वेषामाश्रया भूमिः० ’ इति मंत्रेण पूर्ववत् ॥ शय्यादानम् - यथा न कृष्णशयनं शून्यं सागरजायया । शय्यैतस्याप्यशून्याऽस्तु तथा जन्मनि जन्मनि । ‘ सुखशय्याप्राप्त्यर्थं ’ इति विशेषोक्त्या ब्राह्मणपूजनादिसर्वं पूर्ववत् । ( बृहच्छय्यादानविधिर्वक्ष्यमाणविषयः १६९ ) ॥ छत्रदानम् - इहामुत्रातपत्राणं कुर्वस्य केशव प्रभो । छत्रं त्वत्प्रीतये दत्तं तस्यास्तु च सदा शुभम् ॥ अत्रापि ‘ परलोके आतपनिवारणार्थं ’ इति विशेषोक्त्याऽऽमान्नदानवदिदं दानं देयम् । ‘ आसनदानम् - त्रिलोकीनाथ देवेश सर्वभूतकृपानिधे । आसनेन च तुष्यस्व प्रयच्छ तस्य वांच्छितम् । इति मंत्रेण ‘ परलोके स्वासनसुस्थितिप्राप्त्यर्थं ’ इति विशेषोक्तिं नियोज्य दद्यात् ॥ इत्यष्टदानानि ॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP